________________
सम्मति• काड , पा. ११ मेदप्रतियोगितावच्छेदकधर्मवस्खलक्षणकारणत्वन्यूनवृत्तित्वस्य तत्र सत्त्वात् , कारणताधिकरणे जले पृत्तियः पृथिवीत्ववानेत्याकारको भेदः पृथिव्याश्च वृत्तिर्यों जलत्ववान्नेत्याकारको भेदस्तत्प्रतियोगितावच्छेदकत्वात्पृथिवीत्वस्य जलत्वस्य चेति चेद्, मैवम् , पृथिवीजलादीनां शक्तिमत्वेनैव शक्तिलक्षणकारणत्वस्य तदभिव्यञ्जकविधया पृथिवीत्वे जलवादी चावच्छेदः कत्वस्य स्वीकारे उक्तदोषाभावात् , अखण्डशक्तिलक्षणकारणत्वापेक्षया पृथिवीत्वस्य जलवादेश्च न्यूनवृत्तित्वेऽपि न क्षतिः, सखण्डकारणताया अवच्छेदकस्यैवाऽन्यूनानतिरिक्तवृत्तित्व. मिति नियमादित्युक्तं प्रागेव, "उरलाइसत्तगेणं, एगजिओ मुयइ फुसिय सवअणू । जत्तिय. कालिं स थूलो, दन्चे सुहुमो समनयरा ॥१॥" इति पारमर्षवचनात् “एवं स्यासर्वगतः स्यादऽसर्वगतो घटादिरित्यादिकाऽपि सप्तभङ्गी वक्तव्या, यतो य एत्र पार्थिवाः परमाणवो घटस्त एव विस्रसादिपरिणतिवशाजलानिलानलावन्यादिरूपतामात्मसात्कुर्वाणास्स्यात्सर्वगतो घट इत्यादिसप्तमङ्गविषयता यथोक्तन्यायात् कथं नासादयन्ति" इत्येवं "मदं मिच्छादसणसमूहमइयस्स" इत्यादिगाथाबृहट्टीकावचनात् "वातयोनिकत्वादप्कायस्य यत्र यत्रासो तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूछते " इत्यादिसूत्रकृताङ्गद्वितीयश्रुतस्कन्धतृतीयाध्ययनसूत्रटीकावचनाच पुलानामेकजातीयत्वे सिद्धे तेषां पृथिव्युदकज्वलनपवनवनस्पत्यादित्वेन विपरिवर्तमानपरिणतिस्वभावतया जन्यद्रव्यमात्रस्यै कजातीयपुद्गलकार्यत्वेन जन्यद्रव्यत्वावच्छिन्नं प्रति तदनुकूलशक्तिमत्त्वेन परि. णामिपुद्गलद्रव्यस्य कारणत्वं, यद्वा पुद्गलपर्यायत्वावच्छिन्न प्रति तदनुकूलशक्तिमत्वेन पुद्गलद्रव्यस्य कारणत्वमित्येवं सामान्यकार्यकारणभावो ज्ञेयः, सखण्डकारणत्वस्यैवाग्रहश्चेत्तदा पुद्गलपर्यायत्वावच्छिन्नं प्रति पुद्गलत्वेनैव कारणत्वमभ्युपगमनीयमिति न कोऽपि दोषः । एतसाग्रे विवेचयिष्यते, तथा च वस्तुमात्रस्य परिणामपरिणामिमावाद्रव्यपर्यायोमयरूपत्वेन तदपेक्षयोत्पादव्ययधौव्ययुक्ततया द्रव्यमित्यभ्युपगन्तव्यम् । अत एव तत्र द्रष्यत्वबुद्धिरपि परकल्पितेनैकान्तभिन्नद्रव्यत्वजातिद्रव्येतरव्यावृयादिना न, किन्तूत्पादव्ययध्रौव्यैस्समुदितैरेव, उक्तश्च श्रीमहोपाध्यायैश्रीयशोविजयैर्महावीरस्तवप्रकरणे " नाशोद्भवस्थितिमिरेव समाहृताभिर्द्रव्यत्वबुद्धिरिति सम्यगदीडशस्त्वम्।" इति । द्रव्यत्वविषयकप्रत्यक्षवुद्धिकारणत्वमपि नोत्पादत्वेन व्ययत्वेन ध्रौव्यत्वेन प्रत्येकरूपेण प्रत्येकपर्याप्तम् , किन्तु समुदायत्वेन रूपेण तत्रितयपर्याप्तमेव, अत एव द्रव्यपदजन्यशाब्दबोधं प्रत्ययुत्पादवति द्रव्यपदं शक्तं, नाशवति द्रव्यपदं शक्तं ध्रौव्यवति द्रव्यपदं शक्तमित्येवं प्रत्येकधर्मावच्छिन्ने शक्तिग्रहस्य हरिपदजन्यं विष्णुबोधप्रति विष्णुत्वावच्छिन्ने शक्तिग्रहस्य सिंहबोधम्प्रति सिंहत्वावच्छिने शक्तिग्रहस्य कप्यादिवोधम्प्रति कपित्वाद्यवच्छिन्ने शक्तिग्रहस्येव पृथकारणत्वं न, येन द्रव्यपदस्य हर्यादिपदवच्छक्तिग्रहभेदानानार्थकत्वं स्यात् , किन्तु समुदायत्वेन रूपेणेकीकतोत्पादध्ययध्रौव्यरूपसमुदितत्रितयधर्मावच्छिन्ने द्रव्यपदं शक्तमित्येवमेकस्यैव शक्तिग्रहस्य
"Aho Shrutgyanam"