________________
सम्मति• काण्ड १, गा.. न्यानुस्यूतिप्रत्ययस्य मानसविकल्पवानानुगतवस्तुमाधकत्वमिति वाच्यम् , आत्मनि क्षणक्षयमनुमानाद् निश्चिन्वतोऽपि तदेव तस्य स्पष्टमनुभूयमानत्वात् , विकल्पद्वयस्य युगपदुत्पत्तिः परर्नेष्टेति विकल्परूपत्वे एकत्वप्रत्ययस्य क्षणिकत्वनिश्चयसमये सद्भावो न भवेद, भवति च क्रमवर्तिष्वभिष्वङ्ग-द्वेषादिपर्यायेषु चैतन्यानुस्यूतिप्रत्यय इति तस्य विकल्पकालीनोत्पत्तिमत्त्वेनाश्वविकल्पकाले गोदर्शनवत् पराभिप्रायेण निर्विकल्पप्रत्यक्षरूपतया तेन क्रमवर्तिपर्यायेष्वनुगतद्रव्यस्य सिद्धिः, अस्मन्मते तु यथार्थमानमविकल्पस्यानुगतवस्तु. साधकत्वमस्त्येव । तदेवमेकान्तनित्यानित्यव्युदासेनोभयपक्ष एव बन्धस्थितिकारणं युक्ति. सङ्गतमिति सिद्धम् ॥ १९ ।।
किश्च एकान्तवादिनां संसारनिवृत्यर्थं प्रवृत्तिर्मोक्षसुखप्रार्थना मोक्षश्वेत्येतत्सर्व नोपपद्यत इत्युपदर्शयितुमाह
बन्धम्मि अपूरन्ते, संसारभयोघदसणं मोझं।
बन्धं च विणा मोक्ख-सुहपत्थणा नत्थि मोक्खो य ॥ २० ॥ अपरिणामवादात्मके एकान्तवादे कारणीभूतमिथ्यात्वादिपरिणत्यभावात्तत्कार्यस्य बन्धस्याभावे संसारमयप्राचुर्यपर्यालोचनं मिथ्याज्ञानम् अनुपपद्यमानसंसारदुःखभयौषविषय. कत्वात् , तथा यः पूर्व बद्धस्स एव पश्चान्मुच्यते नाबद्ध इति वन्धं विना तन्मुत्यमावान्मोक्षसुखं मे भवत्विति प्रार्थनान घटते, अत एव मोक्षश्चानुपपन्न इति सहितार्थः । विस्तरार्थस्त्वे. वम्-'बन्धम्मि अपूरन्ते' एकान्तवादे आत्मनो मिथ्यात्वाविरतिकषाययोगरूपनानाविधपरिणतिस्वीकारेऽनेकान्तवाददाढर्थापत्तेस्स्वपक्षक्षतिरिति तत्र मिथ्यात्वादिकारणानुपपत्या बन्धे कर्मवन्धे अपूर्यमाणे अपूर्णमा गते लक्षणयाऽसतीति यावत् "संसारभयोपदसणं मोड्ड" संसारभयौघदर्शनं मौढयम्-संसारे अरहट्टघटीयन्त्रन्यायेन चतुर्गतिषु जन्ममृत्युभावेन पुन: पुनस्संसृतिलक्षणे संसारे, यद्वा कारणे कार्योपचारवृत्त्या संमारशब्दबोध्ये तत्कारणे मिथ्यास्वाविरतिकषाययोगात्मके वा भयोघो भीतिप्राचुर्य तस्य दर्शनम् चतुर्गत्यात्मके संसारे पर्यटनमनन्तदुःखव्याप्तमेव, न तत्र किमपि परमार्थवृत्त्या सुखम् , मधुलिप्तखङ्गलेहनवद् वाह्य. वृपया यस्किमपि सुखं दृश्यते तस्याप्यायत्यामनन्तदुःखप्रदत्वेन दुःखरूपत्वादिति पर्यालोचनं लक्षणया संसारशम्दबोध्यमिथ्यात्वादिकमनन्तदुःखखनिसंसारकारागारनिवासमूलभूततया सर्वमहाऽनर्थकारणमिति पर्यालोचनं च मौढथं मूढता मिथ्याज्ञानमिति यावत्, अनुपपद्यमानसंसारदुःखौषविषयकत्वात् , वन्ध्यासुतजनितबाधागोचरभीतिविषयपर्यालोचनवत् ।। अयम्भाव:-वन्ध्यासुतोऽसनिति तेन दुःखौघभयं नोत्पद्यत इति तद्विषयकपर्यालोचनं वन्ध्यासुतोत्थदुःखौघाद् विभेमीत्याकारकं मिथ्याज्ञानं यथा तथैकान्तपक्षेऽपरिणामवादात्मकेऽप्युतनीत्या कर्मबन्धाऽसिद्धेस्तजन्यसंसारस्यापि तत्कारणमिथ्यात्वादेश्वासिद्धिरेवेति तेनासिद्धेन
"Aho Shrutgyanam"