SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ७८ 44 यथा कटकशब्दार्थः, पृथत्तवाहों न काश्चनात् । न हेम कटकात्तद्व-जगच्छन्दार्थतावरे ॥ १ ॥ "" इति तदपास्तम् । अस्यायमर्थः - सम्मति • काण्ड १, गो०७ काश्चनात्कटकशब्दार्थः पृथक्त्वार्हो न, अर्थात् काश्चनमेव कटकशब्दार्थः, कटकशब्दार्थस्य विशेषस्याऽतिरिक्तस्याभावेन काञ्चनमेव कटकशब्देनोच्यते इत्यर्थः, तद्वत् कटकशब्दार्थस्य काञ्चनात् पृथक्त्वाईत्वाभाववद् हेम्नः कटकशब्दार्थात् पृथक्त्वाईत्वाभावो न, अर्थात् हेम्नस्सामान्यस्य सद्भूतत्वेन कटकशब्दार्थात् कटकारकाल्पनिकात्पृथचत्रमेव, अपृथक्त्वे विशेषस्याऽसत्वेन तद्रूपस्य सामान्यस्याप्यसत्त्वं स्यात्, न च सामान्यमसत्, ततो न तस्य विशेषरूपता, विशेषस्य तु सामान्यादपृथक्त्वे सामान्यात्मना सच्खमापद्येत, तच्चेष्टमेव सर्वेषां विशेषाणां सामान्यात्मना सवस्येष्टत्वात् । अवरे न वरं श्रेष्ठं यस्मात्तदवरं सस्वाख्य महासामान्यं तस्मिन्, जगच्छन्दार्थता - घटपटाद्य शेषशब्दार्थता, सर्वेऽपि घटपटादिशब्दा महासामान्यमेव तत्तद्रूपेण त्रते इति तदपासने को हेतुरिति चेत्, उच्यते, हेमसामान्यस्य यावत्कटकाङ्गदादिविशेषपार्थक्याऽसिद्धिः, शाखादियावदवयव - भिन्नस्य वृक्षादेवि यावद्विशेषभिन्नस्य सत्ताख्य महासामान्यस्याध्यनुपलब्धिवेति जानीहि, यथा च घटशशवोदञ्चनाद्यभिन्नमेव मृद्रव्यं, तथा कटककेयूराद्यमिन्नमेव सुवर्णद्रव्यम्, ऊर्ध्वतासामान्यवत्तिर्यगूसामान्यमपि व्यक्तिव्यतिरिक्तं नानुभूयत एव, सत्ताऽव्यतिरिक्ततयैव सर्वं घटपटादिकमवभासत इति महासत्तासामान्यमेव घटपटादिकमिति तदाभ्युपगन्तुं शक्येत, यदि प्रतीत सन्मात्रमुल्लिख्येत, न त्वेत्रम्, घटः सन् पटः सन्नित्येवं घटपटादीनामप्युल्लेखादित्युल्लिख्य मानभेदान्यथानुपपत्या घटपटादयोऽप्यभ्युपगन्तव्याः, न च घटपटादिकमनुलिख्य सन्मात्रोल्लेख शालिनी प्रतीतिः काचिदस्तीति । न च द्रव्योपयोगप्रभवानुगतप्रतीतिलक्षणसामान्योपलम्भस्य सद्भावात्सामान्यानुपलब्धेरित्यस्यैवाऽसिद्धिरिति वाच्यम्, जलाहरण व्रणपिण्डीप्रदानादिव्यवहारस्य घटनिम्बपत्रादिविशेषैरेव क्रियमाणस्य दर्शनेन सामान्यस्य व्यवहाराsनिर्वाहकत्वेन द्रव्योपयोगेन तद्ब्रहेऽपि तस्य दोषजन्यज्ञानतया श्रमत्वेन ततो वस्त्वसिद्धेरिति । तन्न सदेवास्तीत्येकान्तभावनाप्रवृत्तस्य द्रव्यार्थिकनयस्य परमार्थता | पर्यायास्तिकनयस्याप्येवं प्रवृत्तस्य न सेति पचार्द्धेन प्रतिपादयति- ' अवसेसो ' इत्यादिना । तत्रावशेषः - अवशिष्ट उपयुक्तादन्य इति यावत् स क इत्यत आह- ' वयणविही ' सत्ताविनिर्मुक्तविशेषप्रतिपादकवचनप्रकार इत्यर्थः । स च कीदृश इत्यत आह- ' पञ्जवमयणा सडिक्खो ' । पर्यायेषु सत्ताव्यतिरिक्तेष्वसत्सु भजनात् सत्ताया आरोपणात् सत्प्रतिपक्ष इति - सतः प्रतिपक्षः विरोधी, असदर्थप्रतिपादकत्वेन मिथ्येत्यर्थः । तथा च विशेष एवास्तीति वचनविधिः मिथ्या, सामान्यविनिर्मुक्तविशेषस्यासतः प्रतिपादकत्वात् स्वपुष्पवचनवदिति "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy