________________
सम्मतिः काड , गा० १. भैवम् , न हि कामलकादिदोषप्रभवः शुक्लेऽपि पीतत्वप्रतिभासः केनापि विदुषा प्रतिक्षिप्यते, किन्तु तत्प्रतिभासेऽप्रामाण्यं निश्चीयते बाध्यमानविषयकत्वादिति, तेन प्रान्तज्ञानेन शुक्ल पीतत्वं म सिद्ध्यति तद्वत मिथ्यात्वादिदोषवलाहिनेऽपि जायमानोऽभेदप्रतिभास: पर्यायाः र्थिकनयेनाऽमिन्नेऽपि जायमानो भेदप्रतिमासो द्रव्यार्थिकनयेनानुभूयमानत्वेन सद्रूपत्वान प्रतिक्षिप्यते, स प्रतिभासो नैव जात इति न स्याप्यते, सतो निषेधाऽयोगात, किन्तु क्षणिके वस्तुन्यर्थक्रियाकारित्वं घटते, न स्थिरे, तस्य सहकार्यसमवधानदशायामर्थक्रियाकारित्वाभावः तत्समवधानदशायाश्चार्थक्रियाकारित्वमित्येवं विरुद्धधर्माध्यासात्प्रतिक्षणं भिन्नभिन्न रूपत्वेनैव सिद्धेरिति भिन्ने वस्तुन्यभेदाध्यवसायितयाऽप्रामाण्यं निश्चीयते, तथा च वाध्यमानविषयकत्वान्न स स्त्रविषयव्यवस्थापनसमर्थो भवति, मेदप्रतिभासस्तु बाधकामावायथार्थ एवेति पर्यायार्थिकनयो विवेचयति, द्रव्यार्थिकनयोऽप्येवमाह-भेदप्रतिमासोऽपि भया न प्रतिक्षिप्यते, किन्तु घटपटादिविकाराणामसद्रूपत्वाद्भेदोऽसन्नेत्र, अभेदस्तु त्रिकालाबाध्य. मानानुगतप्रतीतिविषयत्वात्सद्रूप एवेत्यभिन्ने वस्तुनि भेदाध्यवसायितया तत्राप्रामाण्यं निश्वीयत इति बाध्यमानविषयकत्वादप्रमात्मकस्स न स्त्र विषयसिद्ध्यै प्रभविष्णुः, घटः सन् पटः सन्नित्याद्यभेदप्रतिमासस्तु बाधकामावाद्यथाथे एव, एवमन्योऽन्यपक्षाभ्यामन्योन्यनयाप्रामाण्ये सति तद्विषययोरपि द्रव्यपर्याययोरसच्चापत्या तव्यतिरिक्तस्य विषयस्याभावेन जगतः शून्यतेवापद्यतेत्यतो द्रव्यार्थिकनयप्रदर्शितयुक्त्या पर्यायस्यैकान्तत्वमेव बाध्यते, न तु स्वरूपतोऽपि पर्यायः, एवं पर्यायार्थिकनययुक्त्या द्रव्यस्यैकान्तत्वं वाध्यते, न तु स्वरूपतोऽपि द्रव्यमिति परस्परसव्यपेक्षद्रव्यार्थिकपर्यायार्थिकनययुक्तिभिः परस्परसव्यपेक्षद्रव्यार्थिकपर्यायार्थिकनययोर्वाधाऽभावेन तद्विषययोरपि परस्परसाकाकद्रव्यपर्याययोरनेकान्तास्मनोवाधितत्वात्सत्यत्त्वमिति तदुभयात्मनो वस्तुनः समुदितोत्पादव्ययध्रौव्यलक्षणसत्स्व. रूपत्वादभ्युपगमः प्रमाणाहः । अत एवैकान्तद्रव्यार्थिकनयाभ्युपगतो ध्रौव्यलक्षणद्रव्यांशः, एकान्तपर्यायार्थिकनयाऽभ्युपगत उत्पादव्ययलक्षणपर्यायांशो वा परमार्थतो न च कश्चिदस्ति, परस्परनिरपेक्षैकनयकल्पितत्वात् । यदुक्तम्
" नान्वयो भेदरूपत्वा,-न्न भेदोऽन्वयरूपतः।
मृनेदद्वयसंसर्ग-वृत्तिर्जात्यन्तरं घटः ॥ १ ॥” इति तथा च पूर्वापरपर्यायानुगतोव॑तासामान्यस्यापि द्रव्याख्यस्य पूर्वोत्तरकालीनभिन्नभिभव्यक्तिलक्षणविशेषान्वितत्त्वेन विशेषस्यापि च सामान्य सङ्घटितत्वेन वस्तुनसामान्यविशेषोभयात्मकत्वात् परस्परमापेक्षभेदाभेदात्मके जात्यन्तरे वस्तुनि व्यरस्थिते तत्र द्रव्यार्थिकेन पर्यायस्यावस्तुत्ववचनं पर्यायार्थि केन द्रव्यस्यावस्तुत्ववचनमेकान्तस्वविषयपक्षपातविजृम्भितमेवेति सिद्धमिति भावः ॥ १० ॥
"Aho Shrutgyanam"