________________
सम्मति काण्ड
गा० २७
नासन्तः, न हि स्वतोऽविद्यमानाः शशविषाणादयः कचिदपि शक्यन्ते कर्तुम् , सिकतासु वा तैलम् , असदुत्पत्तौ तु सर्वत्राऽसत्वाऽविशेषानियमाभावात्सर्वस्मात्सर्वकार्योत्पत्तिस्स्या दिति, तन्न युक्तियुक्तम् , यता पूर्व सदेव कार्य चेत् , तदा कारणव्यापारेण नैव किमपि कर्तव्यमिति तद्वैफल्यमेव, किश्च सदर्थविषये कारकव्यापार इष्यमाणे कारकव्यापारानु. परमप्रसङ्गः, किं हि तदोपलक्ष्य कारकाणि निवत्तरन् । कार्यसत्तामिति घेत, न, त्वन्मते तस्याः प्रागपि भावात् , अथ पूर्व शक्तिरूपेण कार्य सत् नाभिव्यक्त्यापीत्यनभिव्यक्तं तत्तेनाभिव्यक्तीक्रियत इति तत्साफल्यमेवेति चेत् , मैवम् , यतस्साऽभिव्यक्तिः सती चेत् , तदा त. स्करणायोगात कारणव्यापारवैफल्यमेव, असती चेत् , तदा पूर्वमसत्यास्तस्यास्तेन सदूपत्वक रणेन असद करणादित्यादिमाङ्खयोक्तसिद्धान्तभङ्गप्रसङ्गः, अथ कारणव्यापारेणावरणविनाशः क्रियत इति तत्साफल्यमित्यपि पक्षो न युक्तः, यतोऽन्धकारपिहितघटानुपलम्भे आवारकी. भूताऽन्धकारोपलम्भवत् कस्यचित्कार्यावारकस्योपलम्भस्यात् न च तदुपलम्मः, येन तद्वि. नाशकरणेन कारणव्यापारसाफल्यं स्यात् , न च कारणमेव कार्यावारकमित्यपि वक्तुं शक्यम् , तस्य तदुपकारकत्वेन प्रसिद्धेः। ननु यद् यद्दर्शनप्रतिबन्धकं तत्तदावारकं, यथा घट. दर्शनप्रतिबन्धकमन्धकारं घटावारकं, कार्यदर्शनप्रतिवन्धकश्च कारणमिति तत्तदावारकमिति चेत् , तर्हि चक्षुषा घटाऽदर्शनेऽपि तत्स्पार्शनप्रत्यक्षयचक्षुषा कार्यादर्शनेऽपि तत्स्पार्शनप्रत्यक्षप्रसङ्गमस्यात् , अथ कार्यदर्शनप्रतिबन्धकत्वेन कारण कार्यावारकं न, किन्तु पटादिवद् व्यवधायकत्वेनेति चेत्, तदपि न युक्तम् , व्यवधायकस्य पटस्य भिल्यादेवा बंसे घटादेपलम्भवद् व्यवधायकस्य कारणीभूतमृत्पिण्डस्य ध्वंसेऽपि घटकार्योपलब्धिप्रसङ्गः, क्षीरनीरादिवदात्यन्तिकसंश्लेषेण तदावारकत्वे च तत्पृथग्भावं विना तदनुपलब्धिप्रसङ्गा, निराकरिष्यते चाग्रे सत्कार्यबाद इति न किञ्चिदेतत् । एतेन कारणमेव स्वाऽभिन्न कार्यतया परिणमत इत्येवं लक्षणानर्थान्तरपरिणामवादोऽपि प्रतिक्षिप्तोऽवसेयः, अभेदे विशेषणविशेष्यभावस्येव परिणामपरिणामिभावस्याप्यऽयोगात् । यदपि कारमेऽसदेव कार्य सामग्रीत उत्पद्यत इत्यसत्कार्यवादात्मकं नैयायिकवैशेषिकमतं तदपि " असतः सत्तासमवाय उत्पत्तिरित्युत्पत्तिलक्षणस्य समवायघटितत्वेन समवायस्यकान्तभिन्नावयविनश्व पूर्व निरासकरणानिरस्तमवसेयम् । कारणे सर्वथाऽसदेव क्षणिक कार्य कुर्वद्रूपात्मकपूर्वकारणादुपजायत इत्यमत्कार्यवादात्मकं बौद्धमतमपि न सङ्गतम् , एकान्तक्षणिकवादस्यैवाऽसिद्धेः । अथ यत्सत्तक्षणिकमिति व्याप्स्सचहेतोः क्षणिकत्वसिद्धिः, एवं कृतकत्वहेतोरप्यनित्य स्वसिद्ध्या क्षणिकत्वसिद्धिरिति चेत्, मैवम् , साध्यसाधनभावो भेदनिवन्धन एव, अन्यथा स्वात्मना स्वसिद्धिस्स्यादिति यत्सत्तक्षणिकमित्यत्र यत्कृतकं तदनित्यमित्यत्र च भवन्मते पक्षमाध्यहेतूनां वस्तुगत्या स्वलक्षणरूपत्वेनाभेदात् साध्यसाधनधर्मभेदाऽसिद्धौ
"Aho Shrutgyanam"