________________
सम्मति० काण्ड १, गा० ११
पूर्वोक्तयुक्त्या कथञ्चिद् भेदाभेदात्मके वस्तुनि सिद्धे तत्र मेदलक्षणपर्यायाश्रयणेन पर्यायार्थिकनय उत्पादव्ययावभ्युपगच्छति, अभेदलक्षणद्रव्याश्रयणेन द्रव्यार्थिकनयो धौव्यमुररीकरोति तदपि नैकान्तरूपं युक्तम्, किन्तु परस्परविषयस्वरूपाऽपरित्यागलक्षणभजनयैव प्रमाण कोटिमाटीकत इत्याशयेनाह -
८६
“ उपजंति वियंति ( वयंति ) अ, भावो नियमेण पज्जवणयस्स । Goaडियस सव्वं, सया अणुप्पण्णमविणङ्कं ॥ ११
पर्यायनयस्य मते उत्पादव्ययधर्मद्वयान्वितास्सर्वे भावाः, स्थिरे वस्तुनि क्रमयौगपद्याम्यामर्थक्रियाकारित्वस्याभावेन तल्लक्षणसम्वनिवृत्या वस्तुत्वमेव हीयेतेति तन्मते कस्मिचिदपि वस्तुनि धौव्याभावात् । द्रव्यार्थिकनयस्य च मत उत्पादव्यययोः काल्पनिकत्वेन कस्मिंश्चिदपि वस्तुनि परमार्थभूतोत्पादव्ययधर्माभावात् सदा धौव्यैकस्वभावं सर्व वस्त्विति तात्पर्यार्थः । अत्रयवार्थस्त्वेवम् -' उप्पजंति' उत्पद्यन्ते प्रागभूत्वा भवन्ति, आद्यक्षणेन सह सम्बंध्यन्ते, 'वियंति अ 'वि-विशेषेण निरन्वयरूपतया यान्ति च गच्छन्ति प्राप्नु वन्ति नाशम् । यद्वा 'वयंति' - व्रजन्ति, नाशमिति शेषः । एवम्भूताः क इत्यत आह'भावा' इति भावा: पदार्थाः, 'नियमेण' नियमेनेत्यवधारणे, प्रतिक्षणमुत्पादविनाशशालित्वेन क्षणिक एव सर्वे भावाः, एतादृशोऽभ्युपगमः कस्येत्यत आह- ' पजणयस्स पर्याय यस्य वस्तुमात्रं परमार्थ नृत्योत्पादविनाशरहितत्वेन स्थिरैकस्वभावमिति द्रव्या र्थिकनयाभ्युपगममुपदर्शयितुमुत्तरार्द्धमाह--' दवडियस्स द्रव्यार्थिकस्य 'सबं सर्व वस्तु 'सया' सदा ' अणुत्पन्नमविणङ्कं ' अनुत्पन्नं सदविनष्टं शश्वद्ध्रौव्यैकस्वभावमित्यभ्युपगमः । उक्तैकान्तप्ररूपणाऽपि स्वस्वसिद्धान्त पक्षदृढानुबद्ध कदाग्रहवासनाप्रयुक्तत्वेन मिथ्यैव, पूर्वापरपर्यायानुस्यूतसामान्याकारव्यतिरेकेणोत्पादव्यययोः ताभ्यां विना ध्रौव्यस्य चाऽप्रतीतेः तत्त्रितयस्य च मिथोऽविनाभूततयैव प्रतीतेः । अत एव -
'
1
'अनाद्यनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ।
उन्मज्जन्ति निमज्जन्ति, जलकल्लोलबज्वले ॥ १ ॥ '
"Aho Shrutgyanam"
"
"
इत्युक्तं सङ्गच्छते, न चात्र जलकल्लोला अध्यपरमार्थभूता एवेति न तद्दृष्टान्तेन परमार्थभूतोत्पादव्ययधर्मसिद्धिरिति वाच्यम्, सर्वैरविगानेन तेषामनुभूयमानत्वात् न च तदनुभवोऽयथार्थः तेषां प्रतिक्षणं भिन्नभिन्नस्वरूपत्वे बाधकाभावाद, विकारात्मकत्वात्तेषामसवेन तत्प्रतीतेरप्रामाणिकत्वे प्रकृत्यात्मकविकारिप्रतीतेरप्य प्रामाणिकत्वं वदतो नैव वक्त्रं वक्रीभवेत्, तथा चोत्पादव्ययधौव्याणि समुदितान्येव सल्लक्षणम्, न तु प्रत्येकम्, एकैक विनिर्माण वस्त्वप्रतीतेरित्येव प्ररूपणा सत्या, अत एव " उत्पादव्ययध्रौव्ययुक्तं सत् ५- २९ इति तच्चार्थसूत्रं सङ्गच्छते । अश्रोत्पादय व्ययश्चोत्पादव्ययौ पर्यायरूपत्वेनैकत्वापन्नौ
"