________________
सम्मति० काण्ड १, गा० १७ दुःखादृश्यमाननिमित्तकनरकादिदुःखसाधनपरिहारानुकूलनिवृत्तिरूपस्य सकलव्यवहारस्यो. च्छेदप्रसक्तिस्स्यादिति प्रतिपादयितुमाह
ण य दव्वट्टियपक्खे, संसारो व पज्जवणयस्स ।
सासय-वियत्तिवाई, जम्हा उच्छेअवाई अ॥ १७ ॥ 'ण य दवट्टियपक्खे संसारो' न च द्रव्यार्थिकपक्षे द्रव्यार्थिकनयाभ्युपगते वस्तुनि संसार: सम्भवति, ‘णेव पजवणयस्स' एतदनन्तरं ' पक्खे संसारो' इत्यनुकर्षणीयम् । नैवेत्यत्रैवकारोऽप्यर्थका, स च भिन्नक्रमः, तथा च पर्यायनयस्य पक्षेऽपि पर्यायार्थिकनयाभिमते वस्तुन्यपि न संसारः सम्भवति । तत्र हेतुं प्रदर्शयितुमुत्तरार्द्धमाह-'सासय-वियत्ति. वाई जम्हा' यस्मात् शाश्वतीं शश्वद्भवन्तीमकान्ताऽविनश्वरीमात्मप्रभृतिव्यक्ति वदितुं शीलं यस्य स शाश्वतव्यक्तिवादी द्रव्यार्थिकनयः । ' उच्छवाई अ' घण्टालोलकन्यायेन जम्हा इत्यस्यात्राप्यन्वया, च: समुच्चये, उच्छेदम् , अत्र उत्पूर्वकात् छिद्धातोर्भावे घञ्प्रत्यय:उत्प्राबल्येन छेदमुच्छेदम् , यत् सत्तत्क्षणिकमिति व्याप्तेः प्रतिक्षणं प्रतिव्यक्ति निरन्वयविनाशं वदितुं शीलं यस्य स उच्छेदवादी पर्यायार्थिकनयः। ननु द्रव्यार्थिकनयो भवत्वेकान्तशाश्वतव्यक्तिवादी, एतावता कथं संसारानुपपचिरिति चेत्, उच्यते, संसरणम् इतश्वेतश्व परिभ्रमणं मनुष्यादिपर्यायानारकादिपर्यायगमनं संसारस, स च चतूरूपा, गतिचतुष्कभेदात् , तदुक्तम् स्थानाङ्गे-"चउबिहे संसारे पण्णत्ते, तं जहा-नेरइअसंसारे जाव देवसंसारे । यद्वा औदयिकादीनां भावानां संसरणपरिणामः एकस्मादावाद्भावान्तरपरिणामः संसारा, स चात्मनो द्रव्यपर्यायोभयरूपतयेकानेकरूपत्वे सत्येव सङ्घटते, सर्वथा नित्यैकरूपत्वे तु मनुष्याद्यवस्थालक्षणोत्तरपर्यायावाप्तिर्ने स्यात्, एवमौदयिकादीनां भावानां मध्ये विवक्षि. तैकमावाद् मावान्तरापत्तिलक्षणपरिणामोऽपि च न स्यात्, पूर्वावस्थात्यागे सत्येवोत्तरावस्थोत्पत्तस्सम्भवाद, न च तत्तदवस्थानामेव भेदो न त्ववस्थातुरिति वाच्यम् , अवस्थातद्वतोः कथश्विद्भेदाभेदवादाभ्युपगम एवावस्थाऽत्रस्थात्भावसङ्घटनात् , अन्यथा मनुष्यादिसत्तदवस्थाभेदेऽप्यात्मनोऽविकारिणो जन्ममरणादिव्यपदेश एव न स्यात् , न च यथा स्थिरे स्थाणावन्यस्य कस्यचित्संयोगानुकूलक्रियया संयोगसद्भावेऽपि विभागानुकूलक्रियया विभागसद्भावेऽपि च न तत्र स्थाणो विकास, येन भेदोऽपि स्यात् , तद्वन्नित्यैकात्मन्यपि आधप्राणसंयोगो जन्म अन्तिमप्राणवियोगो मरणश्च भविष्यतीति नित्यपक्षेपि तद्वयपदेशो न दुर्घट इति वाच्यम् , दुग्धस्य तक्रेण सह संयोगे दुग्धभावपरिणतिविनाशे सत्येव दधिभावेन परिणतेर्भावा, तदभावे च तदभाव इतिवत् स्थाणोरपि केनचित् वस्तुना संयोगे तस्य पूर्वकालीनाऽसंयुक्तावस्थापरित्यागे सत्येव उत्तरसंयुक्तावस्थाया उत्पत्तिः, तदभावे च तदनुत्पत्तिरित्यन्वयव्यतिरेकवलादत्रापि पूर्वोत्तरावस्थाभेदेन कश्चित्तदभिन्नतद्वतोऽपि
"Aho Shrutgyanam"