________________
सम्मति बाल, गा." स्वयोः कदाचिदप्यऽप्रतिभासनादिति द्रव्यपर्याययोमध्ये एकतरस्याभावे तदितरस्याप्यभाव एवेति तयोर्नियमेन समव्याप्यत्वमेव, अत एव द्रव्यापेक्षया यद्धौव्यं पर्यायापेक्षया यचो. त्पादषयात्मकत्वं तयोरपि तथात्वमेवेति ममुदितोत्पादव्ययधौव्ययुक्तत्वमेव द्रव्यलक्षण मुच्यत इति तात्पर्यार्थः। अवयवार्थस्त्वेवम्-" दवं" द्रव्यं पूर्वोत्तरपर्यायानुगाम्यूलतासामान्यलक्षणम् 'पञ्जवविउयं' पर्यायवियुतं पूर्वोत्तरकालीनभिन्नभिन्नव्यक्तिलक्षणपर्यायविनिर्मुक्तम् , अस्य 'नस्थि' इत्यनेनान्वयानास्ति, नहि पर्यायनिरपेक्षं द्रव्यं विद्यते, यद्गृह्येत केवलं, किन्तु पर्यायसहितमेव तत् , मृत्पिण्डे स्थासे कोशे कुशूलादौ मृद्रव्यं मृद्रव्यमित्येवं कुण्डलाकारे ऊर्धाकारे रज्वाकारादौ च सपें सर्पोऽयं सर्पोऽयमित्येवं पयसि दनि घृतादौ गोरसोऽयं गोरसोऽयमित्येवश्चानुगतप्रतीतेः " दवविउत्ता य पजवा " द्रव्यवियुक्ता द्रष्याननुविद्धाः पर्यायाश्चापि, चकारस्याप्यर्थकत्वात् , 'नत्थि' अत्र वचनविपरिणामेन न सन्ति, यद्वा नत्थि' इत्युभयपदस्य नियातरूपत्वान्नास्ति न सन्तीत्युभयार्थकत्वेनैकवचनान्तेनेव बहुवचनान्तेनाप्यन्वयान सन्ति, न विद्यन्ते, ये गृोरन् केवलाः, किन्तु द्रव्यसापेक्षा एव पर्यायाः, यैव मृत् पिण्डात्मिका सैव स्थासस्वरूपा सैव कोशस्त्ररूपा सैव कुशूलादिस्वरूपा सैव घटरूपा सैव कपालशर्करादिस्वरूपा, य एव सर्पः कुण्डलाकारस्स एवोर्वाकारो रजाकारो वा, य एव गोरसो दुग्धरूपः स एव दधिघृतादिरूप इत्यायाकाराया अनुगतेकसामान्यानुविद्धविशेषावगाहिन्याः प्रतिपत्तेः, मृद्रव्यस्यैव मृत्पिण्डरूपेण स्थासरूपेण कोशरूपेण कुशूलादिरूपेण, सर्पस्यैव कुण्डलाकाररूपेणोर्धाकाररूपेण रवायाकाररूपेण, गोरसस्यैव पयोदधिघृतादिरूपेण परिणमनाद् मृद्रव्यस्यैव मृत्पिण्डादयः सर्पस्यैव कुण्डलादयः गोरसस्यैव दुग्धादयः पर्यायाः, परिणामिपरिणामयोर्द्रव्यपर्याययोः परिणामपरिणामिमावेन सम्बन्धेन कथञ्चिदभेदः, परिणामिद्रव्यत्वेन परिणामभूतपर्यायत्वेन च कथश्चिद्धेद इति कथञ्चिद्भिन्नाभिन्नद्रव्यपर्यायोभयात्मकत्वात्पूर्वापरपर्यायानुस्यूतद्रव्यरूपेण यदेव ध्रुवं तदेव पूर्वपर्यायेण विनष्टं सदुत्तरपर्यायेणोत्पन्नमित्युत्पादव्ययध्रौव्याविनाभूतं वस्त्विति प्रदर्शनार्थमुत्तरार्द्धमाह-" उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एयं" इति उत्पादस्थितिभङ्गास्समुदिता द्रव्यस्य लक्षणं,लक्ष्यतेऽनुमीयते इतरव्यावृत्ततया लक्ष्यत्वेनाभिमतं वस्तु येन, लक्ष्यते स्वस्वाऽसाधारणधर्मपुरस्कारेण स्वस्ववाचकपदवाच्यतया व्यवयिते लक्ष्यं येन वा तल्लक्षणं, यद्यस्य लक्षणं तत्तस्येतरभेदज्ञापकं नियतव्यवहारसाधकञ्च, यथा पृथिव्या गन्धवत्वं लक्षणं पृथिव्या इतरव्यावृत्ततया ज्ञापकम् , तथोत्पादस्थितिभनात्मकलक्षणमपि खण्डखाये उपाध्यायः परिगृहीतस्य “सद् द्रव्यलक्षणम्" ॥१॥" उत्पादव्ययधोव्ययुक्तं सत्" ॥२॥ इति सूत्रदयस्य पर्यालोचनया सच्छब्दाभिधेयस्य द्रव्यस्येतरव्यावृत्तयाऽनु. मितिजनकम् , एवं यथा पृथिव्या गन्धवचं लक्षणं पृथ्वी पृथ्वीत्वेन पृथिवीपदवाच्यतया ध्यवहर्तव्येत्येवं नियतव्यवहारसाधकं, तथोत्पादस्थितिमङ्गलक्षणमप्यात्मादिद्रव्यं द्रव्यत्वेन
"Aho Shrutgyanam"