________________
सम्मति• काण्ड 1, गा. १९ मूलनयद्वयविषयव्यतिरिक्तविषयान्तराभावतो मूलनयद्वयविषयकास्तेऽपि तदूषणेनैव दक्षिताः, यतो न मूलच्छेदे तच्छाखास्तदवस्थासम्भवन्तीत्याशयेनाह
सव्वणयसमूहम्मि वि नस्थि, णओ उभयवायपण्णवओ।
मूलणयाण उ आणं, पत्तेयं विसेसियं विति ॥ १६ ॥ 'सवणयसमूहम्मि वि' सङ्ग्रहादिसर्वनयसमूहेऽपि ' नत्थि णओ' नास्ति कश्चिनयः, 'उभयवायपण्णवओ' उभयवादप्रज्ञापको द्रव्यार्थिकपर्यायार्थिकाभ्यामत्यन्तपृथ. ग्भूताभ्यामारब्धस्य भिन्नस्याङ्गुलिद्वयारब्धतत्संयोगवदुभयवादस्य प्ररूपका, तत्र हेतु प्रदर्शयितुमुत्तरार्द्धमाह-'मूलणयाण उ आणं' मूलनयाभ्यामेव यत्प्रतिज्ञातं वस्तु तदेवाश्रित्य 'पत्तेयं विसेसियं विन्ति' प्रत्येकमेकैकाः सङ्ग्रहादयो विशेषितं ब्रुवन्ति, नयानां ज्ञान. रूपत्वपक्षे पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमुत्तरोत्तरनया अधिगच्छन्ति, पूर्वपूर्वनया. धिगतांशं गौणतयांशान्तरश्च प्रधानतया विषयीकुर्वन्तीति यावत् , नयानां वादरूपत्व. पक्षे च पूर्वपूर्वनयचोधितांशविशिष्टांशान्तरविषयकाधिगममुत्पादयन्ति, तादृशाऽधिगमाऽ. नुकूलव्यापारवन्त इति न विषयान्तरगोचरास्तेऽपि, अतो व्यवस्थितं परस्परात्यागप्रवृत्त. सामान्य विशेषविषयकसग्रहाद्यात्मकनयद्वयगोचरसामान्यविशेषोभयात्मकत्वाद्वस्त्वप्युभयात्मकमिति ॥ १६ ॥
अथ क्षीरमेव भोक्तव्यमित्येवं पयोव्रतो दधि नाति, दध्येव भोक्तव्यमिति दधिवतश्च दुग्धं नात्ति, गोरसो नाभ्यवहर्तव्य इत्येवमगोरसवतो दुग्धदधिनी उमे अपि नाम्यवहरतीति तदृष्टान्तेन वस्तुमात्रं कथञ्चिद्भेदाभेदात्मकत्वेनोत्पादादित्रयात्मकम् । तदुक्तम् -
"पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। ___अगोरसवतो नोभे, तस्मात्तत्वं त्रयात्मकम् ॥१॥" इति ॥
यतो दनः पयस एकान्ताऽभेदो यदि स्यात्तदा पयोव्रतस्य दधि भुञ्जानस्याऽपि न प्रतमङ्गस्स्यात् , तथा पयसो यदि दन एकान्ताभेदस्स्यात्तदा तद्भुञ्जतोऽपि दधिभोजनव्रतमङ्गो न स्यात् , ततो दधिपयसोर्दधित्वेन पयस्त्वेन च कथञ्चिद्भेदः । तथैव तयोर्गोरसत्वेन कथञ्चिदभेदः, अन्यथाऽगोरसवतस्य दुग्धायकैकभोजनेऽपि न व्रतभङ्गस्स्यादिति दुग्धदधिपर्यायापन्नगोरसवत् पूर्वापरपर्यायापनद्रव्यात्मकपटपटादिवाझं वस्तुमात्रं यथा कथञ्चिद्भेदाभेदोभयात्मकम् , तथाविधप्रमाणग्राह्यत्वात् , तथाऽऽस्माद्यान्तरमपि वस्तु. मात्रं कथश्चिद्भेदाभेदात्मकमभ्युपगन्तव्यम् , हर्ष-शोक-भय-करुणौदासीन्यायनेकाकारविवर्चात्मकैकचेतनास्वरूपतया कथश्चिद्भेदाभेदविषयकस्वसंवेदनाध्यक्षप्रमाणग्राह्यत्वात् , तस्य भेदाभेदैकान्तरूपताऽभ्युपगमे तु स्रक्चन्दनवनितादिदृश्यमाननिमित्तकसुखादृश्य. माननिमित्तकस्वर्गादिसुखसाधनोपादानानुकूलप्रवृत्तिरूपस्याहिकण्टकादिदृश्यमान निमित्तक
"Aho Shrutgyanam