________________
सम्मति का १, गा• १२ सूक्ष्मपरिणामे च वस्तुनि विधिप्रतिषेधयोः प्रत्यक्षस्य मूकत्वात्तेन पक्षबाधाऽनुपपत्तेः, अन्यथा शातकुम्भीयोष्णस्पर्शसाधनेऽपि कथं न तत्प्रसङ्गः, नाप्यत्रागमबाधः, " स्पर्शरसगन्धवर्णवन्तः पुद्गलाः "१५-२३ । इति तत्सवसाधकस्यागमस्य सद्भावात् । न च सर्वज्ञप्रणीतस्यास्यागमस्याऽप्रामाण्यम्, गौतमीयाद्यागमस्यापि तथात्वप्रसङ्गात् , विनिगः मकाभावात् , अत एव पृथिव्या गन्धवचं जलस्य शीतस्पर्शवत्वं तेजस उष्णस्पर्शवचं वायोर्विजातीयानुष्णाशीतस्पर्शवचं लक्षणमिति पृथिव्यादिचतुर्णां विभिन्न लक्षणानि निरस्तान्यवसे यानि, क्षित्यादि चतुर्णामपि पुद्गलद्रव्यपरिणामात्मनैक्येन तत्र रूपादिचतुष्टयसद्भावेनातिव्याप्तिदोषदुष्टतयोक्तविविक्तलक्षणाऽसङ्गतेः, उक्तश्च स्याद्वादरत्नाकरे " एकान्तेन विविक्तं यत् , क्षित्यादेर्नास्ति लक्षणम् ॥"
"क्षित्यादीनि हि सर्वाणि, द्रव्याणि द्रव्यतात्मना । एकेन परिणामेन, तादात्म्येनावतस्थिरे ।। १ ।। तथाभूतान्यपीमानि, समस्तान्यपि सर्वथा।
व्यावृत्तलक्षणानीति, को ब्रूयाद्भवतः परः १ ॥ २ ॥ "पृथिवीपयः पावकमारुतानां, द्रव्यप्रवन्धे पुरतश्चतुर्णाम् ।
आबिभ्रतां पौद्गलिकत्वमेकं, कामं पृथग्लक्षणता कथं स्यात् ? ॥३॥" इति। - अथ पृथिव्यादीनां चतुर्णामपि पुद्गलपर्यायत्वेनाऽभिन्नलक्षणत्वे पृथिव्यामिव जलादिध्वपि गन्धादीनामुद्भूततैव भवेत् , अन्यथा तु सर्वथा भिन्नलक्षणतैवैषामिति चेत्, न, नायनेन तेजसा व्यभिचारात् , न ह्यनभिव्यक्तभास्वररूपोष्णस्पर्श नायनं तेजोऽभिव्यक्तभासुररूपोष्णस्पर्शात पावकाद्भिन्मलक्षणं भवतां प्रसिद्धम् , द्रव्यसङ्खथाच्याघातप्रसङ्गात् । एवं पृथिव्यादेरप्यभिव्यक्तानमिव्यक्तगन्धादियोगेऽपि नान्योऽन्यमत्यन्तभिन्नलक्षणत्वम् । अथा. त्यन्तभिन्नलक्षणाभावे पृथिवीत्वादिप्रतिनियतजातिसम्बन्धस्तेषां कुतस्त्यः, एकान्तेन भिन्नलक्षणत्वाभावे हि यथा पृथिव्यां पृथिवीवजातिमत्वं तथाऽजोवायुष्वप्येवं स्यादिति चेत् , तदप्यसङ्गतमेव, अवान्तरजातियोगस्य सर्वथा लक्षणभेदाऽप्रसाधकत्वात् , व्यक्तिभेदमेव घसौ प्रसाधयति । अन्यथा क्षत्रियत्वाद्यवान्तरजातियोगादात्मनामप्येकान्तिकं न स्यादेकलक्षणत्वमिति । तदेवं पृथिवीजलादीनां पुद्गलद्रव्यत्वेन रूपेणैकजातीयत्वे सिद्धे परमाणवोऽप्येकजातीया एवेति सिद्धम् । एते घटादिपरमाणवः पार्थिवपरमाणव इति प्रयोगस्तु परमाणूनां तदानीं पार्थिवकार्यरूपेण परिणमनादेव, न तु पृथिवीत्वजातियोगात् , अत एव तेषामेव जलकार्यता परिणतिकाले जलपरमाणव एते इति तत्वविद्भिर्व्यवहियते, तेन "आदीपमाव्योमसमस्वभावम्" इत्यादिश्लोकव्याख्यायां स्याद्वादमञ्जरीत्याख्यायां "प्रदीपपर्यायापनास्तैजसाः परमाणवस्स्वरसतस्तैलक्षयाद्वाताभिघाताद्वा ज्योति:पर्याय
"Aho Shrutgyanam"