________________
सम्मति• काम 1, मा.. न्द्रादिरिवेन्द्रादिलक्ष्यते स सद्भावस्थापना, भावेन्द्रभावजिनाधाकृतिविनिर्मुक्तो योऽशवराटकादिरिन्द्रोऽयमिति जिनोऽयमितिबुद्ध्या स्थाप्यमानस्सोऽसद्भावस्थापना । उक्तश
'लेप्पगहस्थी हस्थित्ति एस सब्भाविया भवे ठवणा। . .
__ होइ असम्भावे पुण हस्थित्ति निरागिई अक्खो ॥१॥" इति । तदुभयस्थापनानुगतलक्षणं तूक्तमेवावसेयम् । द्रवति पूर्वापरपर्यायाश्रयतयाऽविच. लिवस्वभावेन ताँस्तान् पर्यायान् पूर्वापरीभूतान् गच्छतीति व्युत्पत्त्या पूर्वोत्तरपर्यायानुगामिवया त्रिकालानुयायि यत्तद्रव्यम् । तच्च भूतभाविपर्यायकारणत्वात् चेतनमचेतनं वा अनुपचरितमेव द्रव्यार्थिकनिक्षेपः । यद्वा अनुभूतपर्यायमनुभविष्यत्पर्यायश्चैकमेव द्रव्यम् , तेनानुभूतपर्यायशब्देन तत्कदाचिदभिधीयते, कदाचिचानुभविष्यत्पर्यायशब्देन, यथा अतीतघृतसम्बन्धो घटो 'घृतघटः' इत्यभिधीयते, भविष्यत्तत्सम्बन्धोऽपि तथैवाभिधानगोचरचारी । अयम्भावः-यद्वस्तु भूतकाले विवक्षितपर्यायरूपेण परिणतं तद्वस्तु भूतपर्यायकारणस्वात् कारणे कार्योपचारं कृत्वा वर्तमानकाले द्रव्यरूपमुच्यते, यथा अनुभूतदेवेन्द्रत्वपर्यायो मनुष्यो द्रव्येन्द्रः, अनुभूतधृताधारस्वपर्यायोऽयं धृतघटा, यच्च वस्तु भविष्यत्काले विवक्षितपर्यायरूपेण परिणस्यति तद्वस्तु भविष्यत्पर्यायकारणत्वाद्वर्त्तमानकाले भविष्यत्पर्यायापेक्षया द्रव्यरूपमभिधीयते, यथा अनुभविष्यद्देवेन्द्रत्वपर्यायाहस्साधुश्राद्धो वा द्रव्येन्द्रः, उक्तञ्चोपदेशपदे"बेमाणिओववाउत्ति दव्वदेवो जहा साहू" ॥२५५॥ इति ॥ अन्यत्राप्युक्तम्
"मिउपिंडो दवघडो, सुसावगो तह य दव्वसाहुत्ति ।
साहू य दम्वदेवो, एमाइ सुए जओ भणिअं ॥ १ ॥” इति ।। अनुभविष्यद्धृताधारत्वपर्यायाहों घृतघट इति वा । शुद्धपर्यायास्तिकमतेन घटोपयोग एव भावघट इति वर्तमानकालावच्छिन्नघटोपयोगरहितमपि तत्पर्यायेणातीतेन परिणतमनांगतेन च परिणस्यद्वा द्रव्यं तच्छन्दवाच्यं द्रव्यार्थिकनयमतेन व्यवस्थितम्, भूतभविज्यघटोपयोगात्मकमावघटकारणत्वादिति । भवति विवक्षितवर्तमानसमयपर्यायरूपेणो. स्पद्यते इति भावः । अथवा भूतिर्भावः भवनं वा भावो वजकिरीटादिधारणलक्षणवर्तमानपर्यायेणेन्द्रादिरूपतया वस्तुनः परिणमन भावः । यदभिहितम्
" भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः।
सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात् ॥ १ ॥” इति । - यद्वा वनकिरीटादिधारणोपशोभितेन्द्रादिवस्तु ग्रहणपर्यायेण ज्ञानस्य भवनम् , अर्थात् वनकिरीटादिधारणविशिष्टेन्द्रादिवस्त्वगाहिज्ञानात्मकोपयोगो भावः, शब्दादिनयत्रयमते
"Aho Shrutgyanam"