________________
अम्मति० काम , गां. . मावस्योपयोगलक्षणस्वाद , उक्तलक्षणमावस्तु पर्यायार्थिकनयमतेन निक्षेपः, तस्य प्रतिक्षणमन्यान्यरूपतया पर्यायार्थिकनयगोचरत्वादिति । 'एस परमत्थो' एष:-एष एव नयनिशेपानुयोगप्रतिपादित उभयनयप्रविभागः, परमार्थः परमं हृदयमागमस्य, एतद्विषयाsव्यतिरिक्तविषयत्वात् सर्वनयवादानाम् , न हि शास्त्रपरमहृदयनयद्वयव्यतिरिक्तः कश्चिन्मयो विद्यते, सामान्यविशेषस्वरूपविषयद्वयव्यतिरिक्तविषयान्तराभावात् विषयिणोऽप्यपरस्य नयान्तरस्याभाव इति । अत्रेदमवधेयम् --द्रव्यार्थिकनयेन नामस्थापनाद्रव्याख्यास्त्रयो निक्षेपा अभ्युपगता, पर्यायार्थिकनयेन च मात्र एवेति महनीयमान्यश्रीसिद्धसेनदिवाकराणां मतेन सहव्यवहाग्योः पूज्यपादश्रीदेवसूरीणां मतेन तु नैगमसहव्यवहाराणां द्रव्यार्थिकनयभेदत्तात्तद्वत्तैरपि त एव त्रयो निक्षेपा अभ्युपगताः, ऋजुसूत्रशन्दसमभिरूद्वैवम्भूतनयानां पर्यायार्थिकनय भेदत्वात्तद्वत्तरपि भाव एव निक्षेपोऽभ्युपगतः। अथर्जुसूत्रनया पर्यायार्थिक नयस्यैव भेद इत्यभ्युपगमे " उज्जुसू अस्स एगे अणुवउत्ते एगं दवावस्सयं पुहृत्तं नेच्छा" इत्यनुयोगद्वारस्त्रविरोधस्स्यादिति चेत्, मैवम् , यतोऽसौ नयोऽतीतं विनष्टत्वेनानागत. श्वाऽनुत्पन्नत्वेन नाभ्युपगच्छति, किन्तु वर्तमानमेव वस्त्वम्युपगच्छति, तदपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् स्वधनवन, न तु परकीयं, स्वकार्याऽसाधकत्वात् परधनवत् , तथा चातीतानागतभेदतः परकीयमेदतश्च पृथक्त्वं नेच्छत्यसो नय इत्यतोऽतीतानागत. वर्तमान मेदभिन्नस्वकीयपरकीयमेदभिन्नलिखिलव्यत्यनुगतसदृशपरिणतिलक्षणतिर्यक्सामा. न्यस्य पूर्वापरपर्यायानुगतोव॑तासामान्यस्य चानभ्युपगमानास्य नयस्य तुल्यांशध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नास्यासद्घटितभूतभाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि, उक्तसूत्रं तु 'अणुवओगो दवं ' इति द्रव्यलक्षणमाश्रित्याऽनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम्, पर्यायार्थिकन येन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपादिति पूज्यपादश्रीसिद्धसेनदिवाकरमताद्यनुसारिणस्समादधते । सैद्धान्तिकास्तु नोक्तं समीचीनं मन्यन्ते, नामादिवदनुपचरितद्रव्यनिक्षेपप्रदर्शनपरत्वादुक्तसूत्रस्य, न चेदेवं, तर्हि अन्दादिनयेष्वपि कश्चिदुपचारेण द्रव्यनिक्षेपप्रसङ्गात् , पृथक्त्वनिषेधेऽपृथक्वेन द्रव्यविधेरा. वश्यकत्वात् , एकविशेषनिषेधस्य तदितरविशेषविधिपर्यवसायित्वादिति । तथा च सैद्धान्तिकमसेन द्रव्यार्थिकनयस्य नामादयश्चत्वारोऽपि निक्षेपा अभिमताः, पर्यायार्थिकनयस्य भाव एवको निक्षेपः, यदाह भगवान् जिनभद्रगणिक्षमाश्रमण:-" भावं चिय सद्दणया सेसा इच्छन्ति सक्षणिक्खेवे" इति। अत एव चरणगुणस्थितस्य साधोः सर्वनयविशुद्धत्वे सर्वनयानां भावग्राहित्वं हेतुतयोहावितम् , अत एव नैगम-सबह-व्यवहार सूत्राणां मतेऽपि चत्वासे निक्षेपाः, तेषां द्रव्यार्थिकमेदत्वात् , शब्दसमभिरूढैवम्भूतानां तु भावनिक्षेप एव, पर्यायार्थिक मेदत्वादेषाम् । स्यादेतद् द्रव्याथिकनयेन नामादिनिक्षेपचतुष्टयाभ्युपगमे यो द्रव्यस्यैवा
"Aho Shrutgyanam"