________________
सम्मति• काम १, गा९ २२-२३ परस्परविवदमाननानाभिप्रायभृत्यानां सम्यगुपायतो नयज्ञेनाशासारेण राज्ञा, भूम्यादिना केनापि कारणेन मिथो विवदमानानां व्यवहारिणां न्यायदर्शिना समवृत्तिना केनापि पुंसा वा युक्तिभिर्विरोधभावभञ्जनवनिःस्वार्थवृत्तिना जिनागमोक्तयथार्थनयतवविदुषा महर्षिणा तेषां नयवादानां विरोधमावभञ्जनात् सम्यग्भावं मजन्ते । उक्तश्च विशेषावश्यकभाष्ये
"न समेन्ति नयसमेया, सम्मत्तं नेव वत्थुणो गमगा।
वत्थुविधायाय नया, विरोहओ वेरिणो चेव ॥२२६६ ॥" एतदाशङ्कथ तदुत्तरमाह भाष्यकार:--- " सव्वे समयन्ति सम्म, चेगवसाओ नया विरुद्धा वि । भिच-ववहारिणो इव, राओदासीणवसवत्ती ॥ २२६७ ॥” इति ॥२१॥
ननु नयसमुदाये न सम्यत्वं सम्भवति प्रत्येकनयेषु सम्यक्त्वाभावात, यद् यदेकैकेषु वस्तुष्वसत् तत् तत्समुदायेऽपि न सम्भवति, यथा सिकतासु तैलमिति चेत्, मैवम् , रत्नावल्यादाक्नैकान्तिकत्वादुक्तहेतोरित्येतत्प्रतिपादनार्थमाह
जहऽणेगलक्खणगुणा, वेरुलियाई मणी विसंजुत्ता ।
रयणावलिववएसं, न लहंति महग्घमुल्लावि ॥ २२ ॥ 'जहऽणेगलक्खणगुणा' यथेति दृष्टान्तोपप्रदर्शने, अनेकानि अनेकप्रकाराणि विषविघातहेतुत्वादीनि लक्षणानि तथाप्रकारा नीलत्वादयश्च गुणा येषां ते अनेकलक्षणगुणाः, के ते इत्याशङ्कायां विशेष्यीभूतकर्तृपदमाह-वेरुलियाई मणी' वैडूर्यादयो मणया, किं विशिष्टास्त इत्यत आह-'विसंजुत्ता महग्धमुल्ला वि' विसंयुक्ताः विशकलिता महाघमूल्या बहुमूल्या अपि, कर्तृपदं क्रियापदसाकासमिति तत्पूर्तये निषेधसंवलितं क्रियापदमाह'न लहंति' न लभन्ते, न प्राप्नुवन्ति, सकर्मकक्रिया च कर्मापेक्षति तत् किमित्यत आह'स्यणावलिववएसं ' इयं रत्नावलीत्येवं व्यपदेशं व्यवहारमित्यर्थः ।। २२ ॥
पूर्वोक्तलक्षणगुणा वैडूर्यादिमणयो महामूल्या अपि पृथग्भूततया मिथः सापेक्षभावमनापन्ना रत्नावलीति व्यपदेशं न लभन्त इति दृष्टान्तमुपदर्य दार्टान्तिकमुपदर्शयितुमाह
तह णिययवायसुविणि-च्छिया वि अण्णोष्णपक्खनिरवेक्खा।
सम्मइंसणसई, सब्वे वि गया ण पार्वति ॥ २३ ॥ तह णिययेत्यादि-तथेति दार्शन्तिकोपदर्शने 'न पावंति' न प्राप्नुवन्ति, किन प्राप्नुवन्तीत्यत आह-सम्मइंसणसई' सम्यग्दर्शनशब्दं 'सुनयाः' इत्येवं व्यपदेशम् , एवम्भूताः के इत्याशङ्कायां कर्तृपदमाह-' सव्वे वि गया' सहादयस्सर्वेऽपि प्रत्येक
"Aho Shrutgyanam"