________________
सम्मति का , गा.. यद्वेत्यादिना पूर्वार्द्धस्यैव व्याख्यानान्तरेण द्रव्यत्वादिसामान्यविशेषात्मकाशुद्धद्रव्या. किनयविषयाभिधायिवचनमशुद्धद्रव्यार्थिकस्येति प्रतिपाद्य च अवसेसो इत्याधुत्तरार्द्धन पर्यायार्थिकनयस्य वचनस्वरूपमाह-अवशेष:-अवशिष्टः शुद्धद्रव्याथिकवचनाशुद्धद्रव्या र्थिकवचनाम्यां भिन्नो वचनविधिः पर्यायार्थिकन यस्वरूपः तत्प्रतिपादकवर्णपद्धतिर्वा सप्रतिपक्ष:-शुद्धाशुद्धद्रव्यार्थिकवचनयोर्विरोधी, तत्र हेतुः " पजवभयणा" पर्यायभजनात् पर्यायप्रतिपादकत्वादित्यर्थः । पर्यायप्रतिपादकत्वामावे तयोरेवान्तर्भावादवशिष्टवचनविधित्वमेव पर्यायनयवचनस्य न स्यादिति तदन्यथानुपपश्या पर्यायप्रतिपादकत्वं तस्य स्वीकरणीयमेव, एतेनैकान्तपर्यायाथिकनयवचनस्वरूपं प्रतिपादितं भवति, शुद्धाशुद्धद्रव्यार्थिकनयवचनपर्यायार्थिकनयवचनयोरविरोधस्तु परस्परसापेक्षयोनयद्वयविषययोर्गौणप्रधानभावेन प्रतिपादकत्वे सत्येवेति भावनीयम् ।। ७॥
एवं तावद् द्रव्यार्थिकपर्यायार्थिकभेदेन भेदमनुभवता नयानां स्वरूपं प्रतिपाद्य प्रकृती स्वरूपत एकत्वं सच्चादिगुणत्रयापेक्षया त्रिरूपत्वमितिवत् एकस्मिन्नेव भ्रान्तज्ञाने धमेशे प्रामाण्यं प्रकारांशे चाऽप्रामाण्य मितिवच चित्रज्ञाने नीलाकारत्वपीताकारत्ववच भिन्नमित्रापेक्षाभावेनाविरोधशालिकथञ्चिदेकत्वानेकत्वमेदाभेदादिधर्मालिङ्गितद्रव्यपर्यायोमययोर्गौण प्रधानमावेनावगाहित्वे सत्यवैषां सुनयत्वं, न त्वेकान्ताऽभिन्नद्रव्यस्य एकान्ततत्तत्क्षणमात्रवर्तिमिमभिन्नपर्यायाणां वाऽवगाहित्वे सतीत्येतत्प्रतिपादनार्थ ज्ञानानेकान्तमेव तावदाह
"पजवणयवुकंतं वत्थु, दव्वढियस्स वयणिज्ज।
जाव दविओवओगो, अपच्छिमवियप्पनिव्वयणो ॥ ८॥" 'अपश्चिमविकल्पनिर्वचनः सङ्ग्रहावसानो यावद्रव्योपयोगः प्रवर्तते तावद् द्रव्यार्थिकस्य वचनीयं द्रव्याथिकनयस्य विषयीभूतं वस्तु, तच्च पर्यायनयव्युत्क्रान्तं पर्यायनयविषयीकृतमेवेति तात्पर्यार्थः । अवयवार्थस्त्वेवम्-- अपच्छिमवियप्पनिहयणो' निश्चयकर्तवचन निर्वचनम् विकल्पश्च निर्वचनश्च अनयोस्समाहारो विकल्पनिर्वचनम् , न विद्यते पत्रिम विकल्प निर्वचनं यस्मिन् तचथा-तथाविधं तद्यस्य द्रव्योपयोगस्यासो अपश्चिमविकल्प. निर्वचनः । यद्वा अपश्चिमविकल्पनिर्वचन:--न विद्यते पधिमे उत्तरे विकल्पनिर्वचने सविकल्पधीध्यवहारलक्षणे यत्र स तथा, शुद्धसङ्ग्रहावसान इति यावत् , ततः परं विकल्पवचनाऽप्रवृत्तेः, “जात्र दविओवओगो" ईदृशो यावत्योपयोगः प्रवर्तते सावत्किमित्यत आह-' वत्थु दवडियस्य चयणिजं' इतितावद्रव्याथिकनयस्य वचनीयं वस्तु, द्रव्यार्थिकन यस्य विषयीभूतम् , तच्च किंस्त्ररूपमित्यत आह-' पञ्जवणयवुकंत' पर्यायनयव्युत्क्रान्तम्-पर्यायनयेन वि-विशेषेण उत् ऊर्ध्व क्रान्तं विषयीकृतमेव, पर्याया. नाक्रान्तसचामात्रसद्वावग्राहकस्य प्रत्यक्षस्यानुमानस्य वा प्रमाणस्याभावात् , घटपटादि.
"Aho Shrutgyanam"