________________
सम्मति० का १, ०७
पर्यवसितोऽर्थः र्थः । असत्वं च तस्य सतो भेदाभेदाभ्यां त्रिकल्पासहत्वात्, तथाहि - विशेषः सतो भिन्नोऽभिभो वा, आद्ये सतो भिन्नत्वेन शशशृङ्गवदसस्त्रमेव स्यात्, द्वितीये सतोभिनत्वेन सुत्ताकुक्षिप्रविष्टतया सन्मात्रमेव स्यात्, सत्तास्वरूपवत् । तन्न विशेष एवास्तीत्येकान्तभावनाप्रवृत्तस्य पर्यायास्तिकनयस्य पारमार्थिकत्वम्, तदेवमुक्तैकान्तनयद्वयस्य मिथो विरोधयुक्त्याऽप्रामाणिकत्वे सिद्धे तद्विषयीभूतं नैकान्तसामान्यात्मकं न वैकान्तविशेषात्मकं वस्तु सद्, किन्तु परस्परानुस्यूतोभयात्मकमेव, यत एकस्मिन्नेव वस्तुनि सामान्यविशेषावनुस्यूत तयैवानुभूयेते, अत एव सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्याख्यद्रव्यस्यैकत्वेन तदपेक्षयैकत्वम्, विशेषाख्यपर्यायाणां नानात्वेन तदपेक्षयानेकत्वमिति गौणप्रधानभावेनैकाने कात्मकतया वस्तुप्रतिपादकं परस्परसापेक्षद्रव्यार्थिक पर्यायार्थिकनयद्वयं प्रधानभावेनैकानेकात्मकतया वस्तुप्रतिपादकं प्रमाणञ्च शास्त्रस्य परमरहस्य मिति सिद्धम् । अत एवैकस्मिन्नेव नरके परस्परसापेक्षद्रव्यार्थिकपर्यायार्थिकन यद्वयापेक्षकशाश्वतस्वाशाश्वतत्वधर्मद्वयप्रतिपादकम्, इमाणं भंते! रयणप्पभा पुढवी किं सासता असासता ? गोमा ! सिय सासता सिय असासता । से केणद्वेणं मंते ! एवं बुच्चइ सिय सासता सिय असासता ! गोयमा ! दवट्टयाए सासुता, वण्णपञ्जवेहिं गंधपज्जवेहिं रसपजवेहिं फासपञ्जवेहिं असासता से एएणद्वेणं गोयमा ! एवं बुच्चति तं चैव जाव सिय असासता, एवं जाव अहे सत्तमा इति सूत्रमपि सङ्गच्छत इति । अथवा अर्थाभिधानप्रत्ययास्तुल्यनामघेया इति न्यायघटकीभूतयोरर्थप्रत्यययोस्स्वरूपं पूर्वमभिधायाधुना तदूपटकीभूतस्याव शिष्टस्याभिधानस्य नयस्य वाक्यस्वरूपत्वे द्रव्यास्तिकपर्यायास्तिकन यस्वरूपस्य, नयस्य वाक्याऽस्वरूपत्वे तदभिधायकस्य वा प्रतिपादनार्थमाह-' पञ्जवणिस्सामण्णं ' इत्यादि । पजवणिस्सामण्णं वयणं' पर्यायान्निर्गतं तदननुषक्तं तदविमिश्रमिति यावत्, सामान्यं सङ्ग्रहस्वरूपं यस्मिन् वचने तत् पर्यायनिस्सामान्यं वचनम्, पर्यायविनिर्मुक्तसामान्यप्रतिपादकं वचनमिति यावत् किंस्वरूपं तदित्याशङ्कायामाह - ' अस्थिति' अस्तीत्याकारकं महासत्तासामान्याभिधायीति यावत् । तच्च कस्य स्वरूपं प्रतिपादकं वेत्यत आह-' दवडियस्स ' नयस्य वाक्यस्वरूपत्वपक्षे वाक्यात्मकद्रव्यार्थिकनयस्य स्वरूपम्, वाक्यास्वरूपत्वपक्षे द्रव्यार्थिकनयस्य प्रतिपादकं वा, यद्रा "पजवणिस्सामण्णं वयणं" इति, पर्याय ऋजुसूत्रनयविषयादभ्यो द्रव्यत्वादिविशेषः, स एव च निश्वितं सामान्यं यस्मिंस्तत् पर्यायनिस्सामान्यं वचनम्, द्रव्यत्वादिसामान्य विशेषाऽभिधायीति यावत् । तच्च वचनं ' दवडियस्स अस्थि ' द्रव्यार्थिकस्यास्ति - अशुद्धद्रव्यार्थिकनयस्य वाक्यास्वरूपत्वे तत्प्रतिपादकत्वेन, 'वाक्यस्वरूपत्वे तु तत्स्वरूपत्वेन सम्बन्धि भवतीत्यर्थः, इतिशब्दोऽशुद्धद्रव्यार्थिकनयवचनपरिपूर्त्तो, अर्थात् एतावन्मात्रम शुद्धद्रव्यार्थिकनयवचनमित्यावेदितं भवति । अथवेत्यादिपूर्वार्द्धव्याख्यानेन सत्ताख्यमहासामान्याभिधायि वचनं शुद्धद्रव्यार्थिकस्येति प्रतिपाद्य
"
4
"Aho Shrutgyanam"