________________
सम्मति० काण्ड १, गा. २६
११९
अथ-"असदकरणादुपादान,-ग्रहणात्सर्वसम्भवाभावात् ।।
शक्तस्य शक्यकरणात्, कारणभावाच सत्कार्यम् ॥ १॥" सायतच्चकौमुद्यामित्युक्तेः कारणेषु शक्तिरूपेण सदेव कार्यमभिव्यक्तस्वरूपतयोस्पद्यते, दुग्धे दधिवत् तिलेषु तैलवदिति रत्नादिकारणेष्वावल्यादिकार्य सदेवेति साख्यः । दुग्धादेरेव दध्यादिरूपेणेव कारणानामेव कार्यरूपेणाव्यक्तस्वरूपतया व्यवस्थितत्वात् तदव्यतिरिक्तं विकारमात्रं कार्य परिणमत एव, अर्थात् कारणमेव स्वाभिन्न कार्यरूपतया परिणमत इति साङ्ख्यविशेषः, अभूत्वा भवनं प्रागसतः सत्तासम्बन्धो वोत्पत्तिरित्युत्पत्तिपूर्वकालावच्छेदेन कारणे नैव कार्य विद्यते, न वा कारणमेव कार्यरूपेण परिणमते, किन्तु समवायिकारणात् पृथग्भूतं तत्र चासत् सामग्रीतः समवेतं कार्यमुत्पद्यते, तच्च न स्वतो विनश्यति किन्तु विनाशसामग्येति यावत्तदभावस्तावत्तन विनश्यतीति स्थिरभूतमिति नेयायिकवैशेषिकादयः, बौद्धा अपि तत्तत्कार्यानुकूलकुर्वद्रूपात्मकतत्तन्निमित्तकारण महकतोपादानकारणेन तत्रासत्कार्य क्षणिकमुत्पद्यते, स्वोत्पत्युत्तरकालभाविभावानपेक्षणेन स्वोत्पस्यव्यवहितोत्तरक्षणे निर्हेतुकस्यैव तद्विनाशस्य भावादित्यसत्कार्यवादं प्रतिपद्यन्ते । न कार्य कारणं वाऽस्ति, द्रव्यमात्रमेव तत्वमित्यपरे, ब्रह्मैव सत् , जगत्तु तद्विवर्तरूपम् , मायायाचाऽज्ञानपदवाच्याया विकाररूपम् , तथा च ब्रह्मणो विवत्तॊऽज्ञानविकारश्च जगदिति वेदान्तिनो वदन्ति । तथा चोक्तम्
"सतत्त्वतोऽन्यथाप्रथा, विकार इत्युदीरितः ।
अतत्वतोऽन्यथाप्रथा, विवत इत्युदीरितः ॥" सतत्वतः तत्वविशिष्टस्य अन्यथाप्रथाऽन्यथाभावो विकार इति प्रोच्यते, यथा मृद. स्तत्वं मृत्त्वं तद्विशिष्टाया मृदः घटभाव:-घटाकारपरिणामो मृद्विकार इत्युच्यते, यथा वाऽज्ञानस्य मायाया जगदाकारेण परिणामोऽज्ञानविकार इत्युच्यते । अतत्वतस्तवरहितस्यान्यथाप्रथाऽन्यथाभावो विवर्त्त इत्युच्यते, यथा लूताशरीरावच्छिन्नचेतनस्य तन्त्वाकार. परिणामो न भवति किन्तु लूताशरीरस्य तथाभावः, अतो लूतापदवाच्यचैतन्यस्य तन्त्वा. कारो विवर्त इत्युच्यते, लूताशरीरस्य तु विकार इत्येवोच्यते, एवमज्ञानोपाधिविशिष्टस्य ब्रमणो जगदाकारेण परिणामाऽभावेऽपि जगदाकारेण भासमानत्वात् जगत् ब्रह्मणो विवर्त इत्येवोच्यते, अज्ञानस्य तु साक्षादेव जगदाकारेण परिणममानत्वादज्ञानविकारो जगदित्युच्यते । इत्येवं नानाभिप्रायवन्त एकान्तवादिनो रत्नावलीदृष्टान्तस्यापि पूर्वोपदर्शितैका. नेकात्मकत्वं नैव मन्यन्ते इति तद्रूपतया स्वयमेवासिद्धस्स परस्परसाकाङ्क्षसकलनय जनित. नयप्रमाणात्मकदीर्घोपयोगरूपैकचैतन्यात्मकदार्टान्तिकसिद्धये न प्रभविष्णुः, तस्य साध्यसमत्वादित्येवमेकान्ततत्तद्वादिमतप्रदर्शनपूर्वकं तन्मतनिरासायाह
"Aho Shrutgyanam"