________________
सम्पति० काण्ड १, गा० १९
१०७
दस्य च कषायस्य च तत्तद्गुणस्थानकेषु सर्वे कर्मबन्धसस्त्रमित्यन्वय सद्भावेऽपि मिथ्यादर्शनाभावेऽपि द्वितीयादिपञ्चम गुणस्थानकं यावदविरस्यादिभिः, अविरत्यमावेऽपि च षष्ठगुणस्थान के प्रमादादिभिः प्रमादाभावेऽपि च सप्तमादिगुणस्थान केषु कषाययोगाभ्यां, कषायाभावेऽपि चैकादशादित्रयोदशान्तगुणस्थानकेषु योगमात्रतः कर्मबन्धस्य सद्भावेन व्यतिरेकस्याभावादेव तद्ब्रहाभावेन मिध्यादर्शनादीनां कर्मबन्धनियतकारणत्वग्रहो न भवति, योगस्य सद्भावे कर्मबन्धस्त्रयोदशगुणस्थानकान्तं यावदवश्यंभावी, योगाभावे चाऽयोगिगुणस्थान के कर्मबन्धाभाव इत्येवमन्वयव्यतिरेकग्रहाद् योगस्य च कर्मबन्धनियत कारणत्वग्रहो भवतीति नियमेन योग एव सर्वत्र कर्मबन्धकारणम् । अत एव -
"
" कम्मं जोगनिमित्तं, सुभोऽसुभो वा स एगसमयम्मि । होज न उ उभयरूवो, कम्मंपि तओ तयणुरुवं ॥ १९३५ ॥ "
इति विशेषावश्यक माध्यगाथाटीकायां "मिथ्यात्वा विरति -प्रमाद - कषाय-योगा बन्धहेतवः" इति पर्यन्ते योगाभिधानात्सर्वत्र कर्मबन्धहेतुत्वस्य योगाऽविनाभावाद् योगानामेत्र बन्धहेतुत्वमिति " कर्म योगनिमित्तमुच्यते " इत्युक्तं सङ्गच्छते । तथा च सिद्धमेतद् योगः कर्मबन्धकारणमिति । क्रियते विधीयते अञ्जनचूर्णपूर्णसमुद्रकवभिरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन तप्तत्रयःपिण्डवद्वा यत्कर्म वर्गणाद्रव्यं स्वात्मसम्बद्धं जीवेन तत्कर्म, कर्मपदमत्र प्रकृतिबन्धप्रदेशवन्धपरम्, " जोगा पयडिपएसं " इति वचनात्, तदात्मकं तद् योगनिमित्तम्
" जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा । सत्ती सामत्थं चिय, जोगस्स हवंति पजाया ॥ १ ॥
"?
इति वचनाद्वीर्याद्यपरपर्यायो योगो मनोयोगो वाग्योगः काययोग इति मेदेन त्रिविधः, स निमित्तं हेतुर्यस्य तद्योगनिमित्तं बध्यते आदीयते । अयम्भावः-
64
'एग परसोगाढं, सव्वपरसेहिं कम्मुणो जोग्गं । बंध जहुत्तहेउं, साइयमणाइयं वा वि ॥ १ ॥ "
इत्युक्तेः आत्मा येष्वाकाशप्रदेशेष्वव गाढस्तदवगाढैकसमयबन्धनीयानन्तपुद्गलस्कन्धास्मक कर्म योगनिमित्तेन स्वीयसर्वप्रदेशः न तु कतिपयप्रदेशैर्बध्नाति । यदाह
" कृत्स्नै देशैः स्वकदे - शस्थं रागादिपरिणतो योग्यम् ।
नाति योगहेतोः कर्म स्नेहाक्त इव च मलम् ॥ १ ॥ " इति ।
"
तथाहि – हस्तादिप्रत्येकावयवावच्छेदेनात्मना शुभाशुभक्रियाकरणेऽपि न तद्द्द्वारा
"Aho Shrutgyanam"