________________
१९९
99
दुःखौषभयं नोत्पद्यत एवेति तत्पर्यालोचनमनुपपद्यमानार्थविषयकत्वान्मिथ्याज्ञानमिति तत्पूर्विका प्रवृत्तिर्विसंवादिन्येव । दूषणान्तरं प्रदर्शयितुमुत्तरार्द्धमाह- " बन्धं च विणा मोक्ख सुहपत्थणा नत्थि मोक्खो य चः दूषणान्तरसमुच्चये, बन्धं विना मोक्षः - संसारनिवृत्ति - स्तत्प्रभवं यदनन्तसुखं तत्प्रार्थना नास्ति, न भवत्येव, एकान्तवादे कर्मबन्धाभावेन संसारानुपपत्तौ तन्निवृत्तिलक्षणमोक्षस्याप्यनुपपत्तेस्तत्सुखप्रार्थना नोपपद्यते, तथा मोक्षश्र अस्य नास्तीत्यनेनान्वयान्नास्ति, अनुपपन्नः चः समुच्चये, यथा निरपराधपुरुषस्य नैव बन्धनमिति न तन्मोक्षः, मुचेर्बन्धन विश्लेषार्थकत्वेन मोक्षस्य बन्धपूर्वकत्वात् तादभावे तदभावात् तद्वदेकान्तवादे आत्मनः कर्मबन्धाभावेन न तस्य तनिवृत्तिलक्षणो मोक्षः, अबद्धस्य मोक्षासम्भवात्, बन्धाभावश्च योगकषाययोः प्रकृति--प्रदेश-स्थित्यनुभागात्मकबन्धहेत्वोरेकान्तपक्षे विरुद्धत्वेनैकत्रात्मन्यसम्भवात्, सम्भवे वा विरुद्ध परिणतिस्त्र भावभेदेनेकस्याप्यात्मनो भेदस्स्यात्, ननु मायाया अज्ञानपदवाच्याया विकाररूपस्य चेतनाचेतनात्मकजगतो ब्रह्मविवर्त्त रूपत्वेन तन्मूलभूतं ब्रह्मैव तात्रिकं, सर्वत्रानुगतरूपत्वात् स्थासकोशाद्यनुगतमृद्रव्यवत्, मृद्रव्यस्य विकाररूपं मृत्पिण्ड शिवक-स्थास - कोशक - कुशूल-घटकपाल-शकलादिकमित्र मायाया विकाररूपं ब्रह्मणश्व विवर्तरूपं जगच्चातान्त्रिकम्, तथा च ब्रह्मण एकरूपत्वाद् बन्धाद्यभावप्रेरणा न दोषायेति चेत्, मैवम्, चेतन भेदाचेतन भेदरूपतया जगतः प्रतिपत्तेः एकः सुखी एको दुःखी एको रङ्क एको धनाढ्य इत्याद्यात्मभेदप्रतिपत्तेर्बाह्यघटपटादिभेदप्रतिपत्तेश्च सर्वानुभवसिद्धाया मिध्यात्वे एकमेव ब्रह्मेति प्रतीतेरपि मिथ्यात्वं वदतां नैव क्वी भवेत, एतच्च प्रागेव सविस्तरं निरस्तमित्यधिकं नोच्यते ॥ २० ॥
सम्मति० काव्यं १, बा २०
64
अथ जाणं एस जीवे सया समिअं एयह वेयह चलह फंदर घट्टह खुम्भह उदीरह तं तं भावं परिणमइ ताव णं तस्स जीवस्स अन्ते अन्तकिरिया न भवति " इति सिद्धान्तो क्वींतरागोऽपि यावच्चक्षुः पक्ष्मोन्मीलन निमीलनक्रियामात्रमपि करोति तावदस्य प्रतिक्षणं योगनिमित्तं कर्मबन्धो भवति, तर्ह्यन्येषां समारम्भादिप्रवृत्तानां मिध्यादृष्टीनां मिथ्यात्वाविरतिकषाययोग हेतु कोऽविरतानामविरतिकषाय योगहेतुकः सर्वविरतानामपि सकपायाणां कषाययोगहेतुकच कर्मबन्धो भवतीति तु कैमुतिकन्यायप्राप्तमेव, सर्वथैव योगक्रिया - भावे च नव्यकर्मत्रन्धाभावेन पूर्वनिखिलकर्मणश्च शुक्लध्यानादिना क्षयेण मुक्तिरित्येतत्सर्वं स्याद्वादपक्ष एव घटते, नैकान्तपक्षे, एकान्तनित्यस्यात्मनो विचित्र प्रकार कर्मबन्धहेतुमिध्यात्वाविरतिकषाययोगविविध परिणतिस्वभावतज्जन्यविचित्रकर्मबन्धनस्वभाव मेदैरत्यन्तकर्मविश्लेषक्रियाकरणतद्धेतुयोग निरोधादिक्रियाकरणस्त्र भावभेदैश्वानित्यत्वप्रसङ्गात् । एकान्ताsनित्यस्य चात्मनः प्रतिक्षणं भिन्नस्वरूपत्वेन तत्तत्कर्म हेतु तत्तत् क्रियाकरणस्वभावत तत्कर्मकरणस्वभाव कर्तुरेकस्याभावेन यः कर्महेतुकर्त्ता स न कर्मकर्त्ता, यश्च कर्मकर्ता स न तत्फलभोक्ता, यश्च कर्मणा बद्धस्स एव न तन्मुक्त इत्यव्यवस्थितिप्रसङ्गात् । तदेव मे कान्ताभ्युपगमे
"Aho Shrutgyanam"