________________
१०४
सम्मति० कान्ड , गा १८ दुःखस्वभावत्वे तद्रूपतैव स्यात् नित्यतत्स्वभावत्वादेवेति न सुखसम्प्रयोगः, कमिश्चिदपि काले सुखस्यानुत्पत्तेः । कदाचित्सुखस्वभावः कदाचिच दुःखस्वभाव इत्यभ्युपगमे तु यद्वा स्थूलैककालावच्छिन्नसुखदुःखोमयस्त्रमाव आत्मेत्यभ्युपगमे तु तस्यानित्यत्वं स्यात् , विरुद्धस्वभावशालित्वेन भेदादिति । ननु द्रव्यार्थिकनयावान्तरभेदरूपनगमनये गुणगुणिनोमेंदमभ्युपगन्तरि द्रव्यस्य गुणादिसमवायिकारणत्वात् सुखस्यानुकूलवेदनीयत्वेन सचन्दनवनिताद्यनुकूलविषयजन्यसुखकाले आत्मनस्सुख सम्प्रयोगः, दुःखस्य च प्रतिकूलवेदनीयत्वेनाहिकण्टकादिप्रतिकूलविषयजन्यदुःखकाले तस्य दुःखसम्प्रयोगच युज्यत एवेति चेत्, मैवम् , न हि पूर्व निर्गुणं द्रव्यमुत्पद्यते पश्चात्तेन तत्र गुणोत्पत्तिरित्यनुभूयते, येनोक्तलक्षणसिद्धिस्स्यात् , समवायसम्बन्धस्यासिद्धेश्च न समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वलक्षणं समवायिकारणत्वं सम्भवति, समवायासिद्धिश्च तत्साधकप्रमाणाभावात् , न च प्रत्यक्षं समवायसाधकम् , सम्बन्धप्रत्यक्षे यावत्सम्बन्धि. प्रत्यक्षस्य कारणत्वेन परमावादीनामतीन्द्रियाणामपि यावत्सम्बन्ध्यन्तर्गतत्वेन तत्प्रत्यक्षा. भावात् समवायस्यापि प्रत्यक्षाऽसम्भवात् , अत एव समायो न प्रत्यक्ष इति वैशेषिकस्या प्यम्युपगमः। नाप्यनुमानं समवायसाधकम् , समवायस्याऽप्रत्यक्षे तेन सह कस्यचिद्धेतोव्योतिग्रहणाऽसम्भवेन तत्प्रभवानुमानाऽसम्भवात् । न च सामान्यतो दृष्टानुमानं तत्साध. कम् , तथाहि-गुणक्रियादिविशिष्टबुद्धिः विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुष इति विशिष्टबुद्धिवन, अनेन संयोगादिवाधात्समवायसिद्धिरिति वाच्यम् , अतिरिक्तसमवायकल्पनापेक्षया क्लप्तस्यैव प्रतियोग्यनुयोगिस्वरूपस्य सम्बन्धतया कल्पनायां लाघवात्तत्र निरुक्तविशिष्टबुद्धिविषयत्वकल्पनौचित्यात् , धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वात् । न चाने केषु स्वरूपेषु सम्बन्धत्वकल्पनापेक्षयाऽतिरिक्तसमवायसम्बन्धकल्पने लापवमिति वाच्यम् , अतिरिक्तसमवाये समवायत्वं क्लप्तपदार्थभेदः, तद्भेदश्च क्लप्तपदार्थेषु नित्यत्वादिधर्मसम्बन्धश्च तस्य कल्पनीय इत्येवं पर्यालोचनया तत्रैव गौरवस्य स्पष्टत्वात् । एवं जातेरेकस्या व्यक्तिषु विशिष्टबुद्धौ जातिस्वरूपस्यैकस्यैव सम्बन्धत्वेन भानकल्पने लाघवमिति न जातेयक्तिषु भवद्युक्त्याऽपि समवायसिद्धिः। तथा च समवायाऽभावेन तद्घटितसुखदुःखसमवायिकारणत्वस्याऽप्यात्मनोऽभावानोक्तं युक्तमिति । एतेन-"प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः।
स्फटिके रक्तत्वादिवद् बुद्धिप्रतिविम्याद्वाऽन्ये ॥१॥” इति ।। साङ्ख्यमतमपि निरस्तम् , उपधानसनिघावप्यन्धोपले रक्तादि यथा न भवति तथाऽऽत्मनः परमार्थवृत्त्या सुखदुःखपरिणतिमन्तरेणोपधानसनिधावपि सुखदुःखरूपता न स्यात् , तदभ्युपगमे चाऽनित्यसुखदुःखाऽभिन्नतयाऽऽत्मनोऽप्यनित्यत्वापच्या आत्मैकान्त.
"Aho Shrutgyanam"