________________
९८
पम्मति० काण्ड १, गा• १५ स्सम्यक्त्वहेतुत्वम् , तयोविषयविधया प्रमाणकारणत्वातदुभयावगाहिज्ञानं प्रमाणं भवतीति भावः। तथा च यो नयोपयोगस्वार्थे इतरनयार्थसंयोजनायां व्यापिपत्ति तस्य तावत्याऽपेक्षया सम्यग्दृष्टित्वस्य केवलस्वार्थमात्रावगाहनप्रवृत्तस्य नयस्य स्वेतरनयविषयसंयोजनाव्यापारवै. कल्येन मिथ्यादृष्टित्वस्य च सम्प्रदायसिद्धत्वात् , तस्मादितरनयविषयसंयोजनाच्यापारेण मुख्यगौणतया स्वपरार्थग्राहिणामवान्तस्नयभेदानां सम्यग्दृष्टित्वं युज्यते, न तु स्वतन्त्रकल्पितोभयविषयग्राहिणां नैगमभेदानामिति प्रतिपत्तव्यम् ॥ १४ ॥
यथेतरनयविषयनिरपेक्षस्वविषयग्राहिणोर्मूलभूतद्रव्यार्थिकपर्यायार्थिकनययोमिथ्यात्वं तथा स्वान्यनयविषयनिरपेक्षविषयप्राहिणां मूलनयार्थप्रज्ञापनामात्रव्यापूतानां तत्तद्विशिष्टांशाधिगममात्रेण भेदभाजामुत्तरनयानामपि मिथ्यात्वमेवेत्युपदर्शयितुमाह
"जह एए तह अपणे, पत्तेयं दुण्णया गया सब्वे ।
हंदि हु मूलणयाणं, पण्णवणे चावडा ते वि ॥१५॥" 'जह एए' यथैती मूलभूतौ पर्यायनिरपेक्षद्रव्यग्राहिद्रव्यार्थि कनयद्रव्यनिरपेक्षपर्याय. ग्राहिपर्यायार्थिकनयो मिथ्यादृष्टी 'तह' तथा 'पत्तेयं प्रत्येकम्-इतरानपेक्षलक्षणप्रातिस्विकरूपाः 'अण्णे सत्वे जया दुण्णया' अन्येऽपि सर्वे नया दुर्नयाः, परस्परनिरपेक्षविषयग्राहि. स्वस्य मिथ्यात्वनिबन्धनस्य सर्वत्र तुल्यत्वात् । नन्वेवं मूलभूतौ द्रव्यार्थिकपर्यायार्थिकावित. रेतरविषयप्रतिक्षेपकत्वेन गौणप्रधानभावेन समुदितद्रव्यलक्षणाऽग्राहितया भवतां मिथ्या. दृष्टी, अवान्तरतद्भेदरूपनयास्तु तद्वेपरीत्येन मूलभूतनयद्वयगतमिथ्यात्वधर्मारोपाऽविषयत्वात्सम्यग्दृष्टयो भवेयुरित्याशङ्कायां तनिषेधे हेतुप्रदर्शनार्थमुत्तरार्द्धमाह-हंदीत्यादि । "हंदि" इत्येवं गृह्यताम् , 'हु' हुशब्दः हेतौ 'मूलणयाणं' मूलनययोः मूलनयविषययोरेव तत्तदधिगतांशविशिष्टयोः 'पनवणे' प्रज्ञापने प्ररूपणे वावडा ते वि' व्यापृतास्तेऽपि, यद्विषयको मूलनयो मिथ्यादृष्टी तद्विषय प्रज्ञापनामात्रव्यापृतास्तत्तद्विशिष्टांशाधिगममात्रेण भेदभाजोऽवान्तरनया अपि मिथ्यादृष्टय एव । तथा च मूलनयद्वयविषयव्यतिरिक्तविषया. न्तराऽभावाद सर्वनयवादानां मूलन यद्वयविषययोः सामान्यविशेषयोरन्यतरस्यैव किश्चित्तकारविशिष्टतया प्ररूपकत्वान तद्व्यतिरिक्तनयान्तरसद्भाव इति ॥ १५॥ ... ननु सङ्ग्रहादिनयसद्भावात्कथं तद्व्यतिरिक्तनयान्तरसद्भावो नेति वचश्शोभत इति चेत, सत्यम् , सन्ति सङ्ग्रहादयः, किन्तु नैगमनयवादस्य स्वतन्त्रकल्पितसामान्यविशेषोभयविषयकत्वेन शुद्धसङ्ग्रहनयवादस्य च सत्तारूपपरसामान्यविषयकत्वेनाशुद्धसत्वहनयवादस्य च परापरसामान्यमात्रविषयकत्वेन व्यवहारनयवादस्य च व्यवहारोपयुक्ततत्तव्यक्त्यात्मकविशेषमात्रविषयकत्वेन ऋजुसूत्रशब्दसमभिरूढेवम्भूतनयवादानां वर्तमानक्षणवर्त्यर्थकालादि. भेदभिन्नार्थसज्ञाभेदभिन्नार्थव्युत्पत्तिनिमित्तक्रियासत्ताकालावच्छिन्नार्थमात्रग्राहित्वेन च
"Aho Shrutgyanam"