________________
सम्मति. काण्ड 1, गा० १९ शरीरोमयल्यतिरिक्तकारणपूर्विका विशिष्टाभिरतित्वात् कुत्सितपरपुरुषे कमनीयकुलकामिन्या. स्तन्त्रौषधमन्त्राद्युपयोगजनितविशिष्टाभिरतिवत् , तथा भवभृतां मोहोदयः शरीरादिव्यतिरिक्तसम्बन्ध्यन्तरपूर्वको मोहोदयत्वात् , मदिराापयोगमत्तस्यात्मगृहादौ मोहोदयवत् , यच्च तद्व्यतिरिक्तं तदेव कति सिद्ध्यति परिशेषानुमानेन, परिशेषानुमानश्चात्र स्वपरावभासिज्ञानकस्वभावस्यात्मनो हीनगर्भस्थानशरीरविषयेषु विशिष्टाभिरतेरसाधारणकारणमदृष्टं कर्मैव भवति आत्मशारीरादिदृष्टामाधारणकारणाजन्यविशिष्टाभिरतिकारणत्वात् , यनैवं तन्वं यथाऽऽस्मादि, तथा भवभृतां मोहोदयस्यासाधारणकारणमदृष्टं कर्मैव भवति शरीरादिदृष्टसम्बन्ध्यात्मकासाधारणकारणाजन्यमोहोदयकारणत्वाद, यवं तवं यथा शरीरादीति, ननु भवत्वनेन सामान्यत आत्मसम्बन्धिनः कर्मणस्सिद्धिः, तस्य पौद्गलिकस्वसाधने कि मानमिति चेत् , उच्यते , तत्साधकं सामान्यतो दृष्टानुमानमेवेति, तथाहि-- स्वपरज्ञस्वभावस्यात्मनो हीनमातगर्भस्थानप्रवेशः स्वातिरिक्तद्रव्यसम्बन्धपूर्वकः पुरुषान्तराऽप्रयोज्यत्वे सति हीनस्थानप्रवेशत्वात् , मदिरोन्मादोन्मत्तपुरुषस्याशुचिस्थानप्रवेशवदित्यनुमानेन तथा जगदन्तर्गताशेषपर्यायविशिष्टाऽपरिशेषद्रव्यग्रहणक्षमज्ञाननिष्ठस्वविषया. ग्राहकत्वं विशिष्टद्रव्यसम्बन्धपूर्वक तव्यतिरेकेणानुपपद्यमानस्वविषयाग्राहकत्वत्वात् तद. भावप्रयुक्ताभारप्रतियोगित्वाच्च, पीतमधादिपुरुषज्ञाननिष्ठस्वविषयाऽग्राहकत्ववदित्यनुमानेन विशिष्टद्रव्यसम्बन्धपूर्वकत्वसिद्धौ धूमहेतोः पर्वते वह्नित्वेन वह्रिसिद्धौ महानसीयादिवहिबाधात्पक्षधर्मताबलाद्वा पर्वतीयवसिसिद्धिवत्प्रकृतेऽन्यद्रव्यस्य बाधात्पक्षधर्मताबलाद्वा द्रव्य. विशेषस्यैव सिद्धिः, स एव च कर्मसञ्ज्ञां भजते इति ।
ननु कर्मणो द्रव्यविशेषरूपत्वसाधनं न युक्तम् , तस्यादृष्टापरसज्ञकस्यात्मगुणत्वादिति चेत् , मैवम् , तथा सति कर्मण आत्मपारतन्त्र्यनिमित्तत्वं न स्यात् , यो हि यस्य गुणः स न तस्य पारतन्त्र्यहेतुः, यथा रूपादिः पृथिव्यादेः, आत्मगुणश्च धर्माधर्मसञ्जकं कर्माभ्युपगम्यते परैरिति न तदात्मनः पारतन्त्र्यनिमित्तं स्यादिति प्रसङ्गः, आत्मनः पारतन्त्र्यनिमित्तश्च कर्म, तस्मान्न तद्गुण इति विपर्ययः। नन्वात्मनः पास्तव्ये किं मानमिति चेत्, उच्यते, परतन्त्रोऽसौ हीनस्थानपरिग्रहवच्चात् , यथा पीतमदिरोन्मत्तपुरुषोऽशुचिस्थानपरिग्रहवानिति परतन्त्रस्तथाऽयमात्माऽपीत्यनुमानमेव मानम् । शरीरस्य हीनस्थानत्वं तु कारागारवदात्मनो दुःखहेतुत्वाद् ज्ञेयम् , संसात्मनश्च तत्परिग्रहवत्वं सुप्रतीतमेवेति नासिद्धो हेतुः, कर्मणः पारतन्त्र्यनिमित्तच्चे सिद्ध कर्म पौगलिकम् , आत्मनः पारतन्यनिमित्तत्वात् , निगडादिवदित्यनुमान प्रभत्रति पौगलिकत्वसाधनाय, कर्मणोऽमूर्तत्वे हि कर्मणः सकाशादात्मना. मनुग्रहोपघातौ न स्याताम् , आकाशवत् , उक्तयुक्त्या सिद्धे च पौद्गलिकत्वे कर्म द्रव्यात्मकमेव, न त्वात्मीयादृष्टगुणाख्यमिति सिद्धम् । नित्यत्वेनैकान्ताविकार्यात्मपक्षे अनित्यत्वेनैकान्तः
"Aho Shrutgyanam"