________________
१०६
सम्मति० काण्ड १ ० १९
सत्स्वभावस्य सद्भावात् सुखमुद्दिश्य तत्साधनोपादानानुकूलप्रवृत्तिरयुक्ता, को हि सुधीर्विद्य मानमेव पदार्थ विज्ञाय तत्साधनोपादानार्थं प्रवर्त्तेत ? दुःखस्वभावो यदि तदा तत्स्वभावस्य पूर्ववच्छश्वद्भावाद् दुःखवियोगार्थं दुःखसाधन परिहारानुकूलप्रवृत्तिरयुक्ता, को हि सुधीर्दुःखशश्वद्भावं विज्ञाता दुःखवियोगाथ तत्साधन परिहाराय प्रवर्त्तेत । एकान्तोच्छेदपक्षेऽपि सुखस्योत्पादव्ययशालित्वेन प्रतिक्षणभिन्नतया कः क्षणिकसुखार्थं तत्साधनमुपाददीत, किञ्च सुखसाधनोपादाता सोऽन्य एव सुखभोक्ता चान्य एवेति जानन् कस्सुखसाधनार्थं प्रयतेत, अथ तत्सन्तानैक्यमिति चेत्, तदपि न युक्तम्, एकान्तोच्छेदपक्षे सन्तानस्यापि काल्पनिकत्वात् । दुःखमपि क्षणिकत्वेन स्वरसत एव विनाशशीलमिति जानन् तद्वियोगार्थं तत्साधनपरित्यागोद्यमं कः कुर्यादिति ।। १८ ।।
अथ दुःखरूपे दुःखफले दुःखानुबन्धिनि विडम्बनारूपे दीर्घाध्वेऽनवदग्रे नरकादिगतिविभागेन चतुर्विभागे संसारचक्रे अरहदुष्टीयन्त्रन्यायेन महाशैलूषोपमकर्मवशेनैव पर्याटत् पर्यटति पर्यटिष्यति चात्मा, नानाविधगतिपर्यटनकारणीभूतनानाविधकर्म च योगादितत्तनिमित्तमालम्ब्यैव तत्तत्परिणतिशीलात्मनैव बध्यते, कर्मणा च कार्मणकाययोगाद्याहृतौदारिकादिपुद्गलैश्शरीरं निर्वर्त्यते, तद्वारा च शाताऽज्ञातावेदनीय कर्मोदयवशवर्यात्मा सुखं दुःखश्वानुभवतीत्यात्मसुख दुःखोपभोगसाधनशरीरेण सहात्मनो दुग्धपानीय सम्बन्धवत् तप्तायोगोलका सिम्बन्धवद्वा योऽन्योन्यानुगमात्मकस्सम्बन्धस्तद्धेतुभूतकर्मनिमित्तयोगकषायाद्यसम्भवमेकान्ताविकार्यात्मपक्षे एकान्तोच्छिन्नात्मपक्षे च प्रदर्शयितुमाह---
कम्मं जोगनिमित्तं, बज्झइ बंध-ट्ठिई कसायवसा । अपरिणउच्छिष्णेय, बंधद्विकारणं नत्थि ॥ १९ ॥
प्रकृतिबन्ध प्रदेशबन्ध भयात्मकं कर्म मनोयोगवचोयोग काय योगरूपनिमित्तमासाद्य बध्यते, रसबन्धस्थितिबन्धोभयं च कषायवशाद्भवति, न चैतदुभयमेकान्तापरिणतवादे द्रव्याथिंकनयाभ्युपगते एकान्तोच्छिन्नवादे च पर्यायार्थिकनयाभ्युपगते सङ्गच्छते, कर्मबन्धतत्स्थितिकारणाभावादिति संक्षिप्तार्थः । अवयवार्थस्त्वेवं- "कम्मं जोगनिमित्तं बज्झइ " कर्म योगनिमित्तं बध्यते, नन्वनेन योगस्य कर्मबन्धं प्रति निमित्तत्वमुक्तं भवति, तच न सङ्गतम्, मिथ्यादर्शना - विरति -प्रमाद - कषाय- योगा बन्धहेतवः ८- १ | इति तस्वार्थसूत्रेण मिथ्यात्वाविरत्वादीनामपि कर्मबन्धहेतुत्वाऽभिधानादिति चेत्, सत्यम्, न च युक्तम्, भावार्थाऽनवबोधात्, तथाहि - " एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनियमः " इत्युक्तसूत्रभाष्य एव प्रोक्तम्, तथा च यस्य येन सहान्वयव्यतिरेको भवतस्तत्तस्थ कारणमिति कारणत्वग्रहोऽन्वयव्यतिरेकग्रहतो भवतीति मिथ्यादर्शनस्याविरतेश्च प्रमा
"Aho Shrutgyanam"