________________
सम्मति • कान्ड १ ० १९
?
}
+
प्रतिक्षणविश्वरात्मपक्षे च योगनिमित्तककर्मबन्धः कषायहेतुकबन्धस्थितिरित्युभयासम्भवे हेतुपदर्शयितुमुत्तरार्द्धमाह - 'अपरिणउच्छिष्णेसु य बंधहिकारणं नस्थि' अपरिणतोच्छिनयोथ बन्धस्थितिकारणं नास्ति, अपरिणते केनचित् परिणामेनापरिणामिनि कञ्चित्परिणाममप्राप्तवति द्रव्यार्थिकनयेन नित्यत्वेनाभ्युपगते आत्मनि, उच्छिन्ने विनष्टसत्ताके निरन्वयप्रतिक्षणविनाशित्वेन क्षणिके पर्यायार्थिकनयेनानित्यतयाऽभ्युपगते आत्मनि, बन्धस्थितिकारणं नास्ति, अपरिणामिनि अत्यन्ताऽनाधेयातिशये नित्यात्मनि प्रकृतिबन्ध प्रदेशबन्धकारणानां योगानां सम्भवो नास्त्येव, सम्भवे वा योगानां सर्वात्मप्रदेश परिस्पन्दरूपत्वेन तत्तद्योगपरिणामेनात्मनसक्रियत्वापच्या कथञ्चिदनित्यत्वं स्यात्, एकान्तोच्छिन्नात्मपक्षेsपि येनात्मना यत्कर्मनिमित्तं योगः कृतस्तेनात्मना तत्कर्म न बध्यते, किन्त्वन्येन, कर्मबन्धकालेऽन्यत्वात् तथा च यो हिंसादिकरणार्थं काययोगादि प्रयुङ्क्ते स एव कर्मकर्तेति व्यवहारोच्छेदस्स्यात् न च स व्यवहारो भ्रान्त एवेति वाच्यम्, सर्वैरविगानेन प्रत्यभिज्ञायमानत्वात् । न च सन्तत्यैव निर्वास्स इति वाच्यम्, सन्ततेस्तन्मते काल्पनिकत्वेन यथार्थव्यवहाराऽनिर्वाहकत्वात् । एवमविकार्ये नित्यात्मनि स्थितिबन्धानुभागबन्धकारणकषायोदयजन्यरागद्वेषाद्यव्यवसाया अपि न सम्भवन्ति तेषां सम्भवे वाऽध्यवसायस्थानानामसङ्ख्येयत्वेन तद्रूपेण परिणतस्यात्मनः परिणामपरिणामिनोः कथञ्चिदभेदेनानेकत्वं स्यात् नाप्येकान्तानित्यात्मनि अनुसन्धानविकले अहमनेन सन्तुष्टः अहमनेनाऽक्रुष्ट इति रागद्वेषाध्यवसायसम्भवः, तथा च ' अन्यो जुष्टः, अन्यः सन्तुष्टः, अन्य आक्रुष्टः, अन्यो रुष्टः, अन्यो व्यापृतः, अपरो बद्धः, अपरच मुक्त इति कुशला कुशल कर्मगोचरप्रवृत्याद्यारम्भवैफल्यप्रसङ्गः, न चैकसन्ततिनिमित्तोऽयं व्यवहारः, क्षणिकान्तपक्षे सन्ततिकल्पनाबीजभूतोपादानोपादेयभावस्यैवाऽ घटमानत्वात् । न चेयमनुसन्धान प्रतिपत्तिर्मिथ्या, द्वेष - गर्व - शाख्यामन्तोषादीनामन्योन्यविरुद्धस्वभावानां क्रमिकचिद्विवर्त्तानां स्वसंवेदनाध्यक्ष सिद्धानां तत्तद्रूपेणाऽनुभवितुः संशयविपर्यास बाधकज्ञानाऽगोचरीकृतस्यैकस्य चेतनस्यानुभवात् । न च बाधारहितानुभवविषयस्थापह्नवः, सुखादेरप्यनुभवविषयस्यापहुतिप्रसङ्गात्, तथा च प्रमाणप्रमेयादिव्यवहारोच्छेदप्रसक्तिः । यदपि " मिथ्याऽध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि " इत्युक्तम्, तदप्यनेनैव प्रतिविहितम्, यथोक्तप्रतिपत्तेर्मिध्यात्वाऽसिद्धेः । न चानुमाननिश्चितेऽर्थे आरोपबुद्धेरुत्पत्तिः, धूमनिश्रयावगतधूमध्वज इव, न च मिथ्याज्ञानस्य सहजत्वाद विपरीतार्थोप स्थापकानुमानप्रवृत्तावपि न निवृत्तिः, तथाऽभ्युपगमे बुद्धानुपप्लवचित्तसन्ततिवत्तस्य सर्वदाऽनिवृत्तिरित्यमुक्तिप्रसक्तिः, असहजं तु तत्त्वज्ञानप्रादुर्भावेऽवश्यं निवर्त्तते, शुक्तिकाम मे रजतभ्रम इव, अनिवृत्तौ वा न प्रमाणमप्रमाणबाधकं स्यात् । न च क्षणक्षयनिश्रये 'स एवाहम्' इति प्रत्ययो युक्तः, अपि तु ' स इव' इति स्यात्, नहि गवयनिश्चये 'गौरव' इति प्रत्ययो दृष्टः, अपि तु ' गौरिख ' इति । न च क्रमवर्त्तिष्वभिष्वङ्गद्वेषादिपर्यायेषु चैत
११०
"Aho Shrutgyanam"