________________
सम्मति. काम , गा. १८ भैदेऽपि तदुभयव्यक्तौ तत्सन्तानत्वमनुगतमेवेति तत्र न तत्सन्तानत्वावच्छिन्नप्रतियोगिताकमेदवत्सन्तानान्त:पातिव्यक्तिरूपत्वमिति विजातीयक्षणोत्पत्तिविषयताकाध्यवसायाभावानातिव्याप्तिरित्यपि वाच्यम् , इतो नरत्वं विहाय देवो भूयासमित्याद्याकारे दानदयाघध्यव. सायेऽतिप्रसङ्गात् , न च क्लिष्टाध्यवसाय एव क्लिष्ट कर्मक्षणहेतुत्वाद्धिंसा, अत एव मृगमव्यापादयन्नपि मृगं हन्मीति संक्लेशपरिणत: पापेन बध्यत इत्युक्तलक्षणघटकाध्यवसाये क्लिष्टत्वविशेषणानोक्तातिव्याप्तिरिति वाच्यम् , हिंसाविषयत्वातिरिक्तस्य क्लिष्टत्वस्य दुर्वचत्वेनात्माश्रयात्, सन्तानादेः सांवृत्तत्वेन पारमार्थिकस्याध्यवसायस्यैव चासिद्धः, आहार्यस्य च हिंसाहिंसाद्यध्यवसायस्य व्यवहारनिमित्तत्वेन कल्पितस्य सर्वलोकविगर्हितत्वेनोपहा. सपात्रतायाः पारमर्षे विस्तरेण प्रतिपादितत्त्वात् , यत्राहं न हन्मीत्यध्यवसायवतः पुंसो विवेकिनोऽनुपयोगवशाद् या हिंसा सञ्जाता तत्र तत्पुरुषस्य क्लिष्टाध्यवसायो नेति प्रमादशीलतत्कृतहिंसायामव्यालेश्च न किश्चिदेतदिति दिक् ॥ १७ ॥ एकान्तनित्यपक्षे एकान्ताऽनित्यपक्षे चान्यदूषणानि प्रतिपादयितुमाह
सुह-दुक्खसम्पओगो, ण जुज्जए णिच्चवायपक्खम्मि ।
एगंतुच्छेयम्मि य, सुह-दुक्खवियप्पणमजुत्तं ।। १८॥ ‘णिचवायपक्खम्मि' नित्यवादपक्षे द्रव्यास्तिकनयाभ्युपगते 'सुह-दुक्खसम्पओगो ण जुञ्जए' सुखम्-अनुकूलवेदनीयम् , अनुग्रहलक्षणं वा-अनुगृह्यतेऽनेनेत्यनुग्रहः, तल्लक्षणं तत्स्वभावमित्यर्थः । सुखं ह्यनुकूलस्वभावतया स्वविषयानुभवं कुर्वत्पुरुषमनुगृह्णाति । दुःखम्-उपघातलक्षणम् , उपहन्यतेऽनेनेत्युपघातस्तल्लक्षणं तत्स्वभावमित्यर्थः, दुःखमुपजातं प्रतिकलस्वभावतया स्त्रात्मविषयमनुभवं कुर्वदात्मानमुपहन्ति, ताभ्यां सहात्मनः सम्प्रयोगस्सम्बन्धो न युज्यते, न युक्ति सहते, यद्वा सम्प्रयोगः सम्-सम्यक् संगतो वा प्र-प्रकृष्टः योगः सम्बन्धः परमार्थभूतसम्बन्ध इति यावत , न युज्यते न घटते, तथाहि-द्रव्यार्थिकनयाभ्युपगते आत्मनो नित्यत्ववादपक्षे स्वाभिन्नगुणविशिष्टत्वमेवाऽऽत्मनः, न त्वात्माश्रिता आत्मद्रव्यभिन्ना गुणाः परमार्थभूताः, तन्मते गुणगुणिभावाभावात् , द्रव्यव्यतिरेकेण तेषामनुपलम्भात् , भिन्ना गुणा खल्वौपचारिकत्वेनासन्त एव, अत एवास्य मते चित्रे निम्नोभतप्रतीतिवत् द्रव्ये गुणप्रतीतिर्धान्तवाभ्युपगता, अत एव सामायिकमाश्रित्य
"इच्छइ जं दव्वनओ, दव्वं तचमुवयारओ य गुणे।
सामइअगुणविसिहो, तो जीवो तस्स सामाइयं ॥२६४४॥" इति भाष्योक्तं सङ्गच्छते, एतद्रव्यार्थिकन यमतमपि न युक्तम् , यतस्तत्र यथा सामायिकपरिणामस्वभावानन्यत्वाजीव एव सामायिकमित्युक्तम् , तथैवात्मनस्सुखस्वमावत्वे तस्याऽविचलितरूपत्वात् सदा सुखरूपतैवेति तस्य न दुःखसम्प्रयोगः, कदापि दुःखस्यानुत्पत्तेः।
"Aho Shrutgyanam"