________________
सम्मतिः काल , गा० १२ द्रव्यपदवाच्यतया व्यवहर्त्तव्यमित्येवं नियतव्यवहारसाधकम् , "इंदि" इत्युपदर्शने 'एयं' एतदृश्यताम् । लक्षणवाक्यस्येतरभेदज्ञापनरूपप्रयोजनपक्षे द्रव्यत्वावच्छिनपक्षकेतरभेदानुमितिस्तु स्वसमये येन रूपेण पर्याये तदितरत्वस्य येन रूपेण हेतो तदितरस्वव्यापकाऽभावप्रतियोगित्वस्य च सिद्धिस्तद्रूपावच्छिन्नात्तद्रूपावच्छिन्नेतरभेदाभिप्रायेण वोध्या, तथा च द्रव्यत्वावच्छिन्नमात्मादिवस्तुमात्रं पर्यायत्वावच्छिन्नद्रव्येतरनिष्ठप्रतियोगितानिरूपकभेदवदुत्पादस्थितिभङ्गसमाहारत्वावच्छिन्नात् , यन्न तवं यथा वियस्कुसुममिति निष्कर्षः। अत एव हेतौ बाधाऽसिद्धिदोषो नेति । लक्षणवाक्यस्य नियतव्यवहाररूपनयोजनपक्षे बौद्धदृष्ट्या सन्तन्यमानक्षणिकज्ञानस्वरूपे आत्मनि व्यवहारनयेन द्रव्यत्वं व्यवस्थाप्योत्पादस्थितिमङ्गयुक्तत्वेन द्रव्यपदव्यवहारविषयत्वं, नैयायिकदृष्ट्या ज्ञानाश्रये स्थिरे चात्मनि ऋजुसूत्रनयेन पर्यायरूपत्वं व्यवस्थाप्योक्तलक्षणसम्पच्या द्रव्यपदव्यवहारविषयत्वं नियम्यते, तथा चात्मादिवस्तुमात्रं द्रव्यपदवाच्यतया व्यवहर्तव्य उत्पादस्थितिमङ्गसमाहास्वचात् , यन्नैवं तन्नैवम् यथा वन्ध्यासुत इत्यनुमानं पर्यवस्यति ।
ननु मृत्पिण्डस्थासादीनां दुग्धदम्यादीनाश्चैकान्तेन भेद एवेति तेषामुत्पादव्ययौ युक्ती, ध्रौव्यन्तु मृत्चगोरसत्वसामान्यस्यैव, न तु मृदो गोरसस्य च, एवमात्मशरीरस्यैव बालयुवाद्यवस्थाभेदेनोत्पादव्ययौ, धौव्यं त्वात्मन एवेत्युक्तहेतोस्स्वरूपाऽसिद्धिरिति चेत् , मैवम् , इयमेव मृत् पूर्वकालावच्छिन्नपिण्ड मावेन नष्टा उत्तरकालावच्छिन्नस्थासभावेन चोत्पति, अयमेव गोरसो पूर्वकालावच्छिन्नदुग्धमावेन नष्ट उत्तरकालावच्छिन्नदधिभावेन चोत्पन्न इति, य एव देवदत्तात्मा बालत्वेन दृष्टस्स एव युवत्वेन वृद्धत्वेन वा दृश्यत इति चानुभवसिद्धत्वादुत्पादस्थितिमङ्गसमाहारहेतोः। अत एव लौकिकबोधोऽपि त्रैलक्षण्याव. गाहित्वाद् वस्तुतः स्याद्वादापेक्ष एवेत्युपदर्शनार्थ-- ." तद्धेम कुण्डलतया विगतं यदुच्चै,-रुत्पन्नमङ्गदतयाऽचलितं स्वभावात् ।
लोका अपीदमनुभूतिपदं स्पृशन्तो, न त्वां श्रयन्ति यदि तत्तदभाग्य.
मुग्रम् ॥ २८ ॥" इति महावीरस्तयोक्तं सङ्गच्छते । - नन्वत्रापि त्रिलक्षणं वस्तु तदा स्यात् यदि तत्तदवस्थानुस्यूतं अत एव पूर्वोत्तराखिलविवर्त्तवर्ति द्रव्यं स्यात् , तदेव तु नास्ति, यदपि च कुण्डलाङ्गदादी हेम हेमेत्यनुगतप्रतीतिनियामकं तदपि हेमस्वजात्याख्यमेवेति चेत्, मैवम् , हेमत्वमस्ति हेमाङ्गदे न कुण्डलत्वम् , तदस्ति रजतकुण्डले न च तत्र हेमत्वम् , उभयच है मकुण्डल इति कुण्डलत्वादिना हेमत्वस्य सार्यात्तस्य जातिरूपत्वाऽसिद्धेः । अथ हेमत्वव्याप्यं कुण्डलत्वं भिन्नमेव रजतत्वव्याप्यं कुण्डलस्वञ्च भिन्नमेवेति तत्सौवर्णकुण्डले राजतकुण्डले च नैकम् , एवमङ्गदत्वादिकमपि ज्ञेयम् । एवं
१२
"Aho Shrutgyanam"