________________
११८
सम्मति• काण 1, गा० २६ अयम्भाव:-साकाससकलनयवाक्यजनितनयप्रमाणात्मक चैतन्यं सुनयपदवाच्यं प्रमाणपदवाच्यं वेत्येवंप्रकारकशक्तिज्ञानविकलाना लौकिकानां तत्समन्वितानां परीक्षकाणां च चैतन्यमेकानेकात्मकं, तथा प्रतीयमानत्वात् , यदेकानेकात्मकतया प्रतीयते तदेकानेकात्मकम् , यथा क्रमेणेकतन्त्वनुस्यूतरत्नमन्निवेशनिष्पनरत्नावली, अत्र यः खलु क्रमिकतन्त्वनुस्यूत. रत्नसमूहा स समूहसमूहिनां कथञ्चिद्भेदाभेदात्मकत्वाद एकानेकात्मकः, तत्र रत्ना. वलीत्वेनैकत्वं प्रत्येकानुस्यूतानेकमण्यात्मकत्वेनानेकत्वं सर्वैरप्यविवादास्पदतया स्वीकृत. मिति तदृष्टान्तवलेन दीर्घोपयोगरूपचैतन्यस्यापि प्रमाणस्वरूपतयकत्वं नयस्वरूपतया चानेकत्वमित्येवमुक्तचैतन्ये एकानेकात्मकत्वस्य सुखेनानायासेन भवति प्रतिपत्तिरिति रत्नावलीदृष्टान्तः सुखप्रतिपत्त्युपाय इति दृष्टान्तस्यैको गुणः । द्वितीयश्च यथा क्रमिकसनिवेशविशिष्टरत्नसमूहस्य कथञ्चित् समूहिस्वरूपतयाऽनेकस्यापि रत्नावलीयमित्येकव्यपदेश. जन्यं रत्नावलीस्वरूपसमूहापेक्षयकत्वेन ज्ञानं प्रमाणम् , तजनकत्वात्तद्वाक्यमपि प्रमाणम् , तथा साकासकलनयवाक्यजनितनयज्ञानानामपि दीधैंकोपयोगरूपताश्रयणेनैकत्वमाश्रित्य प्रमाणमित्याख्याजनितं ज्ञानं प्रमाणविषयकं प्रमात्मकम् , तजनकत्वात्प्रमाणनयापेक्षयकानेकास्मकचैतन्यस्वरूपप्रतिपादकवाक्यं नैश्चयिकवचनं प्रमाणमित्येवं या तद्गतप्रामाण्यप्रत्तिपत्तिस्तजनकत्वलक्षणप्रामाण्यप्रदर्शकत्वात्मको गुणः । एतदुभयमपि दृष्टान्ताऽप्रदर्शने सति न सम्भवति, न हि स्वरूपसभेव दृष्टान्तो दार्शन्तिकं द्रढयितुं समर्थः, अतस्स स्वरूपप्रतिपत्तये प्रज्ञापनाविषयः प्ररूपणाविषयो भवति, ततश्च तथाज्ञातस्स स्वसदृशं दार्शन्तिकं सापयितुं प्रगल्भ इति प्रज्ञापनाविषयत्वं तस्य तृतीयो गुणः।
'तेण वीसत्थमुवणीओ'तेन कारणेन विश्वस्तं निश्शंकं यथा ज्ञायते तथा, ज्ञापयितुमिति शेषः । उपनीत उपदर्शितो दृष्टान्तः । न चावल्यवस्थातः प्रागुत्तरकाले च रस्नानां नियतोपलम्भात् प्रमाणावस्थायाश्च प्रागुत्तरकालं नयानां तदभावादुदाहरणवैषम्यमिति वाच्यम् , प्रमाणस्यैकानेकात्मकत्वोपपत्तिमात्रार्थमावल्यवस्थात्मकोदाहरणोपादानात् , सर्वथा साम्ये दृष्टान्तदाान्तिकभावानुपपत्तेरिति । एतेन रत्नावलीदृष्टान्तेन समुदिता नयास्सम्यक्त्वव्यपदेशं लभन्ते, अर्थात् प्रमाणमित्याख्यामवाप्नुवन्तीत्युक्तं भवति, तन्न युक्तियुक्तम् , यतो रत्नावल्यां दलप्रचयलक्षणस्समुदायस्सम्भवति, न च नयानां स युक्तः, तेषां ज्ञानरूपत्वेनेकदा रत्नानामिव तत्सम्भवाभावात् , एककालावच्छेदेनैकस्यैव ज्ञानस्योपगमा. दित्यपि निरस्तम्, न पत्र दलप्रचयलक्षणस्समुदाय उच्यते, किन्वितरनयविषयीकृतरूपाव्यवच्छेदकत्वलक्षणा, उक्ताव्यवच्छेदकत्वमेव चान्योन्यनिश्रितत्वं गीयते, तच प्रागेवोक्तम् , इदमेव च प्रवृत्तिनिमित्तीकृत्य तत्र सम्यक्त्वपदं प्रवर्तते, रत्नावलीदृष्टान्तोऽपि निमित्त मेदेन व्यपदेशभेदज्ञापनार्थमेव प्रोक्तः, न त्वेकैकव्यक्तिप्रचयलक्षणसमुदायस्वरूपज्ञापनार्थमित्युक्तदोषाभावात् ।। २६ ।।
"Aho Shrutgyanam"