________________
१२४
सम्मति० काण्ड 1, गा० २. स्पादिका, काचिच्च नेत्यनश्वरात्मानं सा जनयेत् , यथा विलक्षणात्पशुविशेषशृङ्गादेव शरो भवति, न सर्वस्मादित्यायातं क्षणिकाक्षणिकस्वरूपत्वं वस्तुन इति । अथान्ते विनाशित्वेनोपलब्धानां प्रतिक्षणं ध्वंसो यदि न स्यात्तन्तेऽपि क्षणे ध्वंसप्रतीतिर्नोपपद्येत , द्वितीयक्षणेऽपि भावस्य स्थितिस्वीकारे सर्वदा स्थितिप्रसङ्गात् , तथाहि-किं भावस्य स्वरूपम् , द्विक्षणस्थायित्वमिति चेत्, तर्हि द्वितीयेऽपि क्षणे द्विक्षणस्थायित्वस्वभावस्यानतिक्रम एव, अतिक्रमे वा प्रथमक्षणे द्विक्षणस्थायित्वस्वभावस्य द्वितीयक्षणे एकक्षणस्थास्नुस्वभावस्य च भेदेन धर्मभेदाद्धर्मिणोरपि भिन्नत्वं स्यात् , तथा चायातं क्षणिकत्वमित्यतो द्वितीयेऽपि क्षणे तत्स्वभावस्स्वीकरणीय एव, स च स्वभावो न तृतीयक्षणवृत्तित्वमन्तरेण, एवं तृतीयचतुर्थाद्युत्तरोसरक्षणेऽपि तत्स्वमावानपगम एव, अपगमे वा क्षणिकत्वप्रसङ्गः पूर्वोक्तरीत्या तदवस्थ इत्यासंसारं भावस्य स्थितेरविनाशाद्विनाशप्रतीतिदुर्लभा स्यात् , न चैवम् , अतस्तत्प्रतीत्यन्यथाऽनुपपश्या प्रतिक्षणं विनाशस्सिद्ध्यति । किञ्चाये क्षणे योऽभूत्वा भवनलक्षणस्वभावस्म एव थेद् द्वितीयेऽपि क्षणे तदा तदाऽप्युत्पत्तिरेव, न स्थितिरित्यायात क्षणिकत्वम् , द्वितीयेऽपि क्षणे स्थितेरभावात् । अथ प्रथमक्षपणे जन्मैव, न स्थितिः, द्वितीयेऽपि क्षणे स्थास्तुस्वभाव एव नोत्पदिष्णुस्वभाव इति विरुद्धधर्माध्यासाभावेन न क्षणिकत्वमिति चेत्, तकस्मिन् विरुद्धधर्माध्यासप्रसङ्गेन धर्मद्वयाऽयोगेन तद्धर्मिणोभिन्नत्वं वाच्यम् , एवञ्च यस्य जन्म न तस्य स्थितिर्यस्य स्थिति तस्यैव जन्म किन्त्वन्यस्यैव, तथा च जन्मक्षणवृत्तित्वतदन्यक्षणवृत्तित्वप्रयुक्तस्थितेरमावादायातं क्षणिकत्वम् । किञ्च परस्परभिन्नयोः पूर्वकालसम्बन्धित्वापरकालसम्बन्धित्वयोर्विरुद्धस्वभावत्वेन तद्भेदाद्धर्मिणोरपि भिन्नत्वमिति स्वभावभेदेन क्षणिकत्वस्यैव सिद्धेस्सिद्धा विनाशं प्रत्यनपेक्षा भावस्येति चेत् , मैवम् , स्वहेतोरेव भूतभविष्यवर्तमानस्वभावत्वेन त्रिकालस्थायितया प्रथमक्षण एवोत्पन्नो भावः, तथाहि-भूतक्षमेवमस्तिष्ठन् वर्तमानक्षणे भविष्यत्क्षणे स्थास्यन् स्वभाव इति त्रिस्वभावतया समुपजातो मावः, न च परापरकालसम्बन्धित्वस्य विरुद्धधर्मत्वम् , तत्स्वभावतयैवोत्पन्नत्वात् , अथ भविष्यत्क्षणे स्थास्यन् इत्यस्य भविष्यत्कालीनस्थितिमान् घट इत्यर्थः, स च न युक्त्युपपन्नः, यतस्समानकालीनयोरेव विशेषणविशेष्यभावः, न तु भिन्नकालीनयोरपि, तयोस्सम्बन्धायोगात् , तथा च भविष्यत्कालावच्छिन्नस्थितेर्वर्तमानकालेऽभावेन न तद्विशेष्यत्व. मिदानीन्तनघटस्य, असदेतत् , तथाप्रतीत्यनुरोधेन तत्स्वीकारात् , तथा चानागतकालस्येदानीमभावेन तदवच्छिन्नस्थित्यभावेऽपि तद्विशेष्यत्वं वर्तमानघटादिभावस्याविरुद्धमेव, अन्यथा सव्येतरगोविषाणवत् समानकालीनयोरपि सम्बन्धायोगस्समान एवेति विशेषणविशेष्यभावाऽभाव एव, तथाहि-किं समानकालीनयोः कार्यकारणभावस्तादात्म्यं वा सम्बन्धः, नाद्यः, पूर्वापरवर्तिनोरेव तत्स्वीकारेण सिद्धान्तव्याकोपप्रसङ्गात् , नापि द्वितीया, सर्वथाऽभेदे तदयोगात् , अन्यथा घटस्यापि घटनादात्म्यसम्बन्धात् घटविशेष्यत्वापत्त्या
"Aho Shrutgyanam"