________________
सम्मति काण्ड १, गा० १५
हस्ताद्यवच्छिन्नात्मप्रदेशैरेवात्मा कर्मयोग्यपुद्गलान् कर्मवर्गणागतानवगृह्णाति, किन्तु स्वीयसर्वप्रदेशैरेव, शृङ्खलाबद्धन्यायेन पद्मनालतन्तुवद्वा सर्वात्मप्रदेशानां मिथस्सम्बन्धसद्भावात्, हस्ताद्यवच्छिन्नात्म प्रदेशानां प्राधान्येन व्यापारेऽपि तदितरप्रदेशानामपि गौणवृत्या व्यापारभावात्, अत एवात्मैव स्वकृतकर्मणा संसरति मुच्यते च । एतेन " तस्माद्-न बध्यते ना-पि मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ।। १ ।। ' इति सामयमतमपि निरस्तम् । " बंधट्टिई कसायवसा" बन्धस्थितिः कषायवशात्, बध्यत इति बन्धः, कर्मैव तस्य स्थितिः कालान्तरफलदातृत्वेनात्मन्यवस्थितिः, स्थितिपदेनात्र रसबन्धाविनाभावित्वेन स्थितिबन्धस्य रसबन्धस्थितिबन्धों ग्राह्यौ, तथा च तदुभयं कषायवशात् कषायाः क्रोधमानमाया लोभाख्यास्तदुदय जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेोच्यते, तद्वशात् तत्सामर्थ्यात् भवतीति शेषः, यदुक्तम्- 'ठिइअणुभागं कसायाओ ति ' । अत एवान्यत्रापि " मिध्यात्वाविरतिकारणद्वयाऽभावेऽपि कषाय सद्भावात् प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः कषायाभावे तूपशान्तमोहादिषु न भवत इतीहाष्यन्वयव्यतिरेकाभ्यां ज्ञायते कषाया एव स्थित्यनुभागबन्धयोः प्रधानं कारणम् इत्युक्तं सङ्गच्छते । ननु कर्म सिद्धं स्यात्तदेवैतदुपपन्नं स्यात्, न चाद्यापि तत्सिद्धम्, यतस्तस्यातीन्द्रियत्वान्न तत्साधकं प्रत्यक्षप्रमाणं विद्यते, नाप्यनुमानं तत्साधकम् तस्य प्रत्यक्षागोचरत्वात्तेन सह कस्यचिद्धेतोर्व्याप्तिग्रहणासम्भवेन तत्प्रभवानुमानासम्भवादिति चेत्, मैवम् कर्मणि सुखदुःखहेतौ परस्याप्यविप्रतिपत्तेः तथाहि - पौराणिका अपि कर्मसिद्धिं प्रतिपद्यन्ते । तथा च ते प्राहु:
+
१०८
-
बौद्धा अध्याहु:
"
44
यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ १ ॥ यच पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवज्येष्ठ ! दैवमित्यभिधीयते ॥ २ ॥ मुदितान्यपि मित्राणि, सुक्रुद्धाश्चैव शत्रवः । नहीमे तत्करिष्यन्ति यन्न पूर्वं कृतं त्वया ॥ ३ ॥ "
""
44
इत एकनवते कल्पे, शक्त्या में पुरुषो हतः ।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः || ४ || " इति
"
तथापि चेत् कोsपि परो विप्रतिपद्येत तदा तत्साधकमनुमानप्रमाणं प्रदर्श्यते, तथाहिस्वपरावभासिज्ञानैकस्वभावस्यात्मनो हीनगर्भस्थानशरीरविषयेषु विशिष्टाभिरतिः, आत्म
"Aho Shrutgyanam"