________________
सम्मति• काण्ड १, गा० १८
१०५
नित्यत्वस्य स्वाभ्युपगतस्य क्षतिः, ननु श्वेताच्छस्फटिके रक्तताया अभावेऽपि जपाकुसुमोपाधिमन्निधानेन रक्ततावदात्मनि सुखदुःखरूपताया अभावेऽपि प्रकृत्युपाधिवशात् सा स्यादेवेति चेत्, तर्हि तद्वत्सा काल्पनिकी स्यात् न तु तच्चभूतेति । बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिविम्बापचेः, स्वभावभेश
"
पगमे चानित्यत्वप्रसङ्ग इति । तथा च सुखदुःखसम्प्रयोगं वास्तविकमिच्छता सुखरूपेण परिणामे सति परिणामपरिणामिनोः कथञ्चिदभेदात्कथञ्चित्सुखात्मक एवात्मेत्यभ्युपगन्तव्यम्, एवं दुःखपरिणामेऽपीति परिणाममेदेन तद्विशिष्टस्यापि भेदेन स्वरूपतोऽभिन्नस्याप्यात्मनो मेद इति कथञ्चिद्भेदाभेदवाद एव प्रमाणभावं भजत इति । तथा 'एगन्तुच्छेयम्मिय' एकान्तेन सर्वथा ' उत् ' - प्राबल्येन छेदे विनाशे, निरन्वयनाशपक्षे इति यात्रत्, चकारात् " सुहदुहसंपओगो न जुज्जह इत्यनेनास्य सम्बन्धः । एकान्तोच्छेदवादः पर्यायार्थिकनयेनाभ्युपगतः, तथाहि - तन्मते पर्याय एवार्थः परमार्थभूतः, न तु पर्यायेभ्यो व्यतिरिक्तं द्रव्यम्, तस्य पूर्वापरपर्यायेषूपचाराद्वयवाहियमाणत्वात् यस्माद् जीवस्य गुण इत्यभेदार्थ कषष्ठीतत्पुरुषसमासं सोऽभिमनुते स चोत्तरपदार्थप्रधानः, यथा तैलस्य धारा तैलधारा राहोश्शिरा राहुशिरः, न चात्र धारातिरिक्तं किमपि तैलमस्ति, न च शिरोऽतिरिक्तो राहुश्वास्ति, एवं ज्ञानसुखादिगुणातिरिक्तं जीवद्रव्यमपि नास्ति । तदुक्तं भाष्ये सामायिकगुणमाश्रित्य -
" पज्जाओ चित्र वत्थं, तचं दव्वं च तदुवयाराओ ।
पजवणग्रस्त जम्हा, सामहअं तेण पज्जाओ ।। २६४५ ।। " इति ।
तथा च यथा सर्वप्रमाणग्रहणाभावात् रूपरसगन्धस्पर्शेभ्यो भिन्नो घटो नास्ति तथैकान्तोच्छेदपक्ष उत्पादव्ययशालित्वेन प्रतिक्षणमिन्नेभ्यो ज्ञानसुखदुःखादिभ्यो भिन्नस्थिर आत्मैव नास्तीति कस्य सुखदुःखयम्प्रयोगः । न ह्यविद्यमाने गगनारविन्दे घटसम्बन्धस्सम्भवतीति । तथा पक्षद्वयेऽपि सुह- दुक्खवियध्पणमजुत्तं ' सुखदुःखत्रिकल्पनम्, सुखञ्च दुःखश्च सुखदुःखे तयोर्विकल्पनम् विशिष्टं कल्पनम् यतनम्, 'क्लप् सामर्थ्ये ' इति वचनात् सामर्थ्यार्थिकस्याऽपि क्लपधातोस्त्र यतनार्थकत्वात् धातूनामनेकार्थत्वात् सुखदुःखविषयक विशिष्टं यतनमिति समस्तार्थः तच्च यतनं सुखे तदुपादानाय दुःखे तु तत्परिहाराय बोध्यम्, सुखोपादान दुःख परित्यागरूपनिमित्तमन्तरेण सुखदुःख विषयक यत्नस्य कस्यापि सचेतसोऽभावात् सुखदुःखविकल्पनम् अयुक्तम् अघटमानकम् | यतो नित्यवादपक्षे आत्मा सुखस्वभावो यदि तदा तत्स्वभावस्य कदाचित्सत्त्वं कदाचिच्चाऽसच्वमित्यभ्युपगमेऽनित्यत्वप्रसक्त्या नित्यपक्षः परित्यक्तस्स्यादिति सर्वदा
>
J¥
"Aho Shrutgyanam"