________________
सम्मति० काण्ड १, गा० २६
११७
,
चकशब्दपरः । तथा च यद्यदनुरूपं तत्र तत्र विनियुक्तः प्रयुक्तस्तद्वाचकशब्दो येषां ते तथा, अन्योन्यविषयाऽपरित्यागवृत्तय इति यावत् एवम्भूतास्सर्वे नया: " सम्मसणसहं लहंति " सम्यग्दर्शनशब्दं प्रमाणमित्याख्यां लभन्ते ' ण विसेससण्णाओ' न विशेषसञ्ज्ञाः, सङ्ग्रहादि प्रत्येकतत्तन्नयसञ्ज्ञा न प्राप्नुवन्ति । अजहदुष्वत्यैकोपयोगत्ववि - शिष्टसाकाङ्क्षस कलनयवाक्यजनितनयज्ञानानां तादृशनयज्ञानी याजहद्वृत्यैकोपयोगस्य वा प्रमाणशब्दवाच्यत्वात् विशिष्टनयात्मकस्यापि प्रमाणचैतन्यस्य शुद्धनयवाच्यत्वात् । साकाङ्क्षसकलनयवाक्यजनितनयप्रमाणात्म कै कचैतन्यप्रतीतेः, अन्यथा चाsप्रतीतेरिति । अयम्भावः – यथा स्वान्यनिरपेक्षप्रत्येकवैडूर्यादिरत्नेषु न रत्नावलीति व्यपदेशः, किन्तु स्वस्वस्थानविनियोगलक्षणविशेषेण मिथस्सापेक्षेषु समुदितेष्वेव तेषु तथा प्रत्येकनिरपेक्षेषु नयेषु न सम्यग्दर्शनव्यवहारः, किन्तु स्वस्वस्थानविनियोगलक्षणविशेषेण मिथस्सापेक्षेषु समुदितेष्वेव तेष्विति । ननु तत्र कथं विशिष्टैकाध्य व सायलक्षण समुदायार्थत्वोपपत्तिरिति चेत्, उच्यते, अपरित्यक्तेतररूपविषयाध्यवसाय एव समुदाय इत्यत्रैकत्वस्याऽविवचितत्वादपरित्यक्तेतररूपविषयत्वस्यैव समुदायाऽर्थस्य नयप्रमाणसाधारणस्याऽभिप्रेतत्वादिति । " नन्ववग्रहादिचतुष्टयात्मकमतिज्ञानोपयोगवत् साकाङ्क्षसकलनयवाक्यजनितनयप्रमाणात्मकदीर्घोपयोगरूपैकचैतन्यस्याध्यश्वसिद्धत्वात्तत्र रत्नावलीदृष्टान्तोपादानं व्यर्थम् असिद्धसिद्धये वादिप्रतिवादिसिद्धदृष्टान्तोपन्यासस्य साफल्यात्, अत्र च तदभावादिति चेत्, न उक्तस्वरूपैका नेकात्मकोपयोगे स्वसंवेदन सिद्धेऽपि वादिविप्रतिपत्तिजन्यसंशयनिरासेन निश्चयदायर्थं तदुपादानादिति ।। २५ ।।
+
दृष्टान्तगुणप्रतिपादनेन तदेवाह -
लोsयपरिच्छ्रयसुहो, निच्छ्यवयणपडिवत्तिमग्गो य । अह पण्णवणाविस त्ति, तेण वीसत्थमुवणीओ ॥ २६ ॥
' लोइयपरिच्छ व सुहो' लौकिकाच परीक्षकाच लौकिकपरीक्षकाः, तेषां व्युत्पत्तिविकलतद्युक्तप्राणिनां सुखः, सुखपदमत्र स्वघटितं यत् सुखप्रतिपच्युपाय इत्येतद्वाक्यं तत्परम्, तेन लक्षितलक्षणया सुखेनानायासेन प्रतिपन्युपायो व्याप्तिग्रहोपाय इति तदर्थः, अर्थात्सुखपदं सुखप्रतिपच्युपाय इति वाक्यं लक्षयति, तच लक्षणयाऽनायासेन व्याप्तिग्रहोपायरूपमर्थं बोधयति, वाक्यलक्षणाभावे तु सुखपदमेव लक्षणयोक्तमर्थं बोधयति, 4 निच्छय वयणपडिवत्तिमम्गो य' निश्चयवचनप्रतिपत्तिमार्गश्च निश्वयवचनस्य नैश्वयिकवचनस्य एकानेकात्मकदीर्घोपयोगरूप चैतन्यस्वरूपप्रतिपादकवाक्यस्य यत्प्रामाण्यं तस्य प्रमाणमित्येवं या प्रतिपत्तिस्तजनकत्व लक्षणप्रामाण्यप्रदर्शकश्च । अथेत्यवधारणे, पण्णवासिउत्ति ' प्रज्ञापनाविषय इति, दृष्टान्तो ज्ञातस्स्यात्तदैव दान्तिक सिद्धये समर्थ - स्स्यात् स स्वस्वरूपज्ञानार्थं प्ररूपणाविषयः प्रकृतनिदर्शनविषयो रत्नावलीदृष्टान्त इति ।
6
"Aho Shrutgyanam"
>