________________
सम्मति० कान्ड १, गा० २७ इहरा समूहसिद्धो, परिणामकओव्व जो जहिं अत्थो।
ते तं च ण तं तं चे-वत्ति णियमेण मिच्छत्तं ॥ २७ ॥ "इहरा' इतरथा उक्तप्रकाराऽनभ्युपगमे, 'समूहसिद्धो' रत्नानां समूहे सति सिद्धः निष्पमा समूहसिद्धः, स क इति चेद्, रत्नादिष्वावल्यादिः, तत्र तस्य सद्भावात्, रत्न मालादिरूपेण रत्नादीनामाविर्भावात् , 'परिणामकओब' परिणामकृतो वा, यथा क्षीरादिषु दध्यादिः, तस्य तत्परिणामरूपत्वात् , क्षीरादीनामेव दयादिरूपेण परिणमनादिति । वस्तु. गत्या सर्वस्यैव परमाणुसमूहपरिणामोभयकृतत्वेऽपि 'समूहसिद्धः' 'परिणामकतो वा' इति विकल्पामिधानं किश्चित्कार्य समूहकृतं किञ्चिच्च परिणामकृतमिति लौकिकव्यवहारापेक्षया, "जो जहिं अत्थो" यो यत्रार्थः, य आवल्यादिर्दध्यादिर्वा यत्र रत्नादिषु क्षीरादिषु वा, 'ते तं च ते रत्नादयस्तदेवावल्यादिकं, समूहसमूहिनोरभेदात् , क्षीरादिकंवा तद्दध्यादिकमेव, तस्य तत्परिणामरूपत्वात्, परिणामपरिणामिनोवाऽभेदादिति सत्कार्यवादः । *ण तं'न कारणमेव कार्यम् , किन्तु तद्भिन्नमसदेवोत्पद्यते तदित्यसत्कार्यवादः, 'तं चेवत्ति' तदेव च, न कार्य न वा कारणम् , किन्तु द्रव्यमानं तचमिति तदेवेत्यपरे, ब्रह्ममात्रं वा तत्वमित्यद्वैतवादः । " इति णियमेण मिच्छत्तं" 'इति' एवं नियमेनैकान्ताभ्युपगमे सति मिथ्यात्वम् , सर्व एव एते मिथ्यावादाः, नियमेनेत्युक्त्या कथश्चिदभ्युपगमे अर्थात्कारणं कश्चित्कार्यात्मकम् , परिणामः कथञ्चित्परिणाम्यात्मकः, कार्य कथश्चिन्न कारणात्मक, कारण वा कथश्चिन्न कार्यात्मकम् , एवं परिणामोऽपि कथञ्चिन्न परिणाम्यात्मका, एवं द्रव्यतत्रमपि कथञ्चिन्न कार्य न वा कारणमित्येवमभ्युपगमे सर्वे चैते सम्यग्वादा एवेत्युक्तं भवति । . “यदुत्पादव्ययध्रौव्य-योगितां न विभत्ति वै ।
तादृशं शशशृङ्गादि-रूपमेव परं यदि ॥१॥" इत्युत्पादादिसिद्धिग्रन्थवचनाद् न किमपि वस्तु तथाविधं यन्न व्येति नोत्पद्यते न ध्रुवति, देवभावेन विनश्य मनुष्यभावेनोत्पन्नोऽहम् , कुण्डलभावेन विनश्याङ्गदभावेन हेमो. त्पनमित्याउनुभवाद्वस्तुमात्रस्योत्पादव्ययधौव्यात्मकत्रितयधर्मवत्यैव सिद्धेस्तत्तद्वस्तु तत्तदपेक्षया कार्यमकार्यश्च, कारणमकारणश्च, कारणे कार्य सञ्चासच, कारणं कार्यकाले विनाशवत् अविनाशवच, तथैव प्रतीतेरन्यथा चाप्रतीतेः। तदेवं तत्तद्वस्तुनोऽनुगतव्यावृत्तस्वरूपतयेकानेकात्मकत्वान्मण्यनुस्यूतरत्नावलीदृष्टान्तस्याप्येकानेकात्मतयैव सिद्धेनं साध्यसमा त्वमिति तदृष्टान्तवलादाऽऽस्मानुस्यूतनयप्रमाणात्मकदीर्घोपयोगरूपचैतन्यस्याप्यापेक्षिकैकाऽनेकात्मकतयैव सिद्धिरप्यप्रत्यूहेति सिद्धम् । ननु पूर्वोक्ततसन्मतेषु नियमेन मिथ्या. स्वे किं बीजमिति चेत् , तदप्याकर्णय सावधानीभूय, तथाहि-दुग्धादौ कारणेः दध्यादिक कार्य सदेव' इति साथमतं, तन्मते हि सर्व एव भावारस्वतस्सन्त एव कारकैः क्रियन्ते,
"Aho Shrutgyanam"