________________
सम्मतिः काण्ड १, गा० १५ समनियतनानाधर्मत्वेन तद्वथाप्यबहुत्वस्य धर्मिगतस्यात्राभावान बहुवचनापत्तिा, यद्वोद्देश्यतावच्छेदकीभूतोत्पादादित्रयाणामपि समुदायत्वेन रूपेणैकत्वेन विवक्षणादत्राप्येकधर्मस्येवो. द्देश्यतावच्छेदकत्वमिति तद्व्याप्यधर्मिगतबहुत्वस्याभावान द्रव्यपदोत्तरबहुवचनापत्तिः । एवं पुष्पदन्तपदप्रवृत्तिनिमित्तस्य चन्द्रत्वस्य सूर्यत्वस्य न चन्द्रत्वत्वेन सूर्यत्वत्वेन च रूपेण द्वित्वोद्देश्यतावच्छेदकत्वम् , किन्तु पुष्पदन्तपप्रवृत्तिनिमित्तत्वरूपसामान्यधर्मेणेति तद्रूपेण चन्द्रवमूर्यत्वयोरेकीकृतत्वेनैकधर्मस्योद्देश्यतावच्छेदकत्वादुद्देश्यतावच्छेदकव्याप्यद्वित्वमानमुपपद्यत एव, पुष्पदन्तपदप्रवृत्तिनिमित्तत्वेन रूपेणोद्देश्यतावच्छेदकीभूतस्य चन्द्रवस्याभाववान सूर्यः, सूर्यत्वस्याभाववांश्च न चन्द्रः, किन्त्वन्य एव, तदवृत्तित्वेन द्वित्वस्य चन्द्रस्वसूर्यत्वव्याप्यत्वसद्भावादिति । एतदाशयेनैवोपाध्यायैरप्युक्तं न्यायखण्डखाये"नाशोद्भवस्थितिमति क्रमशो न शक्तो, द्रव्यध्वनिस्तदिह नो पृथगर्थताभृत् । शब्दस्वभावनियमावचनेन भेदः, स्वव्याप्यर्मिगबहुत्वनिराकृतेश्च ॥३५॥" इति
- विशेषार्थिनाऽस्मत्कृतश्रीमहावीरस्तवकल्पलतिकाटीकावलोकनीयेति । तदेवं द्रव्यार्थिकनयाभिमतं द्रव्यं पर्यायाक्रान्तमेव, न तु तद्विकलम् , पर्यायार्थिकनयाभिमताः पर्याया अपि द्रव्यसमनुगता एव न तद्वियुक्ताः, परस्परनिरपेक्षयोस्तयोः कदाचिदप्यप्रतिभासनादिति सिद्धम् ॥ १२ ॥
एत उत्पादस्थितिमाः परस्परनिरपेक्षाः, यद्वोत्पादव्ययाविति धौव्यमिति च न द्रव्यलक्षणं किन्तु समुदितोत्पादस्थितिमङ्गाः परस्परानुस्यूता एव द्रव्यलक्षणम् , एकैकविनिर्मोकेण द्रव्याप्रतीतेरिति प्रत्येकलक्षणग्राहिणी द्रव्यार्थिकपर्यायार्थिकमूलनयो मिथ्यादृष्टी, इत्येतत्प्रदर्शनायाह
"एए पुण संगहओ पाडिक्कमलक्खणं दुवेण्हंपि।
तम्हा मिच्छद्दिट्ठी पत्तयं दो वि मूलणया ॥ १३ ॥" 'एए एते उत्पादस्थितिभङ्गाः 'सङ्गाहओ संग्रहतः शिविकोद्वाहिपुरुषा इव परस्परमापेक्ष. भावतः परस्परस्वरूपोपादानेनैव सतो लक्षणम् । 'पाडिक' प्रत्येकं मिथोऽपेक्षारहितत्वेन एकका उत्पादादयो 'दुवेण्हंपि' द्वयोरपि द्रव्यास्तिकपर्यायास्तिकनययोरेतदनन्तरमभिमता इति शेषः 'अलक्षणम्' अलक्षणम् , एकान्तद्रव्यास्तिकनयाभ्युपगतमेकान्तध्रौव्यमिति एकान्तपर्यायास्तिकनयास्तिकनयाभ्युपगतावेकान्तोत्पादव्ययौ च सच्छब्दाभिधेयस्य द्रव्यस्य न लक्षणम् , उत्पादव्ययव्यतिरेकेण ध्रौव्यस्य ध्रौव्यव्यतिरेकेणोत्पादव्यय योरप्रतीतेः, उत्पादव्ययाविनाभूततया ध्रौव्यस्य ध्रौव्याविनाभूततयैव चोत्पादव्यययोः प्रतीतेः, तम्हा' तस्मात् , 'पत्तेयं दो वि मूलणया मिच्छट्टिी' प्रत्येकं द्वापि मिथोऽनपेक्षी प्रत्येकलक्षणग्राहिणी द्रव्यार्थिकपर्यायार्थिको मूलनयो समस्तनयराशिकारणभूती मिथ्यादृष्टी इति भावः ।। १३ ।।
"Aho Shrutgyanam"