________________
सम्मति० काण्ड १, गा०६ त्वेऽपि विशुद्धनगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमाद् न तत्र भावनिक्षेपानुप. पत्तिः, अत एव विशेष्यावश्यकनिर्युक्तायुक्तम्, " जीवो गुणपडिवनो णयस्स दवट्टियस्स सामाइअं" इति । अत्र हि समतापरिणामविशिष्ट जीवे सामायिकत्वं विधीयत इति । न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायार्थनयानां तु नैगमवदविशुद्ध्यभावाद् न नामाघभ्युपगन्तृत्वम् । वास्तवं तद्विषयत्वं तु नोक्तविभागव्याघाताय, स्वातन्त्र्येण पर्यायविषयत्वं त्वव्याहतमिति । ननु तथापि “नामाइतियं दबढियस्स मावो अ पञ्जवणयस्स" इति मङ्गलाधिकारेऽभिधाय "भावं चिय सहणया सेसा इच्छंति समणिक्खेवे" इत्यग्रे वदतां भाष्यकृतां कोऽभिप्रायः ? इति चेत् , अयमभिप्रायः-पूर्व शुद्धचरणोपयोगरूपभावमङ्गलाधिकारसम्बन्धाद् नैगमादिना जलाहरणादिरूपमावघटाभ्युपगमेऽपि घटोपयोगरूपमावघटानभ्युपगमात् तथोक्तिः, अग्रे तु व्यवस्थाधिकाराद् विशेषोक्तिरिति स्वातन्त्र्येण नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येत्यभिप्रेत्य नयान्तरेण वा पूर्व तथोक्तिः । अत एवोक्तं तत्वार्थवृत्तौ-अत्र चाऽऽद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य तथा तथा सर्वार्थत्वात् पाश्चात्यः पर्यायनयस्य तथापरिणतिविज्ञानाभ्यामिति । नयोपदेशेऽप्युक्तम्... " इष्टः शब्दनयैर्भावो, निक्षेपा निखिलाः परैः।
मतं मङ्गलवादेन्य-द्भिदां द्रव्याथिके नये ।। ८३ ॥ द्रव्याथै गुणवान् जीवः, पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं, यदिशाऽऽवश्यकादिषु ॥ ८४ ॥ घटोपयोगरूपो वा, भावो द्रव्यार्थिकेऽमतः। .
तेन तत्र त्रयं प्रोक्त-मिति जानीमहे वयम् ॥ ८५॥" इति । तदर्थस्तु विस्तरार्थिभिस्तडीकात एवावसेयः। ग्रन्थगौरवभीत्येह न प्रतन्यते । ननु द्रव्यार्थिकपर्यायार्थिकयोमिथो विवादे सति मे मनः सन्देहदोलामधिरोहति, किमत्र तत्रमिति चेत् ? उच्यते, पृथग्रूपयोस्तयोर्मध्यादृष्टित्वं समुदितयोश्च तयोस्सम्यग्दृष्टित्वमिति परस्परसापेक्षतदुभयनयापेक्षया नामादिचतुष्टयात्मकमेव वस्तु तत्वमिति निश्चिनु, नामादिनिक्षेपचतुष्टयात्मकतयैव वस्तुमात्रस्यानुभवात् , अनुमवाधीना हि वस्तुव्यवस्थितिः । तदुक्तम्
" संविनिष्ठव सर्वाऽपि, विषयाणां व्यवस्थितिः । सम्वेदनं च नामादि,-विकलं नानुभूयते ॥ १ ॥ तथाहिघटोऽयमिति नामैतत्, पृथुबुध्नादिनाऽऽकृतिः। मृद्रव्यं भवनं भायो, घटे दृष्टं चतुष्टयम् ॥ २॥ .
"Aho Shrutgyanam"