________________
सम्मति• काल 1, गा० १ तौ च ध्रौव्यश्चोत्पादव्ययध्रौव्याणि, तैयुक्तम् , अत्र युक्तमित्यस्य योगाश्रयो नार्थः, तथा सति घटयुक्तस्य भूतलस्य घटभिमत्ववदुत्पादव्ययध्रौव्ययुक्तस्यापि वस्तुन उत्पादव्यय. ध्रौव्यमिन्नत्वप्राप्तौ तत्रितयात्मकत्वमिष्टं व्याहन्येत, किन्तु युक्तं योगः समुदायः, एतदुक्तं भवति-उत्पादादयो नैककाः सत् , किन्तु परस्परापेक्षसमुदाय एवोत्पादादीनां सदित्यस्य प्रत्ययस्य ध्वनेर्वा विषयत्वेन सत् । तथा चैकान्तध्रौव्यलक्षणद्रव्यैकान्तोत्पादव्ययलक्षणपर्यायग्राहिणौ द्रव्यार्थिकपर्यायार्थिकमूलनयो मिथ्यानयो, परमार्थवृत्त्या वस्तुन उत्पाद: व्ययध्रौव्ययुक्ततया द्रव्यपर्यायोभयात्मकत्वेनानेकान्तात्मकस्यैकान्तस्वरूपतयाऽवगाहित्वेन भ्रान्तप्रत्ययरूपत्वात् । वस्तुन्युत्पादव्ययसापेक्षध्रौव्यस्य द्रव्यापेक्षया धौव्यसापेक्षोत्पाद. व्यययोश्च पर्यायापेक्षया सद्भावेन तग्राहिणौ नयो सम्यग्नयो, यद्यत्र यदपेक्षयाऽस्ति तस्य तत्र तदपेक्षया ग्राहकत्वेनैव नयप्रामाण्यपरिच्छेदादिति भावनीयम् ॥ ११ ॥
अथ द्रव्यपर्यायो नैकान्तभिन्नौ, तथा सति नैकस्य वस्तुन उभयरूपता स्यात् तयो. मैदाऽभिधानादिति य एव देवदत्तो बालत्वेन दृष्टस्स एव युवत्वेन वृद्धत्वेन वा दृश्यते इत्येकस्यैव देवदत्तस्य द्रव्यपर्यायरूपेण मेदाभेदावगाहिन्याः प्रत्यभिज्ञाया अपलापस्स्यात्, नाप्येकान्तामिन्नौ, यभिवृत्तौ यस्य न निवृत्तिस्तत्ततो भिन्नं, यथा निवर्तमानाद् घटादनिकर्तमानः पटो भिन्नो दृष्टः, पर्यायनिवृत्तावपि द्रव्यस्य न निवृत्तिरिति तद्रव्यं पर्यायतो भिन्नम्, यतो द्रव्यपर्याययोरभेदे द्रव्यस्वरूपवत्पर्यायस्याप्यनिवृत्तिस्स्यात् , यद्वा द्रव्यस्यापि नियुत्तिस्स्यात् पर्यायस्वरूपवत् , तथा च नैकान्तपरस्परनिरपेक्षभेदाभेदशालिनी द्रव्यपर्यायौ, तथा सति भेदाभेदयोः सुन्दोपसुन्दन्यायेन परस्परविरोधिनोरेकतरस्यैकान्तैकनयापेक्षया भ्रमात्मकज्ञानविषयत्वादसत्वे तदपरस्यापि तद्विरोध्यपरकान्तनयापेक्षया चाऽयथार्थज्ञानगोचरत्वादसचं स्यादिति तयोरन्योन्यानुस्मृततयैवाभ्युपगन्तव्यत्वेन द्रव्यार्थिकसुनयापेक्षया गुणीभूतभेदप्रधानीभूताभेदात्मकमपि पर्यायार्थिकसुनयापेक्षया गुणीभूताभेदप्रधानी. भूतभेदविशिष्टमपि वस्तु प्रमाणार्पणया च प्राधान्येन कथश्चिद्भेदाभेदोभयस्वरूपमेवाभ्युपगन्तव्यम् , अत एव द्रव्यार्थिकन यापेक्षयोत्पादव्ययसापेक्षध्रुवं पर्यायार्थिकनयापेक्षया ध्रौव्यसापेक्षोत्पादविनाशशालि वस्त्वपि उभयनयार्पणया प्राधान्येन परस्परानुविद्धोत्पादादिवयात्मकमेव, अधिकतान्यतमाभाव तदितराभावनियमादिति प्रतिपादयितुमाह सरि:--
"दव्वं पज्जवविउयं दध्वविउत्ता य पज्जवा णत्थि।
उप्पाय-द्विइ-भंगा हंदि दवियलक्खणं एयं ॥ १२ ॥" द्रव्यं पर्यायवियुक्तं नास्ति, द्रव्यवियुक्ताश्च पर्याया न सन्ति, किन्तु द्रव्यं पर्यायसम्पृक्तमेव, पूर्वोत्तरतत्तत्पर्यायानुगततयैव तत्प्रतीतेः, पर्याया अपि द्रव्यसम्बद्धा एक, अनु. गतद्रव्यानुविद्धतयैव तेषां प्रतिपत्तेः, अतो द्रव्यपर्यायौ मिथस्सम्बद्धावेव, परस्परविविक्तयो
"Aho Shrutgyanam"