________________
सम्मति० काण्ड १, गा० १२
परित्यज्य तमोरूपं पर्यायान्तरमासादयन्ते " इत्याद्युक्तं सङ्गच्छते । जलादिपरमाणोरपि शक्तिविशेषेण पार्थिवारम्भस्य बहुलमुपलम्भादित्यष्टसहस्रयामुक्तेर्जन्यपृथिवीत्वाद्यवच्छि नम्प्रति पृथिवीत्वादिना हेतुत्वमपि न युक्तम्, किन्तु तादात्म्यसम्बन्धेन पृथिवीत्वावच्छि नम्प्रति स्वयंसत्वसम्बन्धेन पृथिवीत्व जलत्वादिना हेतुत्वं वाच्यम् ।
44
भेदे हि द्व्यणुकादीनां जायन्ते परमाणवः । अणूनां संहतौ यद्वजायन्ते द्व्यणुकादयः ॥ १ ॥
95
१९१३
1
इति स्याद्वादरत्नाकरपञ्चमपरिच्छेद |ष्टमसूत्रवृत्तिवचनात् संयोगजातोत्पत्तिस्थल इव विभागजातोत्पत्तिस्थलेऽपि द्रयणुकादिध्वंसरूपाया एव परमाणुत्पत्तेः स्वीकारादित्यन्यसामग्रीसद्भावे - विस्रसातोऽन्यरूपेणोत्पत्तिसम्भवात् एतेन पृथिवीत्वस्य परमाणौ सच्वं, न च तत्र कार्यतेति कार्यतातिप्रसक्तत्वेन तस्य न कार्यतावच्छेदकत्वम्, किन्तु जन्यपृथिवीश्वस्यैवेति न तादात्म्यसम्बन्धेन पृथिवीत्वेन कार्यत्वं युक्तम्, किन्तु समवायसम्बन्धेन जन्यपृथिवीत्वेनैवेत्यारे काऽपि निरस्ता यदि कारणं कार्य ततः को दोषः, दृश्यते हि कारणमपि कार्यमपि, यथा परमाणुः कारणं व्यणुकादेः, मृत्पिण्डशिवकादेः कार्यमपि तद्भेदजत्वादिति द्वादशारनयचक्रे प्रथमविध्यरे प्रोक्तत्वात्, मृत्पिण्ड शिवकादिलक्षणस्कन्धात् द्व्यणुकादिमहावयविपर्यन्तस्कन्धाद्वा पृथग्भावे सति परमाणोस्तद्भेदजत्वात्तत्र कार्यत्वस्याप्यभ्युपगमेन पृथिवीत्वस्य कार्यत्वाsन्यूनानतिप्रसक्तत्वेन तद्रूपेण कार्यत्वस्यैव प्रामाणिकत्वात्, इदमस्माद्विमक्ततयोत्पन्नमिति प्रतीतेर्विभाग जातोत्पादस्याप्यनुभवसिद्धत्वात्, अवयव संयोगपूर्विकेत्र कार्यद्रव्योत्पत्तिरिति नैयायिकादिप्रवादस्य निर्मुक्तिकत्वात्, कुम्मादौ स्कन्ध मेदे कपालकलापादिभवनस्यानुभवसिद्धत्वात् । न हि तत्रावयवक्रियादिस्त्वद्गदिता प्रक्रिया सूक्ष्ममक्षूणमीक्षमाणेनापि मांसचक्षुषा लक्ष्यते, वेगवन्मुद्गरसम्पर्क समनन्तरं कपालमालाया एव विलोकनात् । तदनुसारेण च परमाणुष्वपि स्कन्धभेद एव कारणमकथि | व्यवहारनयार्पणेन चस्कन्धभेदः कारणमभाणि निश्चयनयार्पणेन तु य एव स्कन्धविभागः स एव परमाणवः । अथ यद्यणवो जायन्ते तदा यत्कार्यद्रव्यं तत्स्वपरिमाणादल्पपरिमाणैः कारणैरारब्धं घटवदिति व्याप्तिसिद्धेर्विवादास्पदीभूत परमाणू नामल्पपरिमाणैः कारणैर्भवितव्यम्, तेषामप्यपरैस्तैरित्यनवस्थानात्परमाणूनामभाव एव भवेदिति चेत्, नैतद्वाच्यम्, व्याप्तेरसिद्धेः । श्लथावय'कर्पासपिण्डानां संघाताद् घनावयवपिण्डेन सूक्ष्मेण संजायमानेन व्यभिचारात् । न चैवं ताह 'परमाणोर्नित्यत्वक्षतिस्स्यादिति वाच्यम्, विभक्तावस्थारूपेणोत्पन्नेऽपि तस्मिन् परमाणुभावेन 'नित्यत्वस्याप्यऽक्षतेः । तद्भावस्य कदाप्यपरित्यागात् । अथ भवतु पृथिवीत्वस्य पूर्वोक्तनीत्या कार्यतावच्छेदकत्वं न च तथापि पृथिवीत्वस्य जलत्वादेव कारणतावच्छेदकत्वं सम्भवति, पृथिवीत्वस्य जलत्वादेश्व कारणताऽनतिप्रसक्तत्वेऽपि कारणतासमानाधिकरण
"Aho Shrutgyanam"