________________
सम्मति काय , me. पर्यायाक्रान्तस्यैव सर्वदा सत्तारूपस्य ताभ्यामवगते । घटः सन् पटा सन् मठस्सभित्यादि. प्रत्यक्षप्रतीतिभ्यो विशेष्यविधया घटपटादीनां पर्यायाणामपि सिद्धे, तेषां काल्पनिकत्वे प्रकारीभृताया ब्रह्मात्मकसत्ताया अपि तथात्वापत्तेः, व्याप्तिज्ञानपरामर्शयोः पक्षसाध्य. हेतुविषययोः प्रामाण्ये सत्येव तजन्यब्रह्मात्मकसत्तासाध्यकानुमितेः प्रामाण्यमिति भेदसिद्धयापत्तिः, तयोरप्रामाण्ये च तजन्यानुमितेरप्यऽप्रामाण्यापत्या ब्रह्मात्मकसत्ताया अप्य. सिद्ध्यापत्तिस्स्यात् , सदेव सोम्येदमन आसीत् , " एकमेवाद्वितीयं ब्रम"" नेह नानास्ति किश्चन " इत्यादिवेदवाक्यस्य प्रामाण्यन्तु विवादापन्नमेवेत्येकोऽर्थः । यद्वा यद्वस्तु सूक्ष्मसूक्ष्मतरसूक्ष्मतमादिबुद्धिना पर्याय नयेन स्थूलरूपं त्यजतोत्तरोत्तस्तत्तत्वक्ष्मरूपाश्रयणातू व्युत्क्रान्तं गृहीत्वा विचारेण मुक्त किमिदं मृत्सामान्यम् , यद् घटादिविशेषानुपरक्तधीविषयी भवेत् ? । घटादिविशेषविना प्रतिपत्तिविषयस्स्यात् , एवं यावत्सूक्ष्मतमस्वरूपोऽन्त्यो विशेषस्तावत्सर्व वस्तु द्रव्यार्थिकनयस्य वक्तव्यम् , पूर्वपूर्वस्योत्तरोत्तरापेक्षयाऽनुगतरूपत्वा. देवोत्तरोत्तरनयेन सूक्ष्मसूक्ष्मतरतत्तद्विशेषग्राहिणा परित्याग इति तस्य पूर्वपूर्वरूपस्य सामा. न्यात्मकस्य द्रव्यत्वमायातमेवेति तद्विषयकस्य नयस्य द्रव्यार्थिकत्वम् , तबाह्यस्य पूर्वपूर्वरूपस्योत्तरोत्तरसूक्ष्मसूक्ष्मतरपर्यायनयत्यक्तस्यार्थस्य द्रव्यरूपत्वम् , उत्तरोत्तरस्य च पूर्वपूर्वरूपापेक्षया विशेषरूपत्वेन पर्यायरूपतया तग्राहिणो नयस्य पर्यायार्थिकत्वम् , तद्वाह्यस्य चोत्तरोत्तरपर्यायरूपत्वम् , यदेव चोत्तरापेक्षया पूर्वपूर्वरूपत्वात्सामान्यरूपं, तदेव च स्वपूर्वापेक्षया विशेषरूपमित्येकस्यापि वस्तुनः सामान्यविशेषोभयरूपत्वेन द्रव्यार्थिकपर्यायार्थिकनयविषयत्वम् , यतो यावदपश्चिमविकल्पनिर्वचनोऽन्त्यो विशेषस्ताबद्रव्योपयोगो द्रव्यज्ञानं प्रवर्तते, न हि द्रव्यादयो विशेषान्ताः सदादिप्रत्ययाऽविशिष्टैकान्तव्यावृत्तबुद्धिग्राह्यतया प्रतीयन्ते, न च तथाऽप्रतीयमानास्तथाऽभ्युपगमाहींः, अतिप्रसङ्गात् , तदेवं न सत्ता विशेषविरहिणी, नापि विशेषास्सत्ताविकला इति सिद्धम् । ननु महासामान्यस्य तत्पूर्वसामान्याभावाच्छुद्धसनहेतरनयविषयत्वाभावेन विशेषरूपत्वाभावात्सामान्यरूपत्वमेव स्यात् , एवमन्त्यविशेषस्यापि तदुत्तरविशेषाऽभावात्तग्राहकेण केनापि पर्यायनयेन ग्राह्यत्वाभावात्सामान्यरूपत्वाभावेन विशेषरूपत्वमेव स्यादिति चेत् , भवतु तथा, का नाम क्षतिः, अपसिद्धान्तत्वप्रसङ्ग इति चेत्, मेवम् ।।
"अयं च्योपयोगः स्यात्, विकल्पेऽन्त्ये व्यवस्थितः।
अन्तरा द्रव्यपर्याय-धी: सामान्यविशेषवत् ॥ १५ ॥” इति नयोपदेशश्लोकव्याख्यायां " अयं द्रव्योपयोगः द्रव्यार्थिकनयजन्यो गोषः अन्त्ये विकल्पे शुद्धसबहारये व्यवस्थितः, पर्यायबुद्धयाऽविचलितः स्यात्" इत्युक्त्या शुद्धसङ्ग्रहविषये महासामान्ये पर्यायार्थिकनयो न प्रवर्तत इति तत्सामान्यरूपमेव, न पर्यायरूप.
"Aho Shrutgyanam"