________________
१२३
सम्मतिः काण्ड , गा. २७ शब्दधर्मिभूतस्वलक्षणात्मकशब्दाभिधायिशब्दयोरेकार्थाभिधायित्वात् घटकलशशब्दवत् , अन्यथा प्रतिज्ञार्थंकदेशताऽपि न स्यात् । तम भवदभिप्रायेण सचक्षणिकत्वयोः कृतकत्वाऽनित्यत्वयोस्साध्यसाधनभावा, भेदाभावात् । अथ अनुपलब्धिहेतुः कार्यहेतुश्च यत्र तत्रैव भेदनियतस्सम्बन्धः, अत्र तु स्वभाव एव हेतुरिति वृक्षशिंशपयोरिव परमार्थतः सत्क्षणिकयोरनित्यकृतकयोरभेदात्तनियतस्तादात्म्यसम्बन्ध एव, तथा च सन्चक्षणिकत्वयोरनित्यत्वकृतकस्वयोर्भेद एव कल्पनानिर्मितो न त्वमेदः, अतो विकल्पयशाद्धर्म योभिन्नत्वाद्वास्तविका. मेदनियततादात्म्यसम्बन्धाच गम्यगमकमाव इति सत्वं सच्चाध्यवसायिना निश्चयेन भेदेन निश्चीयमानं क्षणिकत्वाध्यवसायिनिश्चयेन भिन्नतया निश्चीयमानस्य क्षणिकत्वस्य गमकम् , एवमेव कृतकत्वमनित्यत्वस्य, यतो विकल्पस्यानुभवद्वारोत्पन्नत्वेनाऽनुभवद्वारा स्वलक्षणविषयत्वं, एवमनुभवद्वारा निश्चितविकल्पविषयत्वेन स्वलक्षणस्य निश्चितरूपत्वामा. श्रयासिद्धत्वम् , सचक्षणिकत्वयोः कृतकत्वानित्यत्वयोश्च मिनविकल्पविषयत्वेन काल्पनिकभेदरूपत्वान्न वा गम्यगमकमावाभावः, अव्यभिचारश्च साध्यसाधनयोर्वास्तविकाभेदनिबन्धनतादात्म्यसम्बन्धादिति चेत्, स्यादेतत् , यदि स्वलक्षणस्य कुतश्चित्प्रमाणात् सिद्धि स्यात्, न चैवं निरंशं तत्सिद्धम् , तथाभूतस्य स्वप्नेऽप्यप्रतीयमानत्वात् , याग्भूतं कृतक. स्वाद्यनेकधर्माध्यासितं प्रत्यक्षे सम्प्रतिभाति तन निरंश, यतस्तदनुभवद्वाराऽऽयातसच. क्षणिकत्वादिविकल्पप्रतिभासिना धर्माणामव्यभिचारात् साध्यसाधनभाव उपपद्येत, न चानुमानत एव निरंशस्वलक्षणसिद्धिरिति वाच्यम्, व्याप्यसिद्धावनुमानस्यैवाप्रवृत्तेः । अथ विनाशः स्वप्रतियोग्युत्पत्तिक्षणाव्यवहितोत्तरक्षणभावी स्वप्रतियोग्युत्तरभाविभावानपेक्षा स्वात्, यद् यदुत्पादने स्त्रोत्तरवर्तिभावानपेक्षं तत्स्वाव्यत्रहितोत्तरक्षण एव तदुत्पादकम्, यथारोत्पादनेऽन्त्या सामग्रीत्यनुमानतः क्षणिकत्वं सेत्स्यतीति चेत्, तदप्यसङ्गतम् , शाल्यहरोत्पादने समग्रसामग्रीसमवधानदशायामनपेक्षेष्वपि यवबीजादिषु तदुत्पादकत्वाभावेन हेतोरनैकान्तिकत्वात् , अथ यद् यदुत्पादकस्वभावं सद् यदुत्पादने स्वोत्तरभाविभावानपेक्षं तत् स्वाव्यवहितोत्तरक्षणे तदुत्पादकमेवेति नोक्तदोषः, यववीजादीनां शाल्य
कुरोत्पादकस्वभावामावेन तादृशस्वभावविशिष्टतादृशानपेक्षत्वस्य हेतोस्तत्राभावादिति चेत्, तर्हि यस्मिन् क्षणे विनश्यत्स्वभावो यो भावस्तदव्यवहितोत्तरक्षणे तस्य नाशो मातु, यश्च कृतकोऽपि भावः प्रथमक्षणे न तथास्वभावस्तस्य न तदव्यवहितोत्तरक्षणे ध्वंस इति न सर्वथा क्षणिकत्वम् , तथा च यत्सत्तक्षणिकमिति व्याप्त्यसिद्धेन वस्तुमात्रे क्षणिकत्वं सिद्ध्यति । अथ कार्यक्रमः स्वातिरिक्तकारणक्रमात् , न तु स्वतः, यत्र न स्वातिरिक्तकारणकमो न तत्र कार्यक्रमः, तथा च भावस्य स्वविनाशे न स्वातिरिक्तकारणापेक्षा, अतः कारणक्रमाभावाम भावस्य धंसोत्पादने विलम्ब इत्यायातं क्षणिकत्वमिति चेत्, मैवम्, विभिन्नशक्तिमत्तया विचित्रप्रकारास्सामग्यो दृश्यन्ते, तत्र काचित्सामग्री स्त्राव्यवहितोत्तरक्षणे ध्वंसो.
"Aho Shrutgyanam"