________________
सम्मति. काण्ड १, मा. 10 भेदः स्वस्वरूपेण चाभेद इत्येवं कथञ्चिबेदाभेदोमयस्यैव सिद्धेः, न चास्यानेन संयोग इति प्रत्यक्षबलादेवातिरिक्तसंयोगसिद्धेनॊक्तं युक्तमिति वाच्यम् , वस्तूनां देशाज्यवधानस्यैव संयोगरूपत्वात् , प्राकालीनसान्तरत्वस्वरूपपरिणामपरित्यागेन निरन्तररूपतया यः कथश्चित्तादात्म्यपरिणामः स संयोग इति तल्लक्षणात् । यतो नैरन्तर्येण परिणतानि वस्तूनि संयुक्तव्यवहारगोचरतां प्रतिपद्यन्ते, उक्त प्रत्यक्षस्यापि संयोगत्वेन रूपेण तद्विषयकत्वात् , धर्मिकल्पनातो धर्मकल्पना श्रेयसीति न्यायादतिरिक्तसंयोग स्वीकृत्य तत्र संयोगत्वधर्मकल्पनापेक्षया सिद्धे नैरन्तर्यलक्षणसंयोगे संयोगत्वधर्मकल्पनाया लाघवतर्केण युक्तत्वात् , तदतिरिक्त तत्र प्रमाणाऽभावात् , संयोगस्य सर्वथाऽतिरिक्तत्वेऽत्यन्तभिन्नयोहिमविन्याचलयोस्संयोगस्येवोक्तप्रतीतिसिद्धस्याऽनुयोगिप्रतियोगिनोरनुयोगिप्रतियोगिमावसम्बन्धस्य अनेनायं संयुक्त इति प्रतीतिसिद्धाश्रयाश्रयिभावसम्बन्धस्य चापटमानत्वाच्च । किश्चाऽऽत्मनो नित्येकान्तरूपत्वे तस्य छेदभेदक्लेदाद्यभावाद्धिसादेरभावः, तदभावाचाहिंसादेरप्यभावः, तदभावात् पुण्यपापयोस्तदभावाद् बन्धमोक्षयोर्लोकद्वयस्यापि चाभाव इति बद्धमूलो नास्तिक्यतरुस्स्यात्, न च मनःसंयोगविशेषध्वंसो हिंसा, वायुसंयोगविशेषध्वंसवत्तस्य हिंसकपुरुषीयेच्छाया अविषयत्वात् , किञ्च मनःसंयोगविशेषवंसस्यैव हिंसात्वाभ्युपगमे कायध्वंसस्य हिंसारूपत्वाभावेनैनं पुरुष मारयामीतीच्छाया अस्य पुरुषस्य कायं ध्वंसयामी. त्यर्थकत्वेन तदिच्छाजन्यप्रवृत्तिकारिणोऽहिंसकत्वं स्यात् । ____ अथ मरणोद्देश्यकमरणानुकूलव्यापारस्य हिंसात्वेनैतत्पुरुषमरणमुद्दिश्यैव प्रवर्त्तमानस्य पुरुषस्य हिंसकत्वं स्यादेवेति चेत् , मैवम् , यतो मरणोद्देश्यकमरणानुकूलमाक्षाद्वयापारस्य हिंसात्वे यत्र खगाभिघातेन साक्षान्मरणं न जातं किन्तु परम्परया तत्राच्याप्तिस्स्यात्, साक्षात्परम्परासाधारणतादृशव्यापारस्य हिंसात्वविवक्षायां विवक्षितपुरुषमरणमुद्दिश्यैव तत्पुरुषीयमरणानुकूलखङ्गाभिघातादिव्यापारे कृतेऽपि तेन व्यापारेण साक्षात्परम्परया वा विवक्षितपुरुषमरणं नैव जातं तत्राव्याप्तिस्स्यात् , अथ तत्र मरणाभावेऽपि हिंसालक्षणस्य मरणोद्देश्यकमरणानुकूलव्यापारस्य सत्वात् सङ्कल्पलक्षणहिंसासद्भावाच हिंसेप्टैवेति चेत् , तर्हि तादृशव्यापारवतः तादृशसङ्कल्पवतश्च पुरुषस्य मरणाभावेऽपि मरणजन्यं यत्पा तदापत्तिस्स्यात्, न च तदपीष्टमेवेति वक्तुं शक्यम् , यत्र मरणतदनुकूलव्यापारयोरुभयोस्सत्वं तत्र, यत्र केवलस्य मरणानुकूलव्यापारस्य सत्वं तत्र च फलवैषम्यस्यावश्यमभ्युपेयत्वात् कारणविशेषस्य कार्यविशेषप्रयोजकत्वात् । एवं मरणोद्देश्यकमरणानुकूलव्यापारमात्रस्य हिंसापदार्थत्वे यत्र चैत्रीयमरणमुद्दिश्य कृते व्यापारे चैत्रीयं मरणं जातं तत्र ताशव्यापारवतः मैत्रीयहिंसावधापत्तिस्यात्, मरणोद्देश्यकमरणानुकूलव्यापारस्य सवाद , अतो यदि तत्पुरुषीय मरणोदेश्यकमरणानुकूलव्यागारस्य तत्पुरुषीयहिंसात्वं विव. क्ष्यते तदा शत्रुवधाय यद्वा पारधिना मृगवधाय मुक्तेन शरेण लक्ष्यच्युतेनाऽन्यस्यैव मरणं
"Aho Shrutgyanam"