________________
११६
सम्मति० काण्ड १ ० २४-२५
नयाः, किं विशिष्टास्त इत्यत आह- 'णिययवायसुविणिच्छिया वि' निज एव निजकस्वस्मिन् निजके वादे इतरनिरपेक्षसामान्यादिप्रतिपादकस्वस्ववादे सुविनिश्चिता हेतुप्रदर्शन - कुशला अपि तत्र हेतुगर्भविशेषणमाह-' अण्णोष्ण पक्खनिश्वेकखा' अन्योन्यपक्षनिरपेक्षा, अस्य हेतुरूपतया अन्योन्यपक्षनिरपेक्षत्वादित्यर्थः । पृथस्थितमणयः परस्परनिरपेक्षत्वात् रत्नावलीति व्यपदेशं न लभन्ते तद्वदित्यर्थः ॥ दीर्घेकोपयोगरूप प्रमाणचैतन्यस्य साकाङ्क्षसकलनयवाक्य जनिताऽनेकन यज्ञानात्मकतयाऽनेकात्मकस्य प्रमाणात्मकतयैकात्मकस्य शुद्धनयशब्दवाच्यत्वेन परस्परनिरपेक्षसङ्ग्रहादीनामेकैकनयानामन्योन्यविषयपरित्यागवृत्तीनां तादृशचैतन्यस्वरूपत्वाभावेन न ते ' सुनया' इति व्यपदेशमासादयन्तीति भावः ॥ २३ ॥
जह पुण ते चेव मणी, जहा गुणविसेस भागपडियद्वा । ' रयणावलि 'त्ति भण्णइ, जहंति पाडिक्कसण्णाओ ॥ २४ ॥
4
4
जह पुण ते चैव मणी' यथेति दृष्टान्तोपप्रदर्शने, यथा पुनस्ते चैव त एव च मणयः जहा गुणविसेस भागपडिबद्धा' गुणविशेषः सूत्रविशेषस्तस्य भाग एकदेशस्तमनतिक्रम्य प्रतिबद्धाः सम्बद्धास्ते यथा गुणविशेषभागप्रतिबद्धाः, एकसूत्रक्रमप्रोताः, अव एव सम्बद्धा:, ' रयणावलित्ति भण्णइ' रत्नावलीति भण्यन्ते, ते मणयोऽसंयुक्तावस्थां परित्यज्यैकसूत्रानुस्युतास्संयुक्तावस्थारूपेण परिणामिन इयं रत्नावलीति व्यपदिश्यन्ते, रत्नानुविद्धतया रस्नावल्यास्तदनुविद्धतया च रत्नानां प्रतीतेः, रत्नीयसन्निवेशविशेषस्य तद्विशिष्टरत्नानां वा रत्नावली शब्दवाच्यत्वात्, “ जहंति पाडिकसण्णाओ" जहति प्रत्येक - सज्ञाः, एते मणय इति पूर्वकालीनाभिधानानि परित्यजन्ति, रत्नीयसन्निवेश विशेषस्य तद्विशिष्टरत्नानां वा रत्नावलीशब्दवाच्यत्वमित्यतस्तस्य तेषां वा रत्नीयसन्निवेशविशेषतद्विशिष्टरत्नावाचक केवलरत्नवाचकशब्दाऽवाच्यत्वात्, विशिष्टाविशिष्टयोः कथश्चिद्भेदस्यानुभवप्रतीतिसिद्धत्वात् ॥ २४ ॥
तह सव्वे णयवाया, जहाणुरूव विणिउत्तवत्तच्वा । सम्मर्द्दसणस, लहंति ण विसेससण्णाओ ॥ २५ ॥
4
तह स णयवाया' तथेति दार्शन्तिकोपदर्शने, तथा सर्वे नयवादा: ' जहाणुरुवविणिउत्तवत्तवा' यथाशब्दो वीप्सार्थे, अनुशब्दः सादृश्यार्थे, रूपशब्दश्व स्वभावाऽर्थेऽत्र वर्त्तते । तथा च रूपस्य स्वभावस्य सदृशमनुरूपमित्यव्ययीभावसमासः, ततोऽनुरूपमनुरूपं प्रतीति यथानुरूपमिति यथाशब्देन सहानुरूपस्याव्ययीभावसमासः, ततो यथानुरूपे विनियुक्तं यथानुरूपविनियुक्तम्, यथाsनुरूपविनियुक्तं वतव्यं येषां ते पथानुरूपविनियुक्त वक्तव्याः, वक्तव्यशब्दो यद्यप्यर्थवाचकस्तथाप्यत्रोपचारात्तद्वा
" Aho Shrutgyanam"