________________
पम्मति० काण्ड , गा
स्यादेतत् भवत्वेकान्तपर्यायार्थिकनयप्रदर्शितयुक्तिभिधौंब्यस्याव्यवस्थितेधौव्याभाववति ध्रौव्यग्राहित्वेनैकान्तद्रव्यार्थिकनयस्य एकान्तद्रव्यार्थिकनयप्रदर्शितयुक्तिभिरुत्पादव्यययोरसिद्धस्तदभाववति तदाहित्वेनैकान्तपर्यायार्थिकनयस्य च मिथ्यात्वम् , तयोस्सुन्दोपसुन्दन्यायेनेतरेतरविषयप्रतिक्षेपकत्वेन स्वविषयाऽसत्यस्वात् समुदितोत्पादव्ययध्रौव्यात्मकद्रव्यलक्षणाग्राहकत्वाच्च, द्रव्यार्थिकपर्यायार्थिकनयद्वयारब्धत्वेन तद्विषयविषयकस्त्वेको नय उभयवादात्मकस्सम्यग्दृष्टिर्भविष्यतीत्याशङ्कायामाह
ण य तइओ अस्थि णओ, ण य सम्मत्तं ण तेसु पडिपुण्णं ।
जेण दुवे एगंता, विभत्रमाणा अणेगंतो ॥१४॥ __ण य तइओ अस्थि णओ' न चोभयवादात्मकस्तृतीयोऽस्ति नयः कश्चिद्, यतस्तस्य द्रव्यपर्याययोर्द्रव्यपर्यायान्यतरैकरूपतया ग्राहित्वे एकान्तद्रव्यार्थिकपर्यायार्थिकनयान्यतररूपत्वं स्यात् , प्रधानीभूतपरस्परसापेक्षोभयरूपतया ग्राहित्वे च नयात्मकत्वानुपपत्तेः प्रमाणात्मकत्वं स्यात्, प्राधान्येन द्रव्यपर्यायोभयावगाहिज्ञानस्य प्रमाणरूपत्वात् । उक्तश्च स्याद्वादरत्नाकरे-"प्राधान्येन द्रव्यपर्याय द्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रति पत्तव्यमिति" तत्त्वार्थश्लोकवार्तिकेऽप्युक्तम्-प्राधान्येनोमयात्मानमर्थ गृहद्धि वेदनम् । प्रमाणं नान्यदित्येतत्प्रपञ्चेन निवेदितम् ।। १॥ इति । एतदेवाह-"ण य सम्मत्तं ण तेसु पडिपुण्णं " द्वो नौ प्रकृतार्थ गमयत इति न्यायात् प्रतिषेधदयेन प्रकृतार्थावगतेपरित्यक्तेतररूपाध्यवसायलक्षणान्योऽन्यनिश्रितत्वेन तयोर्द्रव्यार्थिकपर्यायार्थिकनययोः प्रति. पूर्ण सम्यक्त्वं न चास्तीति न, किन्त्वस्त्येव, अनेकान्तात्मनोव्यपर्याययोः परस्परसापेक्ष भावेन ग्राहितया यथाऽवस्थितप्रत्ययरूपत्वात्तयोः, तथा च तादृशौ तौ नयौ सम्यक्प्रत्ययरूपावेवेति भावः । मिथो निरपेक्षभावेन द्रव्यपर्यायग्राहिणोस्तु तयोर्न च सम्यक्प्रत्ययरूपत्वमित्यत्र हेतुमाह-'जेण दुवे एगन्ता' येन द्वावपि नयौ परस्परनिरपेक्षद्रव्यपर्यायग्राहिणी एकान्तौ एकान्तनयरूपो मिथ्यारूपाविति यावत् 'विभजमाणा अणेगंतो' वि-विशेषेण परस्पराऽत्यागरूपेण भज्यमानौ द्रव्यपर्यायावगाहिनावनेकान्तः, अर्थात् प्रमाणसञ्ज्ञां दधाते, नयस्येतरांशीदासीन्येनानन्तांशात्मकवस्त्वेकांशपरिच्छेदरूपत्वेन प्राधान्येन द्रव्यपर्यायोमयावगाहिज्ञानस्य प्रमाणशब्दवाच्यत्वात् , यद्वाऽशेष हि प्रामाण्य सापेक्षं गृह्यमाणयोरनयोरेवं विषययोर्व्यवस्थितम् । “जेण दुवे एगंता" येन द्वावपि द्रव्यपर्यायौ परस्परनिरपेक्षतयैकान्तो एकान्तरूपतया व्यवस्थितौ मिथ्यात्वनिवन्धनम् , भ्रान्तबुद्धिकारणमिति यावत् , 'विभजमाणा' विभज्यमानौ वि-विशेषेण परस्परात्यागरूपेण मज्यमानौ गृह्यमाणो तो 'अणेगंतो' अनेकान्तः, परस्पराजदुत्या द्रव्यपर्यायोभयात्मकस्य वस्तुनोऽनेकान्तात्मकत्वादित्येतयो
"Aho Shrutgyanam"