________________
१०२
सम्मति का १, गा० १७
जातं तत्र तदपेक्षया हिंसकत्वं न स्यात् अन्यस्त्र मरणोद्देश्यकव्यापाराभावात् अन्यप्राणिनं मारयामीति सङ्कल्पाभावाच्च । तस्मात्प्रमत्त योगात्प्राणव्यपरोपणं हिंसेत्येव लक्षणं युक्तमित्यात्मनो नित्यत्वेन विनाशायोगेऽपि मनुष्यत्वप्राणसंयोगादितत्पर्यायस्यानित्यत्वेन तद्वंसानुकूलप्रमादयोगतत्प्रतिकूलाऽप्रमादयोगाभ्यामेव हिंमाऽहिंसे तज्जन्यपापपुण्ये तत्सम्बन्धनिखिल तद्वियोगलक्षणबन्धमोक्षौ च य एवाहं पूर्वं बद्धस्स एवाहमिदानीं मुक्त इति प्रत्यभिज्ञानादिप्रमाणसिद्धे कथञ्चिद्भिन्नाभिन्न आत्मनि सम्भवत इति स्याद्वादपक्ष एव बद्धमूल आस्तिक्यतरुर्भवतीति हिंसाऽहिंसादिरूपविरुद्धधर्माध्यामादेकस्याप्यात्मनः कथञ्चिदनेकरूपतया मनुष्यादिपर्यायविनाशेन देवादिपर्याय भावगमनात्स्याद्वादपक्ष एव संसारस्सम्भवति, न तु शाश्वत व्यक्तिवा दिपक्ष इति सिद्धम् । ननु शाश्वतव्यक्तिवादिपक्षे संसारो न सम्भवतीत्युक्तयुक्तेर्युक्तम्, एकान्तोच्छेदपक्षे तु तत्कथमिति चेत्, मा त्वरस्त्र, सावधानीभूय तदप्याकर्णय, सर्वेषां वस्तूनामुत्पश्यनन्तर निरन्वयध्वं स लक्षणैकान्तोच्छेदे संसारो न सम्भवति, एकगतेर्गत्यन्तरगमनस्यैकभावाद् भावान्तरात्रातेत्र पूर्वापस्तत्तद्गतिषु पूर्वापरतत्तद्भावेषु चानु. यायिधर्मिणमन्तरेणायोगात् । न च सभागविभागप्रवृत्तिविज्ञान सन्तानोपादानालय विज्ञानसन्तानलक्षणस्यात्मनः स स्यादेवेति वाच्यम्, तस्यापि काल्पनिकत्वात्, पारमार्थिकत्वे वा नामान्तरेणाऽऽत्मैवाभ्युपगतस्स्यादित्ये कान्तोच्छेदवादाभाव एव स्यात् । यद्वैकान्तोच्छेदपक्षे हिंस्य हिंसकभावस्याहिंस्याहिंसक भावस्य चाऽभावेन पुण्यपापयोरप्यभावात्तत्प्रयुक्त जन्माभावेन संसारो न सम्भवति, तथाहि - हिंस्य हिंसकयोस्स्थैर्य एवास्यायं हिंस्यः अस्य चायें हिंसक इति स्यात्, स्वरसत एव निरन्वयक्षण ध्वंसित्वे च कस्य केन हिंसा कृता स्यात्, कस्योपरि केन दया च कृता स्यात्, न च विसभागक्षणोत्पत्तिरेव हिंसेत्यपि वाच्यम्, सुगतस्याविच्छिन्नाक्लिष्टज्ञानसन्तानक्षणरूपत्वेन सन्तन्यमानतज्ज्ञानक्षणस्याप्यव्यवहितपूर्ववर्त्तित्वेन प्राक्तनव्याधक्षण इव तस्मिन्नपि मृगीयविसभागक्षणोत्पत्तिनिमित्तत्वस्याविशेषतस्सच्वेन व्याधवबुद्धस्यापि मृगघातकत्वापत्तेः न च विसभागक्षणजननानुकूला व्यवसायवच्चमेव हिंसेति बुद्धस्य तादृशाध्यवसायाभावेन नोक्तातिप्रसङ्ग इति वाच्यम्, यो नरो मृत्वा नर एव भविता तद्विसायामव्याप्तेः, पूर्वापरनरक्षणस्य नरत्वेन सौसादृश्यात्, विसभागक्षणोत्पतेरेव तत्राभावेन तदनुकूलाध्यवसायाऽभावात् तत्पुरुषघातकस्याघातकत्वं स्यात् । न च विभागक्षणजननत्वावच्छिन्नविषयताका व्यवसायवस्त्रं सा, यः प्रेत्य नर एव भविता तद्धातक पुरुषस्याऽयं नरो प्रियतामितीच्छाया विसभागक्षणजननत्वावच्छिन्नविषयताकत्वेन तादृशेच्छालक्षणाध्यवसायवच्वमस्तीति नोक्ताव्याप्तिरिति वाच्यम्, रूपपरावृत्तिर्भवत्वित्याकारकरूपपरावर्त्तनादिक्रियाऽध्यवसायेऽतिव्याप्तेः न च तत्सन्तानत्वावच्छिन्नप्रतियोगिताकविसभागताशा लिसन्तानान्तःपातिक्षण जननत्वावच्छिन्नविषयताशाल्यध्यवसायवचं सा तथा च रूपपरावृत्तिर्भवत्त्रितीच्छायां रूपान्तरोत्पच्या पूर्वसन्तानव्यक्तेरुत्तरसन्तानव्यक्ते
7
"Aho Shrutgyanam"