________________
धम्मति. काग १,.. भ्युपगन्ता स द्रव्यार्थिक इत्यस्यासाधारणस्वरूपस्य हानिस्स्यात् , भावस्य पर्यायरूपस्य तेन स्वीकारेण तत्प्रतिक्षेपाऽकरणात् । अथ लोके यस्य प्राधान्यं तेनैव व्यवहारः, यथा राजाऽऽगत इति सामन्तादयोऽप्यागताः, एवञ्च सति द्रव्यार्थिकनयो द्रव्यं प्रधानतयैवाभ्युपगच्छतीति तत्र न द्रव्यार्थिकत्वहानिरिति तेनैव स व्यवहर्त्तव्यः स्यादेव, भावन्तु गौणतयाऽभ्युपगच्छतीत्येतावता स भावनिक्षेपाभ्युपगन्तेति चेत् , हन्त तर्हि शब्दादित्रिनयाः पर्यायं प्रधानतया. भ्युपगच्छन्तीति पर्यायार्थिकन यस्यैव भेदरूपा इति तत्स्वरूपेणैव व्यवहर्तव्याः, द्रव्यं गौणतयोररीकुर्वन्तीति त्वदुक्तरीत्या द्रव्यनिक्षेपाभ्युपगन्तारश्च स्युः । एवञ्च सति " मावं चिय सद्दणया' इत्यादिप्रागुक्तभाष्यवचनसम्बादव्याघातः। अथ यद्यपि द्रव्यार्थिकनयपर्यायार्थिकनययोर्यथाक्रमं गौणतया पर्यायद्रव्याभ्युपगमः, तथापि तत्र द्रव्यार्थिको द्रव्यपर्यायौ मिथोऽभिनौ एकत्वमापनाविच्छतीति द्रव्यादव्यतिरिक्तं पर्यायमभ्युपगच्छन् स पर्यायार्थिकाद्भिः परिकलितः । पर्यायार्थिकस्तु द्रव्यपर्यायौ परस्परं भिन्नावेवेच्छतीति द्रव्याद्भिन्न पर्याय मनुते, अतोऽसौ द्रव्यार्थिकाद्भिन इष्यते, तथा चानयोभिन्नतैव न पुनरेकतेति, अत्रानुमानश्चैवम्-द्रव्यार्थिकः पर्यायार्थिकाद्भिन्नः द्रव्यपर्याययोरत्यन्तमभेदाभ्युपगन्तृत्वात् , पर्यायार्थिकनयश्च द्रव्यार्थिकन याद्भिन्नः तयोरत्यन्त भेदाऽभ्युपगन्तत्वात् , अत एव मिथ्यादृष्टी च प्रत्येकमेती, द्रव्यार्थिकेन द्रव्यपर्याययोरेकान्तेनैकत्व. ग्रहणात्, पर्यायार्थिकनयेन तु तयोरेकान्तेनान्यत्वग्रहणात् , तथा च द्रव्यार्थिकन यस्यापि पर्यायाभ्युपगन्तृत्वमिति चेत्, मैत्रम् , एवं सति पर्यायार्थिकस्य शब्दादिनयस्यापि द्रव्या. भ्युपगन्तृत्वापत्तेः। अत्यन्तभेदाभेदग्राहिणोईयोस्समुदितयोरपि मिथ्यादृष्टित्वप्रसङ्गाच्च । किञ्च द्रव्यार्थिकनयेन द्रव्यपर्याययोरेकत्वमभ्युपगम्यत इति त्वया इयमाणे द्रव्यस्येव सदभिन्न गुणस्यापि द्रव्यत्वप्रसक्त्या 'द्रव्यं' 'गुण' इति शब्दद्वयमेकार्थवाचकत्वादिन्द्र. पुरन्दरादिशब्दवत् पर्यायरूपं स्यात् , एवश्च सहोक्तिर्न स्यात् , अर्थात् द्रव्यगुणशब्दयोर. भेदसम्बन्धेनेतरपदार्थान्वितस्वार्थवोधकवलक्षण सामानाधिकरण्यं स्वप्रयोज्याभेदसम्बन्धा. वच्छिन्नप्रकास्तानिरूपितविशेष्यताप्रयोजकत्वस्वप्रयोज्यविशेष्यतानिरूपिताभेदसम्बन्धावछिन्नप्रकारताप्रयोजकत्वान्यतरवत्वपर्यवसायि न स्यादिति गुणो द्रव्यमिति द्रव्यार्थिकनयाभिलापानुपपत्तिस्स्यात् , यतो न हि कोऽपि प्रेक्षावान् पुमान् घटो नील इतिवद् घटः कलश इति वक्ति, प्रवृत्तिनिमित्तभेदेनैवाभेदव्यवहारसद्भावेन प्रकृते पर्यायशब्दप्रवृत्तिनिमित्त. मेदाभावात् । तथा च द्रव्यगुणपदान्यतरस्यैव प्रयोगस्स्यात् । एवं यदि परस्परमत्यन्त - मिन्नस्य द्रव्यपर्यायोभयस्य ग्राहकः पर्यायनय इति त्वयेष्यमाणे पर्यायार्थिकेनापि द्रव्य. आहे द्रव्यार्थिकनयस्यान्तर्गडुत्वप्रसक्तिरस्यात् , द्रव्यपर्यायोभयान्तर्गतद्रव्यपक्षे पर्याय नय. मतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गश्च स्यादिति चेत्, अत्र शास्त्रवार्तासमुच्चये यथोपाध्यायैः पर्यालोचितं तथोच्यते, अविशुद्धानां नैगमादिभेदानां नामाद्यभ्युपगमप्रवण
"Aho Shrutgyanam"