________________
३
सम्मति० काण्ड १, गा० १२
वच्छेदकविधया द्रव्यत्वस्य जातित्वसिद्धिः । तथा च सिद्धमेतन्न द्रव्यत्वजातिमन्वाद्रव्यमिति, न वा समवायिकारणत्वाद् द्रव्यमित्यपि युक्तं । किन्तु
""
व्यक्ताव्यक्तात्मरूपं यत्, पौर्वापर्येण वर्त्तते । कालत्रयेऽपि तद् द्रव्य - मुपादानमिति स्मृतम् ॥ १ ॥ "
९१
1
इति लोकोक्तलक्षणोपादानापरसञ्ज्ञक परिणामि कारणत्वाद्रव्यम् एवञ्च पृथिव्यादि यत्पौद्गलिकमात्मादि च यदपौगलिकं तत्सर्वं परिणामिकारणतया यथा द्रव्यं तथा परिणामरूपतत्तत्कार्यापतया पर्यायात्मकमपि परिणामिलक्षणेनैवोभयकोडीकरणात्, द्रव्यपर्यायोभयरूपत्वादेव पूर्वापरपर्यायानुस्यूतद्रव्यरूपेण यदेव ध्रुवं तदेव पूर्वपर्यायेण व्येति उत्तरपर्यायेण चोत्पद्यत इत्युत्पादव्ययध्रौव्यानुगतमेत्र द्रव्यं वदन्ति समयविदः । उक्तञ्च खण्डखाद्येन द्रव्यमेव तदसौ समवायिभावात्, पर्यायताsपि किमु नात्मनि कार्यभावात् । उत्पत्तिनाशनियत स्थिरतानुवति,
44
द्रव्यं वदन्ति भवदुक्तिविदो न जात्या | ६३ ॥ " इति ।
तथाऽनभ्युपगमे तु तथाविधविशिष्टसामग्रीसमवधाने विस्रयातः पृथिव्यादि स्वस्त्ररूपतया विनश्य जलादिरूपेण नैत्र परिणतिं प्राप्नुयात् । ननु जन्यपृथिवीत्वावच्छिन्नकार्यतानिरूपिता पृथिवीत्वावच्छिन्नेव कारणता, जन्यजलत्वावच्छिन्न कार्यतानिरूपिता जलत्वावच्छिन्नैव कारणतेत्येवं जन्यपृथिवीत्वेन पृथिवीत्वेन जन्यजलत्वेन जलत्वेन च नियत कार्यकारणभावतः परिणामवादाभावात् पृथिव्यादि जलादिरूपेण नैव परिणतिमेतीति चेत्, न, यतो नैव पार्थिवपरमाणवो भिन्नजातीयाः, भिन्नजातीयाश्च जलादिपरमाणत्र इति न्यायप्रक्रिया युक्ता, सर्वेषां परमाणूनां पुद्गलत्वेन सजातीयत्वात्, अत एव सर्वेषां परमाणूनामेकजातीयत्वेन सर्वरूपेण परिणमनं सम्भवति । यद्वा पृथिव्यप्तेजोवायवः पुद्गलद्रव्य पर्यायाः स्पर्शादिमध्वात् । ये तु न तत्पर्याया न ते स्पर्शादिमन्तः यथाऽऽकाशादयः, स्पर्शादिमन्तश्च पृथिव्यादयस्तस्मात्पुद्गलद्रव्यपर्याया इत्युक्तानुमानेन पृथिव्यादीनां पुगलद्रव्यपर्यायत्वे सिद्धे विस्रसादितत्तत्सामग्रीसद्भावे पृथिव्यादीनां जलादिरूपेण परिणमनं नासभवि । न चोक्तानुमाने पथसि गन्धस्य तेजसि गन्धरसयोर्वायौ गन्धरसरूपाणामभावेन पक्षैकदेशाऽसिद्धिरिति वाच्यम्, पयो गन्धवत् तेजो गन्धरसवत् वायुर्गन्धरसरूपवान् स्पर्शवचत्रात् पृथिवीवदित्यनुमानतस्तत्र तत्सश्वसिद्धेः, नन्वेवं तर्हि जलादो गन्धादिकं प्रत्यक्षगोचरं कथं न भवतीति चेत्, उच्यते - शातकुम्भे उष्णस्पर्शस्येव चक्षुपि रूपस्पर्शयोरिव वा पयसि गन्धस्य तेजसि गन्धरसयोः समीरे गन्धरसरूपाणामनुद्भूतत्वेन घ्राणरसनाचक्षुरिन्द्रियब्राह्मपरिणत्यभावात । अत एव पयो गन्धवदित्याद्यनुमाने न प्रत्यक्षबाधः, अनुद्भूतस्त्रभावे
"Aho Shrutgyanam"