________________
सम्मति० काण्ड १, गा० ७
७
र्थिकपर्यायार्थिकनयार्पणाया प्रमाणार्पणापर्यवसायिश्वेन तथा प्राधान्येन द्रव्यपर्यायो मयोपेतत्वेनोपलम्भाच्चानेकान्तात्मकमेव वस्तु सदित्येवम्भूतार्थप्रतिपादनपरत्वेन परस्परसापेक्षम्, न तु विशेषाननुषक्तसामान्यमात्रावभासकं सामान्याननुषक्तपर्यायमात्रावभासक मित्येवं पृथगेकैकांश प्रतिपादनपरं परस्परनिरपेक्षं नयद्वयम्, तस्य मिध्यारूपत्वेन तद्विषयस्याप्यस पत्वादित्येतस्यार्थस्य प्रदर्शनार्थमाह
1
पंज
" पज्जवनिस्सामण्णं, वयणं दव्वद्वियस्स अस्थित्ति । अवसेसो वयणविही, पज्जव भयणा सपडिवक्त्रो ॥ ७ ॥ " इति ' पज्जवनिस्सामण्णं वयणं' पर्यायनयेन निस्सामान्यमसाधारणं वचनं, तत्कस्य कीदृशमित्यत आह - " दवद्वियस्स अत्थित्ति " द्रव्यार्थिकस्य - द्रव्यार्थिकन यस्य अस्तीत्वाकारकं पर्यायनयाभ्युपगतविशेषस्य सत्ताऽनुप्रवेशात् विशेषाननुषक्तसामान्यमात्र प्रतिपादकम्, यथा चैतद्वचनमेकान्तात्मकं मिथ्या, असदर्थप्रतिपादकत्वात्, तथा पर्यायनयवचनमपि सामान्याननुषक्तविशेषमात्रप्रतिपादकं मिथ्यैव तत्प्रतिपाद्यस्यार्थस्यास द्रवत्वादिति प्रतिपादयितुमाह - ' अबसेसो वयणविही ' अवशेषो वचनविधिर्वचनप्रकार: वभयणा' पर्यायभजनात् पर्यायेषु सत्ताया आरोपणात् अनुप्रवेशात् 'सपडिवक्खो' सत्प्रविपक्ष इति गाथा सङ्क्षिप्तार्थः । विस्तृतार्थस्त्वेवम् – ' पजवनिस्सामण्णं वयणं' निर्गतं सामान्यं साधारणस्वरूपं यस्मात्तन्निःसामान्यम्, असाधारणम्, पर्यायनयेन सह निस्सामान्य पर्यायनिस्सामान्यम्, एवंविधं वचनम्, पर्यायनयेन वस्तुप्रतिपत्तये यादृशं वचनं घटपटादिभेदप्रतिपादकं प्रतिक्षणमन्यान्यस्वरूप प्रतिपादकञ्चाम्युपगतं तादृशवचनसमानं यन भवति एवम्भूतं सत्तामात्रप्रतिपादकं वचनमिति यावत्, तरकस्येत्यत आह-- दव्वडियरस ' द्रव्यार्थिकनयस्य किं स्वरूपं तदित्यत आह-' अस्थित्ति ' अस्तीत्याकारकं सत्तासामान्यरूपाऽभिन्नार्थप्रतिपादकम् । ननु भेदवाद्यम्युपगत विशेषपदार्थोऽप्यस्तीति तत्प्रतिपादकमपि कथं न 'अस्ति ' इत्याकारकं वचनमिति चेत्, मैवम्, तस्य सत्तास्वरूपप्रवेशेनैव सद्रूपत्वात्, न हि तद्व्यतिरिक्तो विशेषो नाम पदार्थः कश्चिदनुभूयते, सदित्युक्ते वस्तुमात्रस्यैव बुद्धौ प्रतिभासनात्, सर्व सत्तामात्रमेव, न तदर्थान्तरं वस्तु किमप्यस्तीति न तत्प्रतिपादकमस्तीति वचनम् । एतद्वचनमपि मिथ्या, विशेषविनिर्मुक्तसत्ता व्यवहाराऽनुपयुक्तत्वेनाऽसद्रूपे त्यसदर्थप्रतिपादकत्वात्, वियत्कुसुमवचनवत् । व्यवहारानुपयुक्तत्वश्च वहनदोहनानयनादिविशेषक्रियाव्यतिरिक्तसामान्यक्रियायास्सत्सामान्य सा ध्याया ह्रियमाणत्वेन व्यवहियमाणायाश्च वहनदोहनादिविशेषक्रियाया अश्वगवादिविशेषसाध्यतयैवानुभूयमानत्वेन सामान्यमात्रविषयक व्यवहारस्य कस्यचिददर्शनेन सिद्धमेव । एतेन यदुव्यते सङ्ग्रहवादिना -
"Aho Shrutgyanam"
अव्यव.