SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सम्मति० काण्ड १, मा० ६ तत्रापि नाम नाकार-माकारो नाम नो विना । तौ विना नापि चान्योन्य, -मुत्तरावपि संस्थितौ ॥ ३ ॥ मयूराण्डर से यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योन्यमुन्मिश्रा, स्तद्वन्नामादयो घटे ॥ ४ ॥ " इति । अनुयोगद्वारसूत्रेऽप्युक्तम् - ७६ 46 ' जत्थ य जं जाणिजा, णिक्खेवं णिक्खिवे निरवसेसं । जत्थ वि न जाणिखा, चडकयं णिक्खेवे तत्थन्ति ॥ १ ॥ 33 अत्र यत्र निक्षेपान्तरं न जानीयात्तत्र चतुष्टयं निक्षिपेदित्यनेन चतुष्टयस्य व्यापिता स्फुटीकृता, यत्तत्पदाभ्यां निर्देशे यो धूमवान् स वह्निमानित्यत्रेव व्याप्तेर्लामावश्यकत्वादिति । तथा च यद्यद्वस्तु तत्तन्नामादिनिक्षेपचतुष्टयात्मकमिति पर्यवसायिनी सा व्याप्तिरिति तज्ज्ञानजन्याया अन्यथानुपद्यमानवस्तुत्व हेतुकायाः " वस्तुतत्वं नामादिनिक्षेप चतुष्टयात्मकम् " इत्यनुमितेचंस्तुमात्रं नामादिनिक्षेप चतुष्टयात्मकमेवेति सिद्धम् । तथा हि-एकस्मिन्नपि शचीपत्यादौ ' इन्द्र' इति ताम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु द्रव्यत्वम्, दिव्यरूप - संपत्ति - कुलिशधारण-परमैश्वर्यादिसंपन्नत्वं तु भाव इति चतुष्टयमपि प्रतीयते, तद्वदन्यवस्तुन्यपि ज्ञेयम्, उक्तञ्च - " जं वत्थुमस्थि लोए चउपजायं तयं सर्व्वं " इति ॥ अत्रान्यशङ्का तत्समाधानं निक्षेपसामान्यलक्षणश्च नामादिप्रत्येक निक्षेपानुगतलक्षणादिकं च यद्वन्थगौरवभीत्या न विवेचितं तत्सर्वमस्मत्कृततच्चार्थप्रथमाध्यायविवरण गूढार्थदीपिकाव्यटीकातो विस्तारार्थिनाऽव सेयमिति ॥ ६ ॥ एतदपि नयद्वयं शास्त्रस्य परमहृदयं तदैव यदैकानेकत्वेनानुभूयमाने वस्तुनि यदंशापेक्षयैकत्वं स एवांशी द्रव्यं यदंशापेक्षयाऽनेकत्वं स एवांशः पर्यायः, अत एव तत्तदप्रेक्षागर्भतत्तदनेक पर्याय करम्बितत्वाद् वस्तुनस्तथा तथा प्रयोगे तसदपेक्षा लाभार्थं स्यात्कारमेव प्रयुञ्जते सर्वत्र प्रामाणिकाः, अन्यथा निराकाङ्क्षमेव सर्व वाक्यं प्रसज्येत, तथा चाऽन्योऽन्यानुस्यूतद्रव्य पर्यायो मयात्मकमेव वस्तु परमार्थदृष्ट्या सत्, न त्वेकान्तद्रव्यार्थिकन याम्युपगतकल्पित पूर्वापरपर्यायान्वयिद्रव्यात्मकमेव वस्तु सत्, न वैकान्तपर्यायार्थिकन थोररीकृत प्रतिक्षणान्यान्यपर्यायात्मकमेव वस्तु सत्, अन्योन्याननुस्यूतद्रव्यपर्यायाऽनुपलम्भात् । यदुक्तम् द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपाः, दृष्टा मानेन केन वा १ ॥ १ ॥ तथा च वस्तुमात्रस्य द्रव्यार्थिकनयापेक्षया गुणीभूतपर्यायप्रधानीभूतद्रव्योपेतत्वेनेव पर्यायार्थिकनयापेक्षया गुणीभूतद्रव्यप्रधानीभूतपर्यायोपेतस्वेनाप्युपलम्भात् समुदितद्रव्या "Aho Shrutgyanam"
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy