________________
१२२
सम्मति० काण्ड १, गा० २७ सञ्चहेतोः क्षणिकत्वस्य कृतकत्वहेतोश्वामित्यत्वस्यासिद्धेः। अथ सत्तक्षणिकत्वयोः कृतकत्वाऽनिस्यत्वयोश्वाऽतव्यावृत्तिलक्षणतत्तव्यावृत्तिरूपतया तद्भेदेन मेदस्वीकारानैष दोष इति चेत्, तदप्यसत्, यतस्तत्तद्व्यावृत्तिभेदो न स्वतः, तासां तुच्छरूपत्वेनाभ्युपगमात्स्वतो भेदस्याऽयोगात् , योगे वा भेदस्य तव्यावृत्तिभेदकत्वाद्वस्तुत्वं स्यात् , अन्यथा भेदस्य तत्तद्व्यावृत्तिभेदकत्वमेव न स्यात् , असद्रूपत्वात् , तथा च वस्तुत्वस्यानेकान्तात्मकत्वव्याप्यत्वेन व्याप्यस्य तस्य सत्वे व्यापकस्यानेकान्तात्मकत्वस्यापि सवात्तत्सिद्धेस्सिद्ध नस्समीहितम, किश्च तत्तव्यावृत्तीनामिव घटपटादिवस्तूनामेव स्वतो भेदोऽस्तु किमन्तर्गडुतत्तव्यावृत्तिमेदकल्पनया । नन्वेवं तनुगतप्रतीतिः कथं स्थादिति चेत् , उच्यते वस्तुनस्सामान्यविशेषोभयात्मकतयाऽनेकान्तात्मकत्वात्सामान्यांशमादायानुगतप्रतीत्युपपत्तिस्यादेवेति । अथ व्य. वच्छेद्यभेदात्तत्तघ्यावृत्तिभेद इत्यपि न युक्तम् , भवन्मते क्षणिकेतरव्यावृत्तेस्सदितरव्यावृत्तेश्व एवमनित्येतरव्यावृत्तेः कृतकेतरव्यावृत्तश्च व्यवच्छेद्यस्य परमार्थभूतस्य कस्यचिदभावातासां भेदाभावप्रसक्ते, अथ व्यवच्छेद्यस्य पारमार्थिकस्य कस्यचिदमावेऽपि तस्य कल्पनया सवमस्त्येवेति काल्पनिकव्यवच्छेद्यभेदाढ़ेदोऽस्त्विति चेत् , तदपि न सङ्गतम् , व्यवच्छे. घस्य नित्यस्य कल्पना नित्येतरल्यावृत्या, अन्यथा नित्यानित्ययोरेकत्वापत्तिस्स्यात् , तथा च नित्येतरध्यावृत्त्यनित्येतल्यावृत्योरन्योन्यव्यवच्छेद्यभेदेन भेदव्यवस्थितौ कथं नान्योन्याश्रयः, तथाहि-कल्पितनित्यस्य नित्येतभिन्नतया सिद्धौ तद्वयवच्छेदेनानित्यत्वसिद्धिः, अनित्येतरभिन्नतया अनित्यत्वस्य सिद्धौ च तक्ष्यवच्छेदेन नित्यत्वसिद्धिरित्यन्योन्यापेक्ष. स्वादन्योन्याश्रयदोषापत्तितो नान्यतरस्यापि सिद्धिः, व्यावृत्योर्मिन्नतया चाऽसिद्धौ न साध्यसाधनभाव इत्यतो न क्षणिकत्वसिद्धिः। अथ तत्तद्वयावृत्तीनां व्यवच्छेद्यभेदाढ़ेदो मास्तु, बुद्धिप्रतिभासभेदात्तु स स्यादेव तेन च साध्यहेत्वोर्भद इति भेदनिबन्धनसाध्य. साधनभावात्सत्वहेतुना क्षणिकत्वसिद्धिरिति चेत्, तर्हि, शब्द इति बुद्धिप्रतिभासाच्छब्दत्वबुद्धिप्रतिभासस्य भेदेन शब्दाच्छन्दत्वस्य भेदात्तस्य साधनमावस्स्यात् , तथा च शब्दोऽनित्यः शब्दत्वादित्याद्यनुमानस्यापि प्रामाणिकत्वापत्या न शब्दत्वहेतुः प्रतिज्ञार्थक देशाऽसिद्धो हेतुस्स्यात् , अयम्भाव:-प्रकृते पक्षेण शब्देन समं शब्दत्वहेतोरैक्यमा. श्रित्य पक्षहेत्वोरैक्यात्प्रतिज्ञार्थंकदेशत्वं शब्दत्वहेतोर्यदिष्टं तन्त्र स्यात् , पूर्वोक्तनीत्या शब्दशब्दत्वयोर्भेदाभ्युपगमात् । न च शब्द इति बुद्धिप्रतिभासाच्छन्दत्वमिति प्रतिभासस्य भेदो नेति वाच्यम् , आकारभेदस्य ज्ञानभेदप्रयोजकस्याऽत्रापि सद्भावात् , अन्यथैकमेव ज्ञानं स्यात्, आकारभेदेऽपि बुद्धिप्रतिभासमेदानभ्युपगमे विषयभेदासिद्ध्या शब्दशन्दत्वयोधर्मधार्मभाव एव न स्यात् । अथ प्रतिभास भेदेऽपि व्यवच्छेद्यभेदाभावान्न शब्दशब्दत्वयोर्मेद इति शब्दत्वहेतोः प्रतिज्ञार्थैकदेशत्वम् , नन्वेवं तर्हि भावाभिधायी शब्दत्वशब्दो द्रव्याभिधायी शब्दशब्द इति तयोः पर्यायत्वं स्यात् , धर्मभूतशब्दत्वाभिधायि
"Aho Shrutgyanam"