________________
सम्मति• काण्ड, गा. १३ कारणत्वमिति शक्यतावच्छेदकतावच्छेदकस्यैक्याद्रव्यपदमेकार्थकमेव, यथा पशुपदस्य लोमवल्लाङ्गुलवति शक्तस्य लोमवल्लाङ्गुलस्य शक्यतावच्छेदकस्य नानात्वेऽपि साक्षाच्छक्यतावच्छेदकतावच्छेदकस्य लागृलस्वस्य परम्परया शक्यतावच्छेदकतावच्छेदकस्य च लोमत्वस्येक्यान्न नानार्थकत्वं तथा प्रकृतेऽपीति, नन्वेवं तर्हि "पुष्पदन्तौ पुष्पवन्तावेकोत्या शशिभास्करो" इति कोशस्वरसात् पुष्पदन्तपदं चन्द्रत्वावच्छिन्नं सूर्यत्वावच्छिन्नं च बोधयवित्याकारिकाया एकस्या एव चन्द्रत्वसूर्यवधर्मद्वयावच्छिन्ने शक्तस्सद्भावेन नित्यं द्विवच. नान्तं तद्वद् द्रव्यपदमप्युत्पादव्ययध्रौव्यात्मकत्रितयधर्मावच्छिन्नं बोधयत्वित्याकारिकाया. स्समुदितोत्पादादित्रितयधर्मावच्छिन्ने एकशक्तेस्सद्भावेन नित्यं बहुवचनान्तमेव स्यादिति चेत्, न, 'आपः स्त्री भूग्नि' 'पुं भूग्नि दाराः' इत्याधनुशासनसिद्धबहुवचनान्त-आपोदारा इत्यादिवद् द्रव्यपदस्थ नियतबहुवचनताया अननुशासनात् ! यस्य यस्य शब्दस्य यो यस्स्वभावस्स स न कदापि तं तं स्वभावं परिजहातीति व्याप्तेर्यथाऽदारादिशब्दस्य बहुववनान्तत्वस्वभावस्तथा प्रकृतस्य द्रव्यपदस्यैकवचनान्तत्वस्वभावः, स्वस्वभावातिक्रमणे तु निस्स्वभावापत्या वस्तुत्वमेव परित्यक्तं स्यादिति भावः । अथ शब्दस्वाभाव्याद्रव्यपदोत्तरं बहुवचनं मास्तु, अर्थस्वाभाव्यात्तु तत्स्यादेवेत्यपि न च युक्तम् , यतो बहुवचनेन स्वप्रक. त्यर्थतावच्छेदकव्याप्यमेव धर्मिगतं बहुत्वं बोध्यते, अन्यथैकस्मिन्नपि घटे घटपटकटाहगतं बहुत्वमादाय घटा इति प्रयोगापत्तेः, न चात्रैकस्मिन् द्रव्ये उत्पादव्ययध्रौव्यव्याप्यं बहुत्वमस्तीति न द्रव्यपदस्य बहुवचनान्ततेति । अथ स्यादिप्रत्ययप्रकृतिपदवाच्यतावच्छेदक व्याप्यं धर्मिगतं बहुत्वं यत्र तत्रैव बहुवचनमित्यभ्युपगमे घटपटकटाहगतं बहुत्वमादाय घटपटकटाहा इति प्रयोगोऽपि न स्यात् , यतोऽत्र घटत्वपटत्वकटाहत्वैतत्रितयधर्मावच्छिन्न. मुहिश्यैव बहुत्वं विधीयत इति तस्य बहुत्वस्योद्देश्यतावच्छेदकस्य घटत्वस्याभावति पटे कटाहे च पटत्वस्यामावति घटे कटाहे च कटाहत्वस्याभाववति घटे पटे च सवेन तधाप्यत्वाभावात् , एवमाकाशघटाविति प्रयोगोऽपि न स्यात् , आकाशत्वघटत्वव्याप्या. काशघटगतद्वित्वाभावादित्युक्तदोषनिवृत्तये यत्रैकधर्मस्योद्देश्यतावच्छेदकत्वं तत्रैवोद्देश्यतावच्छेदकव्याप्यं बहुत्वं बहुववनेन बोध्यते, द्विवचनेन चोद्देश्यतावच्छेदकव्याप्यं द्वित्वं बोध्यते, अत एवाकाशा आकाशाविति न प्रयोगौ, आकाशवव्याप्यस्य बहुवस्य द्वित्वस्य चाभावात् , आकाशे एकत्तस्यैव सच्चात् , यत्र च नानाधर्मस्योद्देश्यतावच्छेदकत्वं तत्र केवलमेव बहुत्वं बहुवचनेन द्वित्वश्च द्विवचनेन बोध्यत इत्यम्युपगन्तव्यम् , अत एव घटपटाकाशा घटाकाशाविति प्रयोगयोरपि प्रामाण्यमुपपद्यते। तथा च द्रव्यपदस्थले उत्पाद. व्ययध्रौव्याणामुद्देश्यतावच्छेदकत्वेनाऽभ्युपगतानां नानाधर्मत्वेन केवलस्य बहुत्वस्यैव भानं स्यादिति पूर्वोक्तं न युक्तमिति चेत् , मैवम् , समनियतनानाधर्मस्योद्देश्यतावच्छेदकत्वस्थलेsप्युदेश्यतावच्छेदकव्याप्यबहुत्वस्यापि बहुवचनेन भानाभ्युपगमात् , तथा चोत्पादादित्रयाणां
"Aho Shrutgyanam"