________________
११६
चम्मति• काड, गा० ॥ कर्मबन्धत त्वाद्यनुपपत्तेरैहिकाऽऽमुस्मिकताचिकसर्वव्यवहारस्यानुभूयमानस्य विलोपकारित्वेनैकान्तसङ्घटितमूर्तयस्सर्वेऽपि नया मिथ्यानयाः, त एव भजनासङ्कटितस्वरूपा अब एवेतरनयविषयीकृतरूपाव्यवच्छेदकास्सम्यक्त्वरूपा भवन्तीत्युपसंहरमाह- .. तम्हा सव्वे वि णया, मिच्छादिट्ठी सपक्खपडिबद्धा(सपक्खपडिपन्ना)। . अपणोण्णणिस्सिया उण, हवंति सम्मत्तसम्भाषा ॥ २१ ॥
'तम्हा' इत्यत्र 'एवं' इत्यपि 'मिच्छादिट्ठी' इत्यत्र 'मिच्छद्दिट्टी' इत्यपि पडिबद्धा इत्यत्र पडिवना इत्यपि च पाठान्तरम् । 'तम्हा सर्वे वि णया मिच्छादिट्टी' तस्मात् उक्तहेतो स्सर्वेऽपि नया मिथ्यादृष्टयः, तत्र हेतुगर्भविशेषणमाह-'सपक्खपडिबद्धा' स्व आत्मीया, पक्षोऽभ्युपगमः, स्वपक्षा, तेन प्रतिबद्धाः प्रतिहता यतस्तत इति । पाठान्तरे उक्तार्थ स्वपक्षं प्रतिपन्ना अभ्युपगन्तारो नान्यं पक्षं यतस्ततः, स्वपक्षभिन्नपक्षविषयव्यवच्छेदनपरत्वा. दित्यथैः । अनुमानमुद्रा चैत्रम्-सर्वनयवादा मिथ्यादृष्टयः स्वपक्षेणैव प्रतिहतत्वात् , चौरवाक्यवदिति, तथा च सुन्दोपसुन्दन्यायेन परपक्षविषयोन्मूलकतया तेषामनन्तधर्मात्मकस्य वस्तुनोऽन्यतमैकान्तकधर्माऽवधारणलक्षणनयानां मिथ्यात्वे च तत्तन्नपविषयस्याऽसत्यत्वं तदभिधानस्य च मिथ्यात्वमेव, ज्ञानप्रामाण्याधीनत्वाद्विषयसत्यत्वस्य, वाक्यरचना प्रति वाक्यार्थज्ञानस्य कारणत्वेन तत्प्रामाण्याधीनत्वाच तत्तत्रयविषयाभिधानात्मकवाक्यप्रामाण्यस्य, त एव नयाः स्वेतरनयविषयीकृतधर्माऽव्यवच्छेदकास्तदा सम्यक्त्वरूपा भवन्ती. त्युपदर्शयितुमुत्तरार्द्धमाह-" अण्णोण्णनिस्सिा उण हवन्ति सम्मत्तसम्भावा" अन्योन्य. निश्रिता अन्योन्यनिस्मृता वा अन्योन्यनयविषयापरित्यागेन व्यवस्थिताः, स्वेतरनयविषयी. कृतार्थानपलापिनो नयाः पुनर्भवन्ति सम्यक्त्वस्य यथावस्थितप्रत्ययस्य वाक्यात्मकन यपक्षे भावयन्तीति भावाः, सन्तो भावाः सद्भावा अवन्ध्यकारणानीत्यर्थः । ज्ञानात्मकनयपक्षे सम्यक्त्वसद्भावाः सम्यक्त्वस्वभावा इत्यर्थः । अयम्भाव:-वाक्यरूपा एकान्ततचाव. गाहिनयास्सर्वे परस्परनिरपेक्षतया स्याद्वादैकवाक्यताऽनापन्नास्सावधारणाः स्वपक्षहतत्वामिथ्यारूपास्स्त्रविषयस्यासत्यत्वप्ररूपकाः स्वविषयामिधानस्य च मिथ्यात्वख्यापकाः । "स्याद्वादनिरपेक्षश्च तैस्तावन्तः परसमयाः" इति नयोपदेशोक्तेर्यावन्तो नयवादास्तावन्तः परसमयाः, त एव नयवादा विरुद्धयोस्सच्चासत्वनित्यत्वानित्यत्वाद्योरविरोधमावनियामकं सापेक्षभावं गता अत एव निरवधारणास्स्याच्छन्दलाञ्छितास्समुदितास्सन्तोऽन्योन्यनयविषयापरित्यागवृत्तय इतरनयविषयसापेक्षस्व विषयसत्यत्वनिश्चायकाचेत्तदा स्वसमयरूपा इति ते प्रमाणभावलक्षणसम्यक्त्वं प्रतिपद्यन्ते, प्रामाण्यस्य यावत्रयविषयताव्यापकविषयताकनिश्चयत्वरूपत्वेन तादृशनिश्चयोत्पादकत्वात्तेषाम् , उक्तश्च विशेषावश्यकभाष्ये-"जावन्तो
"Aho Shrutgyanam"