________________
पम्मति. कार, गा• १२ मृवव्याप्यघटत्वसुवर्णत्वव्याप्यघटत्वरजतत्वव्याप्यघटत्वादीनां भेदाद्धर्यादिपदवद् घटपद. मपि नानार्थकमेव । तथा च परस्पराभावसमानाधिकरणयोहेमत्वराजतकुण्डलत्वयोन सामानाधिकरण्यम्, हेमत्वसोवणेकुण्डलत्वयोश्च सौवर्णकुण्डले सामानाधिकरण्येऽपि न परस्पराभाव. सामानाधिकरण्यमिति न सार्यमिति । यद्वा कुण्डलत्वं संस्थानगतजातिरूपमेवेति यौक्तिको यदि यात्तदापि यत्र हेम्नि व्यक्ती कुण्डलदशायामङ्गदमेदग्रहोऽङ्गददशायां च कुण्डल मेदग्रहस्तत्र तदेव हेमाङ्गदं तदेव कुण्डलञ्चत्य मेदग्रहो व्यत्यभेदं विना न कथमप्युपपादयितुं शक्य इति । एतेन तत्तदवस्थानामेवोत्पादविनाशौ न त्ववस्थातुरित्यप्यारेका निरस्ता, अवस्थातद्वतोः कथश्चिदभेदाद , तथा च यदेव वस्तु पूर्वावस्थारूपेण विनष्टं तदेवोत्तरावस्थारूपेणोत्पद्यत इत्यनुभवान्यथानुपपच्या पूर्वपर्यायरूपेण विनाश उत्तरपर्यायरूपेण चोत्पादः पूर्वोत्तरपर्यायानुगाभ्यूलतासामान्याख्यद्रव्यरूपेण ध्रौव्यमित्येतत्समुदितोत्पादव्ययध्रौव्य. लक्षणं द्रव्यस्याभ्युपगन्तव्यम् । ननु समवायसम्बन्धेन द्रव्यत्वजातिमसात् पृथिव्यादि द्रव्यमेव न तु पर्यायरूपमपि, येन द्रव्यपर्यायापेक्षयोक्तलक्षणसिद्धिस्स्यादिति चेत् , मैवम् , द्रव्यस्वजाती प्रमाणाभावात् , न हि तत्रानुगतप्रतीतिःप्रमाणम् , अतीन्द्रियस्थले तदसिद्धेः, नाप्य नुगतव्यवहारः प्रमाणम् , लौकिकानां वादिनाश्चानुगतद्रव्यव्यवहाराभावात् , न च नीलादौ नीलाहुत्पत्तिवारणाय समवायसम्बन्धेन जन्यसत्त्वावच्छिन्न प्रति तादात्म्यसम्बन्धेन द्रव्यत्वेन द्रव्यस्य हेतुत्वं कल्पनीयमिति जन्यसजनकतावच्छेदकतया तत्सिद्धिरिति वाच्यम् ,उक्तकार्यकारणभावे सति कारणतावच्छेदकतया यथा द्रव्यत्वजातिसिद्धिस्तथा कार्यतावच्छेदकतया जन्यसत्वजातिरपि सिद्ध्येद , एवं प्रतियोगितासम्बन्धेन नाशं प्रति तादात्म्यसम्बन्धेन जन्यसत्त्वेन कारणत्वस्य ध्वंसस्य ध्वंयापत्तिवारणाय स्वीकरणीयतया तदवच्छेदकतयाऽपि जन्य. सच्चजातिः सिद्ध्येत् , तथा च तगासह साङ्कर्यान्न द्रव्यत्वं जातिरिति । ननु जन्यसचावच्छि. नम्प्रति तादात्म्यसम्बन्धेन न द्रव्यत्वेन द्रव्यस्य कारणत्वम् , किन्तु समवायकालिकोभयसम्बन्धेन सत्त्वावच्छिन्नं यत् समवायेन तत्प्रत्येव तादात्म्येन द्रव्यस्य द्रव्यत्वेन कारणत्वम् , एवं प्रतियोगितासम्बन्धेन नाशत्वावच्छिन्नम्प्रत्यपि समवायकालिकोमयसम्बन्धेन सचविशिष्टं यत्तत्तादात्म्यसम्बन्धेन कारणम् , उक्तोभयसम्बन्धेन सत्र कार्यमात्रवृत्येवेति कार्याकार्यवृत्तेर्न कार्यतावच्छेदकत्वमित्यस्यापि नावकाशः, तथा च नोक्तकार्यतावच्छेदकतया कारणतावच्छेदकतया च जन्यसवजातिसिद्धिः, यया साङ्कये स्यादिति चेत्, तर्हि तद्वदेवोक्तोमय. सम्बन्धेन सवावच्छिन्ननिष्ठसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितं स्वाश्रयगुणकर्मान्यत्वसमवायोमयसम्बन्धेन सत्तावतः तादात्म्यसम्बन्धेन कारणत्वमित्यभ्युपगमेन सामञ्जस्ये द्रव्यत्वजातेरप्यसिद्ध्यापत्तः। किञ्च समवायसम्बन्धेन जन्यसत्वावच्छिन्नं प्रत्युपादानत्वाख्य. विषयतासम्बन्धेनेश्वरीयबुद्धिचिकीर्षाप्रयत्नाना कारणत्वेनाभ्युपगतानां नीलादावभावादेव नीलाधुत्पत्तिनिवारणं भवतीतीश्वरीयबुद्ध्यादिना द्रव्यस्यान्यथासिद्धत्वान्न कारणता
"Aho Shrutgyanam"