________________
सम्मति का , गा. मित्युक्तम्भवति । अन्त्यविशेषविकल्पे च शुद्धर्जुसूत्रलक्षणे कारणाभावादेव द्रव्योपयोगो व्यवस्थितस्स्यात्-न्युपरतस्स्थादित्युक्त्या शुद्धर्जुसूत्रलक्षणस्य शुद्धपर्यायावगाहिनयस्य विषयेऽन्त्यविशेषे द्रव्योपयोगो द्रव्यार्थिकनयजन्यवोधो न प्रवर्तत इति स विशेष एव, न सामान्यमित्युक्तम्भवतीति नापसिद्धान्तत्वप्रसङ्ग इति । विशेषार्थिना नयोपदेशवृत्तिर्नाम्ना नयामृततरङ्गिणी विलोकनीया । न च महासामान्यस्य सामान्यैकान्तरूपत्वेऽन्त्यविशेषस्य च विशेषकान्तरूपत्वेऽनेकान्तत्वविरोधस्स्यादित्यपि वाच्यम् , महासामान्यस्यापि तदुत्तर. विशेषापेक्षयैवान्त्यविशेषस्यापि च तत्पूर्वसामान्यापेक्षयैव सद्रूपत्वेन विषयतासम्बन्धेन परस्परसापेक्षोभयविषयताकबोधं प्रति तादात्म्यसम्बन्धेनोभयात्मकविषयस्य कारणतया प्रत्येकस्याप्युभयरूपत्वेनानेकान्तत्वविरोधाभावादिति द्वितीयोऽर्थ इति ॥ ८॥
अथ द्रव्यार्थिको महासामान्यात्मकद्रव्यमात्रविषयताकत्वेन पर्यायार्थिकश्च विशेषात्म. कपर्यायमात्रविषयताकत्वेन शुद्धजातीय इत्येवं न शुद्धजातीयद्रव्यार्थिकपर्यायार्थिकमावव्यवस्था, किन्तु पूर्वोक्तयुक्त्याऽऽद्यमहासामान्यस्याप्यापेक्षिकविशेषरूपतयाऽन्त्यविशेषस्यापि चापेक्षिकसामान्यरूपतया सामान्यं न विशेषविकलं नापि विशेषाः सामान्यरहिता इति द्रव्यार्थिकस्य पर्यायार्थिकस्य वा प्रत्येकनयस्याप्युपसर्जनीकृतस्त्रान्यविषयप्रधानीकृतस्व. विषयतया प्रधानगौणमावेन सामान्यविशेषाख्यद्रव्यपर्यायोभयविषयताकत्वेनानेकान्तानु. प्रवेशादेव द्रव्यार्थिकपर्यायार्थिकभावव्यवस्थेत्येतस्यार्थस्य प्रदर्शनार्थमाह
"दव्वहिओत्ति तम्हा, नथि णओ णियमसुद्धजाईओ।
ण य पज्जवडिओ णाम, कोइ भयणाइ उ विसेसो ॥ ९ ॥” इति तस्माद्रव्यार्थिक इति नयो नियमेन शुद्धजातीयः केवलद्रव्यविषयताको नास्ति, न च पर्यायार्थिकोऽपि कश्चिन्नयः शुद्धजातीयः केवलपर्यायविषयताकोऽस्ति, द्रव्यपर्याययो. मिथस्सापेक्षतयैवानुभूयमानत्वेनान्यनिरपेक्षद्रव्यपर्यायविषयाभावेन विषयिणोऽप्यभावात् , भजनया त्वनयोनययोर्विशेषः, पर्यायोपसर्जनेन प्रधानतया द्रव्यग्राहित्वे द्रव्यार्थिकनया, द्रव्योपसर्जनेन प्रधानतया पर्यायग्राहित्वे पर्यायाथिकनय इत्येवमनयोर्भेद इति तात्पर्यार्थः। ___ अवयवार्थस्त्वेवम्-' तम्हा दवढिओत्ति णओ सुद्धजाईओ नस्थि' तस्मात् परस्परानात्मकद्रव्यपर्याययोरप्रतिमासमानत्वाद् द्रव्यार्थिक इति नयः शुद्धजातीयो विशेषविषयकत्वामावे सति सामान्यविषयताको नास्त्येव, नियमेनेत्यस्यावधारणार्थत्वात् , द्रव्यपर्याययोमिथो नान्तरीयकत्वाद् विशेषविनिर्मुक्तोर्वतासामान्यात्मकविषयाभावेन सामान्येतरा. विषयताकत्वे सति सामान्य विषयताकद्रव्यार्थिकनयात्मकविषयिणोऽप्यभावात् । "ण य ‘पञ्जवडिओ णाम कोइ" नाम इति प्रसिद्धार्थः, न च पर्यायार्थिकोऽपि कश्चिन्नयो नियमेन शुद्धस्वरूपः सामान्यानवभासित्वे सति विशेषावभासी सम्भवति, सामान्यविकलात्यन्तव्या
"Aho Shrutgyanam"